पृष्ठम्:न्यायमकरन्दः.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आत्मनः स्वप्रकाशत्वसमर्थनम । मृ०-वर्तमाना स्वव्याप्यामपि संविदधीनप्रकाशतां सं वेदितुः संविद इव व्यावर्तयति वृक्षतेव व्यावर्तमाना स्वव्याप्यमपि शिंशपात्वम्, अत्र प्रयोगः–संवेदिता न संविदधीनप्रकाश संवित्कर्मतामन्तरणापरोक्षत्वात्संवेदनवदितेि , ॥ तदेवं प्रसिद्धः प्रसक्तप्रतिषेधः, तथा च परिशेष प्रसिद्धा पुरुषस्यापराधीनप्रकाशता कथमपन्हयेत, । १३५ टी०-काशं तत्संवेद्यत्वं व्यापकै व्यावर्तमानै स्वव्याप्यै संविदधीनप्र काशत्वमप्यादाय व्यावर्तत इत्यर्थः);',-* अत्र प्रयोग' इति । ननु किमत्र संविजन्यप्रकाशविषयताभावः साध्यते किं वा सं : विजन्यव्यवहारविषयत्वाभावः, आद्ये सिद्धसाधनता संविजन्य झानांतरस्य झाताया वानञ्भ्युपगमेन तद्भावस्य सिद्धत्वाद्, नावि द्वितीय: संविदोपि संविजन्यव्यवहारविषयतया दृष्टांतस्य साध्य विकलत्वादिति चेद्, मैवं, संविदतिरिक्तत्वे संविज्जन्यव्यवहारवि षयत्वाभावस्य, संवित्वे सति संविदधीनव्यवहारविषयत्वस्य वा प्रसाधनेनोदीरितदूषणगणातिक्रमाद्, असंविदधीनप्रकाश इति वा थे, । संविातिषु भासते तस्यां संविद् िभासत इति वदौपचारिक प्रयोगे सतेि यथाश्रुतमादाय तद्विघाते कुतोस्य नवकंवलवच्छलत्वा पत्तेः, अत्र चव घटादिषु व्यभिचारनिवारणार्थ-संवित्कर्मतामंतरेण इत्युक्त, नित्यपरोक्षेषु व्यभिचारनिवारणार्थम-अपरोक्षत्वादित्युक्त। न चापरोक्षज्ञानविषयत्वाभावेनापरोक्षत्वादित्यि हेतुरिति वाच्यं ज्ञानवदतिरिक्तसाधारण्येनापरोक्षव्यवहारविषयस्यैवापरोक्षत्वेनाभ्यु पगमादितिभाव., ॥ अस्तु प्रस्तुते किमायातमित्यत आह तदेवम् ?” इति ।

  • ()एतचिन्हान्तवत पाठोपि पूर्ववदागन्तुक इतिज्ञेयम् ।

८८