सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
132
शङ्करविजये

शिष्या विदन्ति यदि चिन्तितकार्यमेत-
द्योगिन् मदेकशरणा विहतं विदध्युः ।
को वा सहेत वपुरेतदपोहितुं स्वं
को वा क्षमेत निजनाथशरीर1मोषम् ॥ ४३ ॥

तौ सेविदं व्यतनुतामिति संप्रहृष्टौ
योगी जगाम मुदितो निलयं मनस्वी ।
श्रीशङ्करोऽपि निजघामनि जोषमास्त
नो2 चेद कञ्चिदपि भावमसौ सनोगम् ॥ ४४ ॥

शूली त्रिपुण्ड्री परितो विलोकी
कङ्कालमालाकृतगात्रभूषः ।
संरक्तनेत्रो मदघूर्णिताक्षो
योगी ययौ देशिकवासभूमिम् ॥ ४५ ॥

शिष्येषु 3शिष्टेष्वपि दूरगेषु
स्नानादिकार्याय विविक्तभाजि ।
श्रीदेशिकेन्द्रे च सनन्दनाख्ये
भीत्या स्वदेहं व्यवधाय गूढे ॥ ४६ ॥

तं भैरवाकारमुदीक्ष्य​ देशिक
स्त्यक्तुं शरीरं व्यधिन स्वयं मनः ।
आत्मानमात्म4न्युदयुङ्क्त​ योजयन्
समाहितात्मा करणानि संहरन् ॥ ४७ ॥

त्रिशूलमुद्यम्य निहन्तुकामं
गुरुं य​तात्मा तमुदैक्षतान्तः ।
स्थितश्चुकोप ज्वलिताग्निकल्प-
स्स नन्दनो नाम गुरोर्हितैषी ॥ ४८ ॥


1अ. मोक्षम् । 2अ. नोवाच ।

3अ. शिष्टेषु विदूरगेषु । 4का. न्यधियुक्त​ ।