सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
202
शङ्करविजये

अङ्गुष्ठमारभ्य समीरणं नयन्
करन्ध्रमार्गाद्बहिरेत्य योगवित् ।
करन्ध्रमार्गेण शनैः प्रविष्टवान्
मृतस्य यावच्चरणाग्रमेकधीः ॥ ६६ ॥

गात्रं परासोर्वसुधाधिपस्य
शनैस्समस्पन्दत हृत्प्रदशे ।
तथोदमीलन्नयनं क्रमेण
तथोदतिष्ठच्च यथापुरेदम् ॥ ६७ ॥

पौरा अमात्यास्तन​याः स्वबान्धवाः
दृष्ट्वा महिष्यस्सहसोत्थितं मृतम् ।
जहुश्शुचं मोद​मवापुरुत्तमं
मृते समायाति न कस्य जायते ॥ ६८ ॥

पूजां व्यधुः केचन दैवतानां
केचिद्ददुर्गामपरे हिरण्यम् ।
कृते महीपस्य तदाथ हृष्टाः
सोपायनाः केचिदुपासताग्रे ॥ ६९ ॥

पुरेव भोगान्बुभुजे महीभृत्
स भोगिनीभिस्सहितो व्यरंस्त ।
कन्दर्पशास्त्रानुगतः प्रवीणो
वात्स्यायनं तच्च निरैक्षताद्धा ॥ ७० ॥

वात्स्यायनप्रोदितसूत्रजातं
तदीयभाष्यञ्च 1निवीक्ष्य सर्वम् ।
स्वयं व्यधत्ताभिनवार्थगर्भ-
निबन्धमेकं नृपवेषधारी ॥ ७१ ॥


1अ. निरीक्ष्य सम्यक् ।