सुश्रुतसंहिता/चिकित्सास्थानम्/अध्याय २१-२५
दिखावट
(सुश्रुतसंहिता/चिकित्सास्थानम्/अध्याय २१-४० इत्यस्मात् पुनर्निर्दिष्टम्)
21
- एकविंशतितमोऽध्यायः
- अथातः शूकदोषचिकित्सितं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- संलिख्य सर्षपीं सम्यक् कषायैरवचूर्णयेत्
- कषायेष्वेव तैलं च कुर्वीत व्रणरोपणम् ३
- अष्ठीलिकां जलौकोभिर्ग्राहयेच्च पुनः पुनः
- तथा चानुपशाम्यन्तीं कफग्रन्थिवदुद्धरेत् ४
- स्वेदयेद्ग्रथितं शश्वन्नाडीस्वेदेन बुद्धिमान्
- सुखोष्णैरुपनाहैश्च सुस्निग्धैरुपनाहयेत् ५
- कुम्भीकां पाकमापन्नां भिन्द्याच्छुद्धां तु रोपयेत्
- तैलेन त्रिफलालोध्रतिन्दुकाम्रातकेन तु ६
- ग्राहयित्वा जलौकोभिरलजीं सेचयेत्ततः
- कषायैस्तेषु सिद्धं च तैलं रोपणमिष्यते ७
- बलातैलेन कोष्णेन मृदितं परिषेचयेत्
- मधुरैः सर्पिषा स्निग्धैः सुखोष्णैरुपनाहयेत् ८
- संमूढपिडकां क्षिप्रं जलौकोभिरुपाचरेत्
- भित्त्वा पर्यागतां चापि लेपयेत् क्षौद्र सर्पिषा ९
- अवमन्थे गते पाकं भिन्ने तैलं विधीयते
- धवाश्वकर्णपत्तङ्गसल्लकीतिन्दुकीकृतम् १०
- क्रियां पुष्करिकायां तु शीतां सर्वां प्रयोजयेत्
- जलौकोभिर्हरेच्चासृक् सर्पिषा चावसेचयेत् ११
- स्पर्शहान्यां हरेद्र क्तं प्रदिह्यान्मधुरैरपि
- क्षीरेक्षुरससर्पिर्भिः सेचयेच्च सुशीतलैः १२
- पिडकामुत्तमाख्यां च बडिशेनोद्धरेद्भिषक्
- उद्धृत्य मधुसंयुक्तैः कषायैरवचूर्णयेत् १३
- रसक्रिया विधातव्या लिखिते शतपोनके
- पृथक्पर्ण्यादिसिद्धं च देयं तैलमनन्तरम् १४
- क्रियां कुर्याद्भिषक् प्राज्ञस्त्वक्पाकस्य विसर्पवत्
- रक्तविद्र धिवच्चापि क्रिया शोणितजेऽबुदे १५
- कषायकल्कसर्पींषि तैलं चूर्णं रसक्रियाम्
- शोधनं रोपणं चैव वीक्ष्य वीक्ष्यावचारयेत् १६
- हितं च सर्पिषः पानं पथ्यं चापि विरेचनम्
- हितः शोणितमोक्षश्च यच्चापि लघु भोजनम् १७
- अर्बुदं मांसपाकं च विद्र धिं तिलकालकम्
- प्रत्याख्याय प्रकुर्वीत भिषक् सम्यक् प्रतिक्रियाम् १८
- इति सुश्रुतसंहितायां चिकित्सास्थाने शूकरोगचिकित्सितं नामैकविंशोऽध्यायः २१
22
- द्वाविंशतितमोऽध्यायः
- अथातो मुखरोगचिकित्सितं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- चतुर्विधेन स्नेहेन मधुच्छिष्टयुतेन च
- वातजेऽभ्यञ्जनं कुर्यान्नाडीस्वेदं च बुद्धिमान् ३
- विदध्यादोष्ठकोपे तु साल्वणं चोपनाहने
- मस्तिष्के चैव नस्ये च तैलं वातहरं हितम् ४
- श्रीवेष्टकं सर्जरसं सुरदारु सगुग्गुलु
- यष्टीमधुकचूर्णं तु विदध्यात् प्रतिसारणम् ५
- पित्तरक्ताभिघातोत्थं जलौकोभिरुपाचरेत्
- पित्तविद्र धिवच्चापि क्रियां कुर्यादशेषतः ६
- शिरोविरेचनं धूमः स्वेदः कवल एव च
- हृते रक्ते प्रयोक्तव्यमोष्ठकोपे कफात्मके ७
- त्र्! यूषणं स्वर्जिकाक्षारो यवक्षारो विडं तथा
- क्षौद्र युक्तं विधातव्यमेतच्च प्रतिसारणम् ८
- मेदोजे स्वेदिते भिन्ने शोधिते ज्वलनो हितः
- प्रियङ्गुत्रिफलालोध्रं सक्षौद्रं प्रतिसारणम् ९
- एतदोष्ठप्रकोपानां साध्यानां कर्म कीर्तितम्
- दन्तमूलगतानां तु रोगाणां कर्म वक्ष्यते १०
- शीतादे हृतरक्ते तु तोये नागरसर्षपान्
- निष्क्वाथ्य त्रिफलां मुस्तं गण्डूषः सरसाञ्जनः ११
- प्रियङ्गवश्च मुस्तं च त्रिफला च प्रलेपनम्
- नस्यं च त्रिफलासिद्धं मधुकोत्पलपद्मकैः १२
- दन्तपुप्पुटके कार्यं तरुणे रक्तमोक्षणम्
- सपञ्चलवणः क्षारः सक्षौद्र ः! प्रतिसारणम् १३
- हितः शिरोविरेकश्च नस्यं स्निग्धं च भोजनम्
- विस्राविते दन्तवेष्टे व्रणांस्तु प्रतिसारयेत् १४
- रोध्रपत्तङ्गयष्ट्याह्वलाक्षाचूर्णैर्मधूत्तरैः
- गण्डूषे क्षीरिणो योज्याः सक्षौद्र घृतशर्कराः १५
- काकोल्यादौ दशक्षीरसिद्धं सर्पिश्च नस्यतः
- शौषिरे हृतरक्ते तु रोध्रमुस्तरसाञ्जनैः १६
