तुङ्गैश्शृङ्गैरुच्छ्रितं सह्यशैलं
1प्रापन्भ्रान्ता शाङ्करीया विनेयाः ।
यस्मान्नद्यो लब्धजन्मान उच्चै-
र्वारांनाथं यान्ति भर्तारमग्र्यम् ॥ १८ ॥
2उद्यच्छिरोलम्बिसुदीर्घपुच्छै-
र्गजेन्द्रकुम्भस्थलभेदनोत्कैः ।
प्रसारिताङ्गैर्लघु लङ्घमानै-
र्निषेवितं सिह्मगणैर्नदद्भिः ॥ १९ ॥
एणैस्सशावैश्वटुलायताक्षैः
किञ्चित्परावृतमुग्वैस्सुभीतैः ।
समुच्चलद्भिस्सकृदीक्षमाणै-
र्निषेव्यमाणं मधुराङ्गशोभैः ॥ २० ॥
बृहच्छिलानामुपरि प्रविष्टै-
स्सङ्कोचिताङ्गैर्बहु गर्जयद्भिः ।
व्यात्ताननैर्मूर्छितचञ्चलैणै-
रध्यासितं व्याघ्रगणैः क्वचिच्च ॥ २१ ॥
अनेकपादैर्बहुगण्डवप्रै-
र्गलज्जलैरुन्नतकुम्भकूटैः ।
विलम्बिलाङ्गूलकरश्मिदीप्तैः
निषेव्यमाणं करिभिस्सुरूपैः ॥ २२ ॥
मुनिजनैस्सहसा समुपयिवान्
परिजनस्समवोचत कश्चन ।
गिरिवरेक्षणविस्मितमानसः
शुचिमनाश्शुचिदन्तधरो द्विजः ॥ २३ ॥
1अ. दान्ताः । 2का. उद्यच्छिरोभिः पृथुदीर्घपुच्छैः
Sankara----10