श्रीशङ्करोऽष्टमसमश्चतुरोऽपि वेदान्
स द्वादशे सकलशास्त्रकलामवाप ।
संव्याप देशनिचयं निगमप्रसून
सच्छास्त्रसद्विठपकोऽमितशाकपूर्णः1 ॥ ६५ ॥
तीर्थानि सेवितुमनास्स 2ययावुदीचीं
काष्ठां क्षणेन बदरीं 3मुनिसङ्घजुष्टाम् ।
संप्राप तत्र च दिनानि वहून्यवात्सी
द्विद्वज्जनैर्बहुविधैरुपसेव्यमानः ॥ ६६ ॥
श्रीशङ्कराचार्यगभस्तिमाली
श्रीव्याससूत्राम्बुजकुड्मलानि ।
वेदान्तकासारसमुद्भवानि
प्राबूबुघद्ब्रह्ममधुव्रतानि ॥ ६७ ॥
श्रीशङ्कराचार्यरवावुदेत्य
प्रकाशमाने कुमतिप्रणीताः ।
5त्याख्यान्धकाराः प्रलयं समीयु-
र्दुर्वादिचन्द्राः प्रभया वियुक्ताः ॥ ६८ ॥
श्रीशङ्कराचार्य दिवाकरेण
प्रकाशितास्सूत्रपयोजषण्डाः ।
बमौतरा व्यासमुनिस्तटाको
वेदान्त5विद्यो विनिगूढवर्यः ॥ ६९ ॥
आत्मीयसूत्रनिकरस्य 6निबद्धभाष्यं
श्रुत्वा पराशरसुतो मुनिराजगाम ।
दृष्ट्वा मिथो8ऽप्यतनुनामुचितां सपर्यां
तं स्माह शङ्करमुनिर्मुदितो यतीन्द्रः ॥ ७० ॥
1अ. शङ्करद्रुः । 2अ. ययावुदीचीकाष्ठां क्रमेण ।; का. यथाप्रतीचो काष्ठां क्रमेण ।
3अ. वृन्द । 4अ. प्राबोधयत् ।
5अ. व्याख्याप्रकाराः । 6अ. वेद्यो ।; का देहोऽपि निगूढचर्यः ।
7अ. निवन्ध । 8अ. व्यतनुतां ।