- सक्षौद्रै ः! शस्यते लेपो गण्डूषे क्षीरिणो हिताः
- सारिवोत्पलयष्ट्याह्वसावरागुरुचन्दनैः १७
- क्षीरे दशगुणे सिद्धं सर्पिर्नस्ये च पूजितम्
- क्रियां परिदरे कुर्याच्छीतादोक्तां विचक्षणः १८
- संशोध्योभयतः कार्यं शिरश्चोपकुशे तथा
- काकोदुम्बरिकागोजीपत्रैर्विस्रावयेदसृक् १९
- क्षौद्र युक्तैश्च लवणैः सव्योषैः प्रतिसारयेत्
- पिप्पलद्यः सर्षपाञ् श्वेतान्नागरं नैचूलं फलम् २०
- सुखोदकेन संसृज्य कवलं चापि धारयेत्
- घृतं मधुरकैः सिद्धं हितं कवलनस्ययोः २१
- शस्त्रेण दन्तवैदर्भे दन्तमूलानि शोधयेत्
- ततः क्षारं प्रयुञ्जीत क्रियाः सर्वाश्च शीतलाः २२
- उद्धृत्याधिकदन्तं तु ततोऽग्निमवचारयेत्
- कृमिदन्तकवच्चापि विधिः कार्यो विजानता २३
- छित्त्वाऽधिमांसं सक्षौद्रै रेभिश्चूर्णैरुपाचरेत्
- वचातेजोवतीपाठास्वर्जिकायावशूकजैः २४
- क्षौद्र द्वितीयाः पिप्पल्यः कवलश्चात्र कीर्तितः
- पटोलत्रिफलानिम्बकषायश्चात्र धावने
- हितः शिरोविरेकश्च धूमो वैरेचनश्च यः २५
- सामान्यं कर्म नाडीनां विशेषं चात्र मे शृणु
- नाडीव्रणहरं कर्म दन्तनाडीषु कारयेत् २६
- यं दन्तमभिजायेत नाडी तं दन्तमुद्धरेत्
- छित्त्वा मांसानि शस्त्रेण यदि नोपरिजो भवेत् २७
- शोधयित्वा दहेच्चापि क्षारेण ज्वलनेन वा
- भिनत्त्युपेक्षिते दन्ते हनुकास्थि गतिर्ध्रुवम् २८
- समूलं दशनं तस्मादुद्धरेद्भग्नमस्थिरम्
- उद्धृते तूत्तरे दन्ते समूले स्थिरबन्धने २९
- रक्तातियोगात् पूर्वोक्ता रोगा घोरा भवन्ति हि
- काणः संजायते जन्तुरर्दितं चास्य जायते ३०
- चलमप्युत्तरं दन्तमतो नापहरेद्भिषक्
- धावने जातिमदनस्वादुकण्टकखादिरम् ३१
- कषायं जातिमदनकटुकस्वादुकण्टकैः
- यष्ट्याह्वरोध्रमञ्जिष्ठाखदिरैश्चापि यत् कृतम् ३२
- तैलं संशोधनं तद्धि हन्याद्दन्तगतां गतिम्
- कीर्तिता दन्तमूले तु क्रिया दन्तेषु वक्ष्यते ३३
- स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य वा
- निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ३४
- स्नैहिकश्च हितो धूमो नस्यं स्निग्धं च भोजनम्
- रसो रसयवाग्वश्च क्षीरं सन्तानिका घृतम् ३५
- शिरोबस्तिर्हितश्चापि क्रमो यश्चानिलापहः
- अहिंसन् दन्तमूलानि शर्करामुद्धरेद्भिषक् ३६
- लाक्षाचूर्णैर्मधुयुतैस्ततस्ताः प्रतिसारयेत्
- दन्तहर्षक्रियां चापि कुर्यान्निरवशेषतः ३७
- कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता
- जयेद्विस्रावणैः स्विन्नमचलं कृमिदन्तकम् ३८
- तथाऽवपीडैर्वातघ्नैः स्नेहगण्डूषधारणैः
- भद्र दार्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ३९
- चलमुद्धृत्य च स्थानं विदहेत् सुषिरस्य च
- ततो विदारीयष्ट्याह्वशृङ्गाटककसेरुकैः ४०
- तैलं दशगुणे क्षीरे सिद्धं नस्ये हितं भवेत्
- हनुमोक्षे समुद्दिष्टां कुर्याच्चार्दितवत् क्रियाम् ४१
- फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम्
- तथाऽतिकठिनान् भक्ष्यान् दन्तरोगी विवर्जयेत् ४२
- साध्यानां दन्तरोगाणां चिकित्सितमुदीरितम्
- जिह्वागतानां साध्यानां कर्म वक्ष्यामि सिद्धये ४३
- ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम्
- कण्टकेष्वनिलोत्थेषु तत् कार्यं भिषजा भवेत् ४४
- पित्तजेषु विघृष्टेषु निःसृते दुष्टशोणिते
- प्रतिसारणगण्डूषं नस्यं च मधुरं हितम् ४५
- कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये
- पिप्पल्यादिर्मधुयुतः कार्यस्तु प्रतिसारणे ४६
- गृह्णीयात् कवलांश्चापि गौरसर्षपसैन्धवैः
- पटोलनिम्बवार्ताकुक्षारयूषैश्च भोजयेत् ४७
- उपजिह्वां तु संलिख्य क्षारेण प्रतिसारयेत्
- शिरोविरेकगण्डूषधूमैश्चैनमुपाचरेत् ४८
- जिह्वागतानां कर्मोक्तं तालव्यानां प्रवक्ष्यते
- अङ्गुष्ठाङ्गुलिसंदंशेनाकृष्य गलशुण्डिकाम् ४९
- छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम्
