सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
130
शङ्करविजये

श्रुत्वा किञ्चित्खेद​मापेदिवान् स
मत्वा मत्वा धैर्यमापेदिवान्सः ।
श्रावं श्रावं मातुलेयस्य तीव्रं
दाहं गेहस्यानुकम्पां व्यधत्त ॥ ३० ॥

विश्वस्य मां निहितवानसि पुस्तमारं
तञ्चाद:द्धुत​वहः परितः प्रमादात् ।
तावान्न मे सदनदाहकृतोऽनुतापो
यावांस्तु पुस्तकविनाशकृतो मम स्यात् ॥ ३१ ॥

इत्थं ब्रुवन्तं 1तमथाभ्यमाणीत्
पुस्तं गतं बुद्धिरवस्थिता मे ।
उक्त्वा समारब्ध पुनश्च टीकां
कर्तुं स धीरो यतिवृन्दवन्द्यः ॥ ३२ ॥

दृष्ट्वा बुद्धिं मातुलस्तस्य भूयो
भीतः प्रास्यद्भोजनं तन्मतिघ्न​म् ।
किञ्चिद्द्रव्यं पूर्ववन्नोऽक्षमिष्2
ठीकां कर्तुं केचिदेव ब्रुवन्ति ॥ ३३ ॥

इत्थं स तीर्थनिक​रं परिषेव्य शान्तो
द्रष्टुं ययौ स्वगुरुमेव पुनस्स तस्मै ।
देशाय यत्र वसति स्म स देशिकेन्द्र-
स्तस्मै नमो व्यधित 3वृत्तमथोऽभ्यधत्त ॥ ३४ ॥

शिरःकपालं किल देशिकस्य ख​ण्डं जनाः प्राहुरदो जिघृक्षुः ।
कश्चित्सिषेवे बहुघस्र​मेनं योगी जितात्मा बडुसिद्धिकामः ॥ ३५ ॥


1अ. मथ न्यगादीत् । 2अ. नाक्षमिष्ट ।

3अ. अथ; का. अथाभ्यधात्सः ।