सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
186
शङ्करविजये

स विरजन्भववर्त्म​नि सर्ववित्
व्यधित संन्य1सने किल मानसम् ।
पतति कूपतले बहुकण्टके
न हि विलोचनवान् सहजान्धवत् ॥ १२६ ॥

मम न मानसमिच्छति संसृतिं
न च पुनर्जननीं विजहासति ।
न च गुरुर्जननी न उदीक्षते
तदनुशासनमीषदपेक्षितम् ॥ १२७ ॥

इति विचिन्त्य स जातु मिमङ्क्षया
बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीत्
जलचरश्चरणे जलमीयुषम् ॥ १२८ ॥

स च रुरोद जले जलचारिणा
धृतपदो हरतेऽम्ब करोमि किम् ।
चलितुमेकपदं न च पारये
बलवता विधृतो2ऽत्र मुखेन हा ॥ १२९ ॥

गृहगता जननी तदुपाशृणोत्
परवशा द्रुतमाप सरित्तठम् ।
अमृत मे प्रथमैं शरणं धव-
स्तदनु मे शरणं तनयो भवान् ॥ १३० ॥

स च मरिष्यति नक्र​वशं गत-
श्शिव न मेंऽजनि हन्त पुरा मृतिः ।
इति शुशोच जनन्यपि तीरगा
जलगातत्मजवक्त्रगतेक्षणा ॥ १३१ ॥


1अ. संन्यसितुं । 2अ. विवृतोरुमुखेन ।