परशुरामस्तोत्रम्

विकिस्रोतः तः
परशुरामस्तोत्रम्
श्रीवासुदेवानन्दसरस्वती


||श्री परशुरामस्तोत्रम्||

कराभ्यां परशुं चापं दधानं रेणुकात्मजं|
जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकं||१||

नमामि भार्गवं रामं रेणुका चित्तनन्दनं|
मोचितंबार्तिमुत्पातनाशनं क्षत्रनाशनम्||२||

भयार्तस्वजनत्राणतत्परं धर्मतत्परम्|
गतगर्वप्रियं शूरं जमदग्निसुतं मतम्||३||

वशीकृतमहादेवं दृप्त भूप कुलान्तकम्|
तेजस्विनं कार्तवीर्यनाशनं भवनाशनम्||४||

परशुं दक्षिणे हस्ते वामे च दधतं धनुः |
रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम्||५||

शुद्धं बुद्धं महाप्रज्ञापण्डितं रणपण्डितं|
रामं श्रीदत्तकरुणाभाजनं विप्ररंजनम्||६||

मार्गणाशोषिताभ्ध्यंशं पावनं चिरजीवनम्|
य एतानि जपेन्द्रामनामानि स कृति भवेत्||७||

इति श्री प. प. श्री वासुदेवानंदसरस्वतीविरचितं श्री परशुराम स्तोत्रं संपूर्णम्||


"https://sa.wikisource.org/w/index.php?title=परशुरामस्तोत्रम्&oldid=84593" इत्यस्माद् प्रतिप्राप्तम्