पृष्ठम्:न्यायमकरन्दः.djvu/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हरिः ॐ नमः श्रीकृष्णाय । अथ आचार्यचित्सुखमुनिविरचितव्याख्योपेतः श्रीमदानन्दबोध भट्टारकाचार्यसंगृहीतेो न्यायमकरन्दोऽनेनैव निर्मिते प्रमाणमाला न्यायदीपावली चेति निबन्धरत्नानि संमुद्यु प्रकाशितानि वरीवृतति। तत्र सव्याख्यो न्यायमकरन्दः श्रीमदुदासीनप्रवरश्रीसत्प्रकाश खामिशिष्यश्रीबालरामखामिभिः संशोधितः । अनन्तरं तेषु स माधिस्थेषु तैरेव लेखयित्वा संशोधितं प्रमाणमाला न्यायदीपावलि श्धेति प्रन्थद्वयं समवलम्ब्य तदनुसारेणैव संशोधितवानस्मि । अत्र संशोधने जातानां मदीयस्खलितानां क्षमायै सन्तो मया सत्पक्षपातिनो हँसा नूनं नालीकवलुभाः । गुणं गृहीत मा दोषं नीरक्षीरविवेकिनः ॥ १ ॥ रत्नगोपालभट्टः ।