- नोत्कृष्टं चैव हीनं च त्रिभागं छेदयेद्भिषक् ५०
- अत्यादानात् स्रवेद्र क्तं तन्निमित्तं म्रियेत च
- हीनच्छेदाद्भवेच्छोफो लाला निद्रा भ्रमस्तमः ५१
- तस्माद्वैद्यः प्रयत्नेन दृष्टकर्मा विशारदः
- गलशुण्डीं तु सञ्छिद्य कुर्यात् प्राप्तमिमं क्रमम् ५२
- मरिचातिविषापाठावचाकुष्ठकुटन्नटैः
- क्षौद्र युक्तैः सलवणैस्ततस्तां प्रतिसारयेत् ५३
- वचामतिविषां पाठां रास्नां कटुकरोहिणीम्
- निष्क्वाथ्य पिचुमन्दं च कवलं तत्र योजयेत् ५४
- इङ्गुदीकिणिहीदन्तीसरलासुरदारुभिः
- पञ्चाङ्गीं कारयेत् पिष्टैर्वर्तिं गन्धोत्तरां शुभाम् ५५
- ततो धूमं पिबेज्जन्तुर्द्विरह्नः कफनाशनम्
- क्षारसिद्धेषु मुद्गेषु यूषश्चाप्यशने हितः ५६
- तुण्डिकेर्यध्रुषे कूर्मे सङ्घाते तालुपुप्पुटे
- एष एव विधिः कार्यो विशेषः शस्त्रकर्मणि ५७
- तालुपाके तु कर्तव्यं विधानं पित्तनाशनम्
- स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ५८
- कीर्तितं तालुजानां तु कण्ठ्यानां कर्म वक्ष्यते
- साध्यानां रोहिणीनां तु हितं शोणितमोक्षणम् ५९
- छर्दनं धूमपानं च गण्डूषो नस्यकर्म च
- वातिकीं तु हृते रक्ते लवणैः प्रतिसारयेत् ६०
- सुखोष्णान् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः
- पतङ्गशर्कराक्षौद्रै ः! पैत्तिकीं प्रतिसारयेत् ६१
- द्रा क्षापरूषकक्वाथो हितश्च कवलग्रहे
- अगारधूमकटुकैः श्लैष्मिकीं प्रतिसारयेत् ६२
- श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम्
- नस्यकर्मणि योक्तव्यं तथा कवलधारणे ६३
- पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसंभवाम्
- विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ६४
- एककालं यवान्नं च भुञ्जीत स्निग्धमल्पशः
- उपजिह्विकवच्चापि साधयेदधिजिह्विकाम् ६५
- एकवृन्दं तु विस्राव्य विधिं शोधनमाचरेत्
- गिलायुश्चापि यो व्याधिस्तं च शस्त्रेण साधयेत् ६६
- अमर्मस्थं सुपक्वं च भेदयेद्गलविद्र धिम्
- वातात् सर्वसरं चूर्णैर्लवणैः प्रतिसारयेत् ६७
- तैलं वातहरैः सिद्धं हितं कवलनस्ययोः
- ततोऽस्मै स्नैहिकं धूममिमं दद्याद्विचक्षणः ६८
- शालराजादनैरण्डसारैङ्गुदमधूकजाः
- मज्जानो गुग्गुलुध्याममांसीकालानुसारिवाः
- श्रीसर्जरसशैलेयमधूच्छिष्टानि चाहरेत् ६९
- तत्सर्वं सुकृतं चूर्णं स्नेहेनालोड्य युक्तितः
- टिण्टूकवृन्तं सक्षौद्रं मतिमांस्तेन लेपयेत् ७०
- एष सर्वसरे धूमः प्रशस्तः स्नैहिको मतः
- कफघ्नो मारुतघ्नश्च मुखरोगविनाशनः ७१
- पित्तात्मके सर्वसरे शुद्धकायस्य देहिनः
- सर्वः पित्तहरः कार्यो विधिर्मधुरशीतलः ७२
- प्रतिसारणगण्डूषौ धूमः संशोधनानि च
- कफात्मके सर्वसरे विधिं कुर्यात् कफापहम् ७३
- पिबेदतिविषां पाठां मुस्तं च सुरदारु च
- रोहिणीं कटुकाख्यां च कुटजस्य फलानि च ७४
- गवां मूत्रेण मनुजो भागैर्धरणसंमितैः
- एष सर्वान् कफकृतान् रोगान् योगोऽपकर्षति ७५
- क्षीरेक्षुरसगोमूत्रदधिमस्त्वम्लकाञ्जिकैः
- विदध्यात् कवलान् वीक्ष्य दोषं तैलघृतैरपि ७६
- रोगाणां मुखजातानां साध्यानां कर्म कीर्तितम्
- असाध्या अपि वक्ष्यन्ते रोगा ये तत्र कीर्तिताः ७७
- ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः
- दन्तमूलेषु वर्ज्यौ तु त्रिलिङ्गगतिसौषिरौ ७८
- दन्तेषु च न सिध्यन्ति श्यावदालनभञ्जनाः
- जिह्वागतेष्वलासस्तु तालव्येष्वर्बुदं तथा ७९
- स्वरघ्नो वलयो वृन्दो विदार्यलस एव च
- गलौष्ठो मांसतानश्च शतघ्नी रोहिणी च या ८०
- असाध्याः कीर्तिता ह्येते रोगा नव दशैव च
- तेषां चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ८१
- इति सुश्रुतसंहितायां चिकित्सास्थाने मुखरोगचिकित्सितं नाम द्वाविंशोऽध्यायः २२
23
- त्रयोविंशतितमोऽध्यायः
- अथातः शोफानां चिकित्सतं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- षडिवधोऽवयवसमुत्थः शोफोऽभिहितो लक्षणतः प्रतीकारतश्च सर्वसरस्तु
- पञ्चविधः तद्यथावातपित्तश्लेष्मसन्निपातविषनिमित्तः ३
- तत्रापतर्पितस्याध्वगमनातिमात्रमभ्यवहरतो वा पिष्टान्नहरितकशाक लव-णानिक्षीणस्य वाऽतिमात्रमम्लमुपसेवमानस्य मृत्पक्वलोष्टकटशर्करानूपौद-कमांससेवनादजीर्णिनो वा ग्राम्यधर्मसेवनाद्विरुद्धहारसेवनात् वा हस्त्यश्वो-ष्ट्ररथपदातिसङ्क्षोभणादयो सितस्य दोषा धातून् प्रदूष्य श्वयथुमापादयन्त्यखिले शरीरे ४
- तत्र वातश्वयथुररुणः कृष्णो वा मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषाः पित्तश्वयथुः पीतः सरक्तो वा मृदुः शीघ्रानुसार्यूषादयश्चात्र वेदनाविशेषाः श्लेष्मश्वयथुः पाण्डुः शुक्लो वा स्निग्धः कठिनः शीतो मन्दानुसारी क-ण्ड्वादयश्चात्र वेदनाविशेषाः सन्निपातश्वयथुः सर्ववर्णवेदनः विषनिमित्तस्तु गरोपयोगाद्दुष्टतोयसेवनात् प्रकुथितोदकावगाहनात् सविषसत्त्वदिग्धचूर्णे-नावचूर्णनाद्वा सविषमूत्रपुरीषशुक्रस्पृष्टानां वा तृणकाष्ठादीनां संस्पर्शनात् स
- तु मृदुः क्षिप्रोत्थानोऽवलम्बी चलोऽचलो वा दाहपाकरागप्रायश्च भवति ५
- भवन्ति चात्र
- दोषाः श्वयथुमूर्ध्वं हि कुर्वन्त्यामाशयस्थिताः
- पक्वाशयस्था मध्ये च वर्चःस्थानगतास्त्वधः ६
- कृत्स्नं देहमनुप्राप्ताः कुर्युः सर्वसरं तथा
- श्वयथुर्मध्यदेशे यः स कष्टः सर्वगश्च यः ७
- अर्धाङ्गेऽरिष्टभूतश्च यश्चोर्ध्वं परिसर्पति
- श्वासः पिपासा दौर्बल्यं ज्वरश्च्छर्दिररोचकः ८
- हिक्कातीसारकासाश्च शूनं सङ्क्षपयन्ति हि
- सामान्यतो विशेषाच्च तेषां वक्ष्यामि भेषजम् ९
- शोफिनः सर्व एव परिहरेयुरम्ललवणदधिगुड
- वसापयस्तैलघृतपिष्टमयगुरूणि १०
- तत्र वातश्वयथौ त्रैवृतमेरण्डतैलं वा मासमर्ध मासं वा पाययेत् न्यग्रोधादि-ककषायसिद्धं सर्पिः पित्तश्वयथौ आरग्वधादिसिद्धं सर्पिः श्लेष्मश्वयथौ स-न्निपातश्वयथौ स्नुहीक्षीरपात्रं द्वादशभिरम्लपात्रैः प्रतिसंसृज्य दन्तीद्र वन्तीप्रतीवापं सर्पिः पाचयित्वा पाययेत् विषनिमित्तेषु कल्पेषु प्रतीकारः ११
- अत ऊर्ध्वं सामान्यचिकित्सितमुपदेक्ष्यामः तिल्वकघृतचतुर्थानि यान्युक्ता-न्युदरेषु ततोऽन्यतममुपयुज्यमानं श्वयथुमपहन्ति मूत्रवर्तिक्रियां वा सेवेत न-वायसं वाऽहरहर्मधुना विडङ्गातिविषाकुटजफलभद्र दारुनागरमरिचचूर्णं वा धरणमुष्णाम्बुना त्रिकटुक्षारायश्चूर्णानि वा त्रिफलाकषायेण मूत्रं वा तुल्यक्षीरं हरीतकीं वा तुल्यगुडामुपयुञ्जीत देवदारुशुण्ठीं वा गुग्गुलुं वा मूत्रेण वर्षा-भूकषायानुपानं वा तुल्यगुडं शृङ्गवेरं वा वर्षाभूकषायं मूलकल्कं वा सशृ-ङ्गवेरं पयोऽनुपानमहरहर्मासं व्योषवर्षाभूकषायसिद्धेन वा सर्पिषामुद्गोलु-म्बान् भक्षयेत् पिप्पलीपिप्पलीमूलचव्य चित्रकमयूरकवर्षाभूसिद्धं वा क्षीरं पिबेत् सहौषधमुरङ्गीमूलसिद्धं वा त्रिकटुकैरण्डश्यामामूलसिद्धं वा वषा-र्भू!शृङ्गवेरसहादेवदारुसिद्धं वा तथाऽलाबूबिभीतकफलकल्कं वा तण्डुला-म्बुना क्षारपिप्पलीमरि चशृङ्गवेरानुसिद्धेन च मुद्गयूषेणालवणेनाल्पस्नेहेन भोजयेद्यवान्नं गोधूमान्नं वा वृक्षकार्कनक्तमालनिम्बवर्षाभूक्वाथैश्च परिषेकः सर्षपसुवर्चलासैन्धवशार्ङ्गेष्टाभिश्च प्रदेहः कार्यःयथादोषं च वमनविरेचना-स्थापनानि तीक्ष्णान्यजस्रमुपसेवेत स्नेहस्वेदोपनाहांश्च सिराभिश्चाभीक्षणं
- शोणितमवसेचयेदन्यत्रोपद्र वशोफादिति १२
- भवति चात्र
- पिष्टान्नमम्लं लवणानि मद्यं मृदं दिवास्वप्नमजाङ्गलं च
- स्त्रियो घृतं तैलपयोगुरूणि शोफं जिघांसुः परिवर्जयेत्तु १३
- इति सुश्रुतसंहितायां चिकित्सास्थाने शोथचिकित्सितं नाम त्रयोविंशोऽध्यायः २३
24
- चतुर्विंशतितमोऽध्यायः
- अथातोऽनागताबाधाप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- उत्थायोत्थाय सततं स्वस्थेनारोग्यमिच्छा
- धीमता यदनुष्ठेयं तत् सर्वं संप्रवक्ष्यते ३
- तत्रादौ दन्तपवनं द्वादशाङ्गुलमायतम्
- कनिष्ठिकापरीणाहमृज्वग्रन्थितमव्रणम् ४
- अयुग्मग्रन्थि यच्चापि प्रत्यग्रं शस्तभूमिजम्
- अवेक्ष्यर्तुं च दोषं च रसं वीर्यं च योजयेत् ५
- कषायं मधुरं तिक्तं कटुकं प्रातरुत्थितः
- निम्बश्च तिक्तके श्रेष्ठः कषाये खदिरस्तथा ६
- मधूको मधुरे श्रेष्ठः करञ्जः कटुके तथा
- क्षौद्र व्योषत्रिवर्गाक्तं सतैलं सैन्धवेन च ७
- चूर्णेन तेजोवत्याश्च दन्तान्नित्यं विशोधयेत्
- एकैकं घर्षयेद्दन्तं मृदुना कूर्चकेन च ८
- दन्तशोधनचूर्णेन दन्तमांसान्यबाधयन्
- तद्दौर्गन्ध्योपदेहौ तु श्लेष्माणं चापकर्षति ९
- वैशद्यमन्नाभिरुचिं सौमनस्यं करोति च
- न खादेद्गलताल्वोष्ठजिह्वारोगसमुद्भवे १०
- अथास्यपाके श्वासे च कासहिक्कावमीषु च
- दुर्बलोऽजीर्णभक्तश्च मूर्च्छार्तो मदपीडितः ११
- शिरोरुजार्तस्तृषितः श्रान्तः पानक्लमान्वितः
- अर्दिती कर्णशूली च दन्तरोगी च मानवः १२
- जिह्वानिर्लेखनं रौप्यं सौवर्णं वार्क्षमेव च
- तन्मलापहरं शस्तं मृदु श्लक्ष्णं दशाङ्गुलम् १३
- मुखवैरस्यदौर्गन्ध्यशोफजाड्यहरं सुखम्
- दन्तदार्ढ्यकरं रुच्यं स्नेहगण्डूषधारणम् १४
- क्षीरवृक्षकषायैर्वा क्षीरेण च विमिश्रितैः
- भिल्लोटककषायेण तथैवामलकस्य वा १५
- प्रक्षालयेन्मुखं नेत्रे स्वस्थः शीतोदकेन वा
- नीलिकां मुखशोषं च पिडकां व्यङ्गमेव च १६
- रक्तपित्तकृतान् रोगान् सद्य एव विनाशयेत्
- सुखं लघु निरीक्षेत दृढं पश्यति चक्षुषा १७
- मतं स्रोतोञ्जनं श्रेष्ठं विशुद्धं सिन्धुसंभवम्
- दाहकण्डूमलघ्नं च दृष्टिक्लेदरुजापहम् १८
- तेजोरूपावहं चैव सहते मारुतातपौ
- न नेत्ररोगा जायन्ते तस्मादञ्जनमाचरेत् १९
- भुक्तवाञ्छिरसा स्नातः श्रान्तश्छर्दनवाहनैः
- रात्रौ जागरितश्चापि नाञ्ज्याज्ज्वरित एव च २०
- कर्पूरजातीकक्कोललवङ्गकटुकाह्वयैः
- सचूर्णपूगैः सहितं पत्रं ताम्बूलजं शुभम् २१
- मुखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्
- हनुदन्तस्वरमलजिह्वेन्द्रि यविशोधनम् २२
- प्रसेकशमनं हृद्यं गलामयविनाशनम्
- पथ्यं सुप्तोत्थिते भुक्ते स्नाते वान्ते च मानवे २३
- रक्तपित्तक्षतक्षीणतृष्णामूर्च्छापरीतिनाम्
- रूक्षदुर्बलमर्त्यानां न हितं चास्यशोषिणाम् २४
- शिरोगतांस्तथा रोगाञ्छिरोभङ्गोऽपकर्षति
- केशानां मार्दवं दैर्घ्यं बहुत्वं स्निग्धकृष्णताम् २५
- करोति शिरसस्तृप्तिं सुत्वक्कमपि चाननम्
- सन्तर्पणं चेन्द्रि याणां शिरसः प्रतिपूरणम् २६
- मधुकं क्षीरशुक्ला च सरलं देवदारु च
- क्षुद्र कं पञ्चनामानं समभागानि संहरेत् २७
- तेषां कल्ककषायाभ्यां चक्रतैलं विपाचयेत्
- सदैव शीतलं जन्तोर्मूर्ध्नि तैलं प्रदापयेत् २८
- केशप्रसाधनी केश्या रजोजन्तुमलापहा
- हनुमन्याशिरःकर्णशूलघ्नं कर्णपूरणम् २९
- अभ्यङ्गो मार्दवकरः कफवातनिरोधनः
- धातूनां पुष्टिजननो मृजावर्णबलप्रदः ३०
- सेकः श्रमघ्नोऽनिलहृद्भग्नसन्धिप्रसाधकः
- क्षताग्निदग्धाभिहतविघृष्टानां रुजापहः ३१
- जलसिक्तस्य वर्धन्ते यथा मूलेऽङकुरास्तरोः
- तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते ३२
- सिरामुखै रोमकूपैर्धमनीभिश्च तर्पयन्
- शरीरबलमाधत्ते युक्तः स्नेहोऽवगाहने ३३
- तत्र प्रकृतिसात्म्यर्तुदेशदोषविकारवित्
- तैलं घृतं वा मतिमान् युञ्ज्यादभ्यङ्गसेकयोः ३४
- केवलं सामदोषेषु न कथञ्चन योजयेत्
- तरुणज्वर्यजीर्णी च नाभ्यक्तव्यौ कथञ्चन ३५
- तथा विरिक्तो वान्तश्च निरूढो यश्च मानवः
- पूर्वयोः कृच्छ्रता व्याधेरसाध्यत्वमथापि वा ३६
- शेषाणां तदहः प्रोक्ता अग्निमान्द्यादयो गदाः
- सन्तर्पणसमुत्थानां रोगाणां नैव कारयेत् ३७
- शरीरायासजननं कर्म व्यायामसंज्ञितम्
- तत् कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः ३८
- शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता
- दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा ३९
- श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता
- आरोग्यं चापि परमं व्यायामादुपजायते ४०
- न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्
- न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात् ४१
- न चैनं सहसाऽक्रम्य जरा समधिरोहति
- स्थिरीभवति मांसं च व्यायामाभिरतस्य च ४२
- व्यायामस्विन्नगात्रस्य पद्भ्यामुद्वर्तितस्य च
- व्याधयो नोपसर्पन्ति सिंहं क्षुद्र मृगा इव ४३
- वयोरूपगुणैर्हीनमपि कुर्यात् सुदर्शनम्
- व्यायामं कुर्वतो नित्यं विरुद्धमपि भोजनम् ४४
- विदग्धमविदग्धं वा निर्दोषं परिपच्यते
- व्यायामो हि सदा पथ्यो बलिनां स्निग्धभोजिनाम् ४५
- स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः
- सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ४६
- वलस्यार्धेन कर्तव्यो व्यायामो हन्त्यतोऽन्यथा
- हृदि स्थानस्थितो वायुर्यदा वक्त्रं प्रपद्यते ४७
- व्यायामं कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम्
- वयोबलशरीराणि देशकालाशनानि च ४८
- समीक्ष्य कुर्याद्व्यायाममन्यथा रोगमाप्नुयात्
- क्षयतृष्णारुचिच्छर्दिरक्तपित्तभ्रमक्लमाः ४९
- कासशोषज्वरश्वासा अतिव्यायामसंभवाः
- रक्तपित्ती कृशः शोषी श्वासकासक्षतातुरः ५०
- भुक्तवान् स्त्रीषु च क्षीणस्तृड्भ्रमार्तश्च वर्जयेत्
- उद्वर्तनं वातहरं कफमेदोविलापनम् ५१
- स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्
- सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ५२
- उद्घर्षणोत्सादनाभ्यां जायेयातामसंशयम्
- उत्सादनाद्भवेत् स्त्रीणां विशेषात् कान्तिमद्वपुः ५३
- प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम्
- उद्घर्षणं तु विज्ञेयं कण्डूकोठानिलापहम् ५४
- ऊर्वोः संजनयत्याशु फेनकः स्थैर्यलाघवे
- कण्डूकोठानिलस्तम्भमलरोगापहश्च सः ५५
- तेजनं त्वग्गतस्याग्नेः सिरामुखविवेचनम्
- उद्घर्षणं त्विष्टिकया कण्डूकोठविनाशनम् ५६
- निद्रा दाहश्रमहरं स्वेदकण्डूतृषापहम्
- हृद्यं मलहरं श्रेष्ठं सर्वेन्द्रि यविबोधनम् ५७
- तन्द्रा पाप्मोपशमनं तुष्टिदं पुंस्त्ववर्धनम्
- रक्तप्रसादनं चापि स्नानमग्नेश्च दीपनम् ५८
- उष्णेन शिरसः स्नानमहितं चक्षुषः सदा
- शीतेन शिरसः स्नानं चक्षुष्यमिति निर्दिशेत् ५९
- श्लेष्ममारुतकोपे तु ज्ञात्वा व्याधिबलाबलम्
- काममुष्णं शिरःस्नानं भैषज्यार्थं समाचरेत् ६०
- अतिशीताम्बु शीते च श्लेष्ममारुतकोपनम्
- अत्युष्णमुष्णकाले च पित्तशोणितकोपनम् ६१
- तच्चातिसारज्वरितकर्णशूलानिलार्तिषु
- आध्मानारोचकाजीर्णभुक्तवत्सु च गर्हितम् ६२
- सौभाग्यदं वर्णकरं प्रीत्योजोबलवर्धनम्
- स्वेददौर्गन्ध्यवैवर्ण्यश्रमघ्नमनुलेपनम् ६३
- स्नानं येषां निषिद्धं तु तेषामप्यनुलेपनम्
- रक्षोघ्नमथ चौजस्यं सौभाग्यकरमुत्तमम् ६४
- सुमनोम्बररत्नानां धारणं प्रीतिवर्धनम्
- मुखालेपाद्दृढं चक्षुः पीनगण्डं तथाऽननम् ६५
- अव्यङ्गपिडकं कान्तं भवत्यम्बुजसन्निभम्
- पक्ष्मलं विशदं कान्तममलोज्ज्वलमण्डलम् ६६
- नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम्
- यशस्यं स्वर्ग्यमायुष्यं धनधान्यविवर्धनम् ६७
- देवतातिथिविप्राणां पूजनं गोत्रवर्धनम्
- आहारः प्रीणनः सद्यो बलकृद्देहधारकः ६८
- आयुस्तेजःसमुत्साहस्मृत्योजोग्निविवर्धनः
- पादप्रक्षालनं पादमलरोगश्रमापहम् ६९
- चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्धनम्
- निद्रा करो देहसुखश्चक्षुष्यः श्रमसुप्तिनुत् ७०
- पादत्वङ्मृदुकारी च पादाभ्यङ्गः सदा हितः
- पादरोगहरं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् ७१
- सुखप्रचारमोजस्यं सदा पादत्रधारणम्
- अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् ७२
- पादाभ्यामनुपानद्भ्यां सदा चङ्क्रमणं नृणाम्
- पाप्मोपशमनं केशनखरोमापमार्जनम् ७३
- हर्षलाघवसौभाग्यकरमुत्साहवर्धनम्
- बाणवारं मृजावर्णतेजोबलविवर्धनम् ७४
- पवित्रं केश्यमुष्णीषं वातातपरजोपहम्
- वर्षानिलरजोघर्महिमादीनां निवारणम् ७५
- वर्ण्यं चक्षुष्यमौजस्यं शङ्करं छत्रधारणम्
- शुनः सरीसृपव्यालविषाणिभ्यो भयापहम् ७६
- श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते
- सत्त्वोत्साहबलस्थैर्यधैर्यवीर्यविवर्धनम् ७७
- अवष्टम्भकरं चापि भयघ्नं दण्डधारणम्
- आस्या वर्णकफस्थौल्यसौकुमार्यकरी सुखा ७८
- अध्वा वर्णकफस्थौल्यसौकुमार्यविनाशनः
- अत्यध्वा विपरीतोऽस्माज्जरादौर्बल्यकृच्च सः ७९
- यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत्
- तदायुर्बलमेधाग्निप्रदमिन्द्रि यबोधनम् ८०
- श्रमानिलहरं वृष्यं पुष्टिनिद्रा धृतिप्रदम्
- सुखं शय्यासनं दुःखं पिपरीतगुणं मतम् ८१
- बालव्यजनमौजस्यं मक्षिकादीनपोहति
- शोषदाहश्रमस्वेदमूर्च्छाघ्नो व्यजनानिलः ८२
- प्रीतिनिद्रा करं वृष्यं कफवातश्रमापहम्
- संवाहनं मांसरक्तत्वक्प्रसादकरं सुखम् ८३
- प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपक्तिनुत्
- स्वेदमूर्च्छापिपासाघ्नमप्रवातमतोऽन्यथा ८४
- सुखं वातं प्रसेवेत ग्रीष्मे शरदि मानवः
- निवातं ह्यायुषे सेव्यमारोग्याय च सर्वदा ८५
- आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत्
- दाहवैवर्ण्यकारी च छाया चैतानपोहति ८६
- अग्निर्वातकफस्तम्भशीतवेपथुनाशनः
- आमाभिष्यन्दजरणो रक्तपित्तप्रदूषणः ८७
- पुष्टिवर्णबलोत्साहमग्निदीप्तिमतन्द्रि ताम्
- करोति धातुसाम्यं च निद्रा काले निषेविता ८८
- तत्रादित एव नीचनखरोम्णा शुचिना शुक्लवाससा लघूष्णीषच्छत्रोपानत्केन दण्डपाणिना काले हितमितमधुरपूर्वाभिभाषिणा बन्धुभूतेन भूतानां गुरुवृ-द्धानुमतेन सुसहायेनानन्यमनसा खलूपचरितव्यं तदपि न रात्रौ न केशा-स्थिकण्टकाश्मतुषभस्मोत्करकपालाङ्गारामेध्यस्नानबलि भूमिषु न विषमेन्द्र कीलचतुष्पथश्वभ्राणामुपरिष्टात् ८९
- न राजद्विष्टपरुषपैशुन्यानृतानि वदेत् न देवब्राह्मणपितृपरिवादांश्च न नरेन्द्र द्विष्टोन्मत्तपतितक्षुद्र नीचानुपासीत ९०
- वृक्षपर्वतप्रपातविषमवल्मीकदुष्टवाजिकुञ्जराद्यधिरोहणानि परिहरेत् पूर्णनदीसमुद्रा विदितपल्वलश्वभ्रकूपावतरणानि भिन्नशून्या गारश्मशान विजना-रण्यवासाग्निसंभ्रमव्यालभुजङ्गकीटसेवाश्च ग्रामाघातकल हशस्त्रसन्नि पातव्यालसरीसृपशृङ्गिसन्निकर्षांश्च ९१
- नाग्निगोगुरुब्राह्मणप्रेङ्खादम्पत्यन्तरेण यायात् न शवमनुयायात् देवगोब्राह्म-णचैत्यध्वजरोगिपतितपापकारिणां च छायां नाक्रमेत नास्तं गच्छन्तमुद्यन्तं वाऽदित्यं वीक्षेत गां धापयन्तीं धयन्तीं परशस्यं वा चरन्तीं न कस्मै चि-दाचक्षीत न चोल्कापातोत्पातेन्द्र धनूंषि नाग्निंमुखेनोपधमेत् नापो भूमिं वा
- पाणिपादेनाभिहन्यात् ९२
- न वेगान् धारयेद् वातमूत्रपुरीषादीनाम् न बहिर्वेगान् ग्रामनगरदेवतायतन-श्मशानचतुष्पथसलिलाशयपथिसन्निकृष्टानुत्सृजेन्न प्रकाशं न वाय्वग्निसलिलसोमार्कगोगुरुप्रतिमुखम् ९३
- न भूमिं विलिखेत् नासंवृतमुखः सदसि जृम्भोद्गारकासश्वासक्षवथूनुत्सृजेत्
- न पर्यङ्किकावष्टम्भपादप्रसारणानि गुरुसन्निधौ कुर्यात् ९४
- न बालकर्णनासास्रोतोदशनाक्षिविवराण्यभिकुष्णीयात् न वीजयेत् केशमु-खनखवस्त्रगात्राणि न गात्रनखवक्त्रवादित्रं कुर्यात् न काष्ठलोष्टतृणादीनभिहन्याच्छिन्द्याद्भिन्द्याद्वा ९५
- न प्रतिवातातपं सेवेत न भुक्तमात्रोऽग्निमुपासीत नोत्कटकाल्पकाष्ठासनम-ध्यासीत न ग्रीवांविषमं धारयेत् न विषमकायः क्रियां भजेत भुञ्जीत वा न प्रततमीक्षेत विशेषाज्ज्योतिर्भास्करसूक्षमचलभ्रान्तानि न भारं शिरसां वहेत् न स्वप्नजागरणशयनासनस्थानचङ्क्रमणयानवाहनप्रधावनलङ्घ नप्लवन प्रतरणहास्यभाष्यव्यवायव्यायामादीनुचितानप्यतिसेवेत ९६
- उचितादप्यहितात् क्रमशो विरमेत् हितमनुचितमप्यासेवेत क्रमशः न चैकान्ततः पादहीनात् ९७
- नावाक्शिराः शयीत न भिन्नपात्रे भुञ्जीत न विना पात्रेण नाञ्जलिपुटेनापः पिबेत् काले हितमितस्निग्धमधुरप्रायमाहारं वैद्यप्रत्यवेक्षितमश्नीयात् ग्रा-मगणगणिकापणिकशत्रुसत्रशठपतितभोजनानि परिहरेत् शेषाण्यपि चानि-ष्टरूपरसगन्धस्पर्शशब्दमानसानि अन्यान्येवंगुणान्यपि संभ्रमदत्तानि मक्षि-काबालोपहतानि नाप्रक्षालितपादो भुञ्जीत न मूत्रोच्चारपीडितो न सन्ध्ययोर्नानुपाश्रितो नातीतकालं हीनमतिमात्रं निओ!द्धृतस्नेहंइ! चेति ९८
- न भुञ्जीतोद्धृतस्नेहं नष्टं पर्युषितं पयः
- न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् ९९
- नामुद्गयूषं नाक्षौद्रं नोष्णं नामल कैर्विना
- अन्यथा जनयेत् कुष्ठविसर्पादीन् गदान् बहून्
- नात्मानमुदके पश्येन्न नग्नः प्रविशेज्जलम् १००
- द्यूतमद्यातिसेवाप्रतिभूत्वसाक्षित्वसमाह्वानगोष्ठीवादित्राणि न सेवेत स्रजं छत्रोपानहौ कनकमतीतवासांसि न चान्यैर्धृतानि धारयेत् ब्राह्मणमग्निं गां च
- नोच्छिष्टः स्पृशेत् १०१
- भवन्ति चात्र
- यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्
- तेषु तेषु प्रदातव्या रसास्ते ते विजानता १०२
- वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया
- वर्षासु चतुरो मासान् मात्रावदुदकं पिबेत् १०३
- उष्णं हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम्
- हेमन्ते च वसन्ते च सीध्वरिष्टौ पिबेन्नरः १०४
- शृतशीतं पयो ग्रीष्मे प्रावृट्काले रसं पिबेत्
- यूषं वर्षति तस्यान्ते प्रपिबेच्छीतलं जलम् १०५
- स्वस्थ एवमतोऽन्यस्तु दोषाहारगतानुगः
- स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम् १०६
- पिबेदग्निविवृर्द्ध्य्थं न च वेगान् विधारयेत्
- अग्निदीप्तिकरं नॄणां रोगाणां शमनं प्रति १०७
- प्रावृट्शरद्वसन्तेषु सम्यक् स्नेहादिमाचरेत्
- कफे प्रच्छर्दनं पित्ते विरेको बस्तिरीरणे १०८
- शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः
- भुक्तं बिरुद्धमप्यन्नं व्यायामान्न प्रदुष्यति १०९
- उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः
- नेच्छेद्दोषचयात् प्राज्ञः पीडां वा कायमानसीम् ११०
- अतिस्त्रीसंप्रयोगाच्च रक्षेदात्मानमात्मवान्
- शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयाः १११
- अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः
- आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः ११२
- स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः
- त्रिभिस्त्रिभिरहोभिर्वा समीयात् प्रमदां नरः ११३
- सर्वेष्वृतुषु घर्मेषु पक्षात् पक्षाद्व्रजेद्बुधः
- रजस्वलामकामां च मलिनामप्रियां तथा ११४
- वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम्
- हीनाङ्गीं गर्भिणीं द्वेष्यां योनिदोषसमन्विताम् ११५
- सगोत्रां गुरुपत्नीं च तथा प्रव्रजितामपि
- सन्ध्यापर्वस्वगम्यां च नोपेयात् प्रमदां नरः ११६
- गोसर्गे चार्धरात्रे च तथा मध्यन्दिनेषु च
- लज्जासमावहे देशे विवृतेऽशुद्ध एव च ११७
- क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः
- वातविण्मूत्रवेगी च पिपासुरतिदुर्बलः ११८
- तिर्यग्योनावयोनौ च प्राप्तशुक्रविधारणम्
- दुष्टयोनौ विसर्गं तु बलवानपि वर्जयेत् ११९
- रेतसश्चातिमात्रं तु मूर्धावरणमेव च
- स्थितावुत्तानशयने विशेषेणैव गर्हितम् १२०
- क्रीडायामपि मेधावी हितार्थी परिवर्जयेत्
- रजस्वलां प्राप्तवतो नरस्यानियतात्मनः १२१