सत्तीर्थसेवा मनतः प्रसादिनी
देशस्य वाक्षा मनसः कुतूहलम् ।
क्षिणोति [१]चार्थान् स्खजनेन सङ्गम-
स्तस्मान्न कस्मै भ्रमणं विरोचते ।। ८७ ।।
अठाट्यमानोऽपि [२]विदेशसङ्गतिं
लभेत [३]विद्वान्विदुषाभिसङ्गतिम् ।
बुधो बुधानां [४]खलु [५]मित्रमीरितं
खलेन मैत्री न विराव तिष्ठति ॥ ८८ ॥
समीपवासोऽयमुदीरितो गुरो-
विदेशगं यद्धृदयेन धारयेत् ।
समीपगोऽप्येष न संस्थेितोऽन्तिके
न भक्तिहीनो यदि धारयेद्धृदि ८९ ॥
सुजनस्सुजनेन सङ्गतः परिपुष्णाति मतिं शनैःशनैः ।
परिपुष्टमतिर्विवेकंभाक् स्यात्, शनकैर्हेयगुणं समुज्झति ॥९०॥
यद्याग्रहोऽस्ति तव तीर्थानिषेवणायां
विघ्नो मयात्र न रवलु क्रियते पुमर्थे ।
चित्तस्थिरत्वगतये विहितो निषेधे
मा भूद्विशेषगमनन्त्वतिदुः रवहेतुः ॥ ९१ ॥
नैको मार्गे बहुजनपदक्षेत्रतीर्थानि याया-
श्रोराध्वानं परिहर सुखन्त्वन्यमार्गेण याहि ।
विप्राग्र्याणां वसतिीविततिर्यत्र वस्तव्यमीष-
न्नो चेत्सार्घंप्रचितजनैश्शीघ्रमुत्तिश् परिचितजनैश्शीघ्रमुत्तिष्ठ[६] देशम् ॥ ९२ ॥
पृष्ठम्:शङ्करविजयः.djvu/११७
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
91
सप्तमस्सर्गः