वृत्तं सप्तव्यासमितमिति प्रसिद्धम् । तत्रास्मिन् द्वाविशतिमितपरिधौ द्वाविशतिचिह्नानि कृत्वा वृतमध्यातू प्रतिचिह्न व्यासाद्धदैघ्यणि सूत्राणि वप्रसार्याणि । वृत्ताद्धे परिधिद्वाविंशत्यंशविस्ताराणि वृत्तव्यासाद्धमितदैघ्यणि । यान्येकादशशकलानि तेषु वृत्ताद्धान्तरस्थैकादशशकलानि तथा योज्यानि यथा द्वयोद्वीयोयोगे परिधिद्वार्विशत्यंशमितभुजं वृत्तव्यासार्द्धमितकोटिकश्च आयतं स्यात् । एवमेकादशायतानि क्षेत्राणि भवन्ति । अायते भुजकोटिघातः फलमित्येकस्मिन्नायतक्षेत्रे परिधिव्यासघातचतुश्चत्वारिशदंशः फलम् । इदमेकादशगुणं वृत्तफलं स्यादिति ‘**वृत्तक्षेत्रे परिधिगुणितव्यासपादः फल” शोभनमुक्तम् ॥ ५२ ।
लल्लोक्तस्य नगशिलीमुखबाणभुजङ्गमेत्यादेभूपृष्ठफलस्य* दूषणमाह--
दुष्टं कन्दुकपृष्टजालवदिलागोले फलं जल्पितं |
वा० भा०--यल्लल्लोक्त भूपृष्ठफल तद्बुटम्। यतस्तदुक्कफलस्य शतांशकोऽपि वास्तवं पारमाथिकं फलं न भवति । अत्यन्तं दुष्टमित्यर्थः । कुतो यतस्तत् प्रत्यक्षविरुद्धम् । प्रत्यक्षबाधो हि महादूषणम्। अथात्मन औद्धत्याशङ्कां परिहरन्नाह। इदं मदुत्त नैवोद्धत कितु वस्तु परमार्थः । अथवा कि शपथपरिहारेण । उद्धतमस्तु वा वस्त्वस्तु वा। हे प्रौढ़ा गणका मध्यस्थबुद्ध्या विचारयत भूशमत्यर्थम्। ५३।
अथ सद्युक्तिः ।
<poem>यत् परिध्यर्धविष्कम्भं वृत्तं कृतं किलांशुकम्। तेनार्धश्छाद्यते गोलः किंचिद्वस्रेऽवशिष्यते ॥५४॥। गोलक्षेत्रफलात् तस्माद्वखक्षेत्रफलं यतः । साधंद्विगुणितासन्नं तावदेवापरे दले ॥५५॥ एवं पश्चगुणात् क्षेत्रफलात् पृष्ठफलं खलु । नाधिकं जायते तेन परिधिघ्नं कुतः कृतम् ॥५६॥</poem> |
१. ली० क्षे० ४१ श्लो० ।।
२. लल्ल:-
नगशिलीमुखबाणभुजङ्गमज्वलनवह्निरसेषुगजाश्विनः २८५६३३८५५७ ।।
कुवलयस्य बहिः परियोजनान्यथ जगु खलु कन्दुकजालवत् ।
सि०-४६