सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/228

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८३
त्रिप्रश्नाधिकार:


फल विशोध्यते तावत् प्राच्यपराशड कुमूलयोरन्तरमवशिष्यते । सैव दृग्ज्या। एवं सौम्या चेत्युपपन्नम् ॥ ३७ ॥

इदानी प्रकारान्तरेणाह--
गोलक्रमात् तद्धृतिहीनयुक्ता हृतिः पलक्षेत्रभुजेन निघ्नी ।
तत्कर्णभक्ता भवतीह दृग्ज्या प्रद्योतने वा द्युदल प्रयाते' ।।३८।।

 वर० भा०-हतिरुत्गारगोले तद्धृत्या हीना दक्षिणे युक्ता साष्टधाष्टभिः पलक्षेत्रभुजैर्गुण्या स्वस्वकणेंन भाज्या फलमष्टधा दृग्ज्या स्यात् ।

 अत्रोपपत्तिः-अहोरात्रवृत्सममण्डलसंपातयोः पूर्वपश्चिमयोर्यद्बद्ध तस्य या म्योत्तरवृत्तसंपाते निबद्धहृतिसूत्रस्योदयास्तसूत्रपर्यन्तस्य यः सम्पातस्तस्मादधस्तनं हृतिखण्डं तद्धृतितुल्यं भवति । अतस्तेनोनिता हृतिरूध्र्वखण्डं समसूत्राद्दक्षिणतोऽक्षकर्णगत्यार्क पर्यन्तं भवति । अतस्तेनानुपातः--यद्यक्षक्षेत्रकर्णेन तद्भुजो लभ्यते तदानेन किमिति । फलं दृग्ज्या । दक्षिणगोले तु क्षितिजादधोऽहोरात्रवृत्तस्य सममण्डलेन संपातस्तत्राधोमुखः समशङ्कुः क्षितिजादधश्च तद्धृतिः । अतस्तया तद्धृत्येयं हृतिर्युताधः समसूत्राद्दक्षिणतोऽक्षकर्णगत्यार्क पर्यन्तं भवति। अतस्तयानुपातः । फल याम्या दृग्ज्या। खस्वस्तिकाद्दक्षिणोत्तरवृत्ते यैभगैिरकों नतस्तेषां ज्येत्यर्थः ।॥ ३८ ॥

इदानी प्रकारान्तरेणाह—

त्रिज्या नृचापोत्क्रमजीवयोना दृग्ज्या भवेदेवमतो नरो वा ।
एवं हि दृग्ज्या यदि वाखिलानां विदिक्समोद्वृत्तनरादिकानाम् ॥३९॥

 वाo भा०-त्रिज्या शङ्कुचापस्योत्क्रमज्यया हीना दृग्ज्या भवति । दृग्ज्याचापस्यो त्क्रमजीवयोना तदा शङ्कुर्भवति। अनेन प्रकारेण दिनाधोंन्मण्डलसमशङ्क्वादीनां दृग्ज्या स्यात्। पूर्व तु या कथिता सा दिनार्ध एव ।

 अस्योपपतिर्भुजकोटिज्याप्रकरण एव प्रतिपादिता। ३९ ॥ इदानी छायाकर्णावाह

दृग्ज्यात्रिजीवे रविसंगुणे ते शङ्कूद्धृते भाश्रवणौ भवेताम् ।

 वा० भा०-दृग्ज्या च त्रिज्या च द्व द्वादशगुणे शङ्कुना भाज्ये। दूग्ज्यास्थाने यत् फलं लभ्यते सा छायाऽङ्गुलात्मिका भवति । यत् त्रिज्यास्थाने सोऽस्याश्च्छायायाः वर्णः । अत्रोपपत्तिस्त्रैराशिकेन---यदि शङ्कुकोटेदृग्ज्यात्रिज्ये भुजकर्णो तदा द्वादशाङ्गुलशङ्कोः की । फले छायाकणों स्त इत्युपपन्नम् ।। ३&३ ।।

 वा० वा०-अत्र नरादिना वस्तुजातेनालोकस्य क्रियत्यपि प्रदेशेऽवरुद्धे लब्धात्मकं तम एव छाय्ा शब्देनोच्यते । तत्रानुपातः–महाशङ्ककोटौ दृग्ज्या भुजस्तदा। द्वादशाङ्कलशङ्ककोटौ को भुज इति छाया भवति ।