सामग्री पर जाएँ

पृष्ठम्:शङ्करविजयः.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
129
नवमस्सर्गः

आत्मात्मजाया क्षणदाचराणां
1शिरोविलेखे मनसात्र पश्यन् ।
म​न्ये बिभेद स्वशरासनेन
.... त्रिधासौ कृतकृत्य​ 2आयन् ॥ २४ ॥

तीर्थेऽत्र मज्जनकृतां फलमन्यतीर्था-
ज्जायेत कोटिगुणितन्त्विति सूचनाय ।
कोट्या ध्रुवं स्वधनुषो बिभिदे स राम-
स्सेतुं विभेदनविधौ बहुसाधनोऽपि ॥ २५ ॥

धनुष्कोठौ तीर्थे मुनिजननिषेव्येऽमितफले
कृत​स्नाना धन्या जहति दुरितं दुष्परिहरम् ।
विधूतांहोजालाः परिचितसुरा नन्दनवने
सदा सङ्क्रीडन्ते प्रचुरतरभोगैरुपचितः ॥ २६ ॥

आसाद्य 3तीर्थमिदमक्षयपुण्यघस्त्रे
स्नात्वा बलेन ददतोऽस्य फलं न मेयम् ।
दत्तं 4पणं द्विगुणतामुपयाति काला-
त्तीर्थे वितीर्ण​मधुनैव बहुत्वमेति ॥ २७ ॥

रामेत्युदीर्य बहुशः खलु तीर्थदृश्वा
मुच्येत दोषनिवहात्किमु मज्जनादेः ।
आयान्ति तीर्थतनवो मुनयोऽप्यमुष्मा-
देष्यन्निहन्तुमनसो5 दुरितं प्रमादात् ॥ २८ ॥

आदिश्यैवं भिक्षुराजस्सशिष्य
स्सेतुं दृष्ट्वा पुण्यतीर्थं निषेप्य ।
पश्यन्देशान्मातुलीयं जगाम
गेहं दाहं तस्य पुस्तेन सार्धम् ॥ २९ ॥


1अ. विलेखान् । 2अ. आसीत् ।

3अ. पुण्यं । 4अ. फलं ।

5अ. अनघा ।

Sankara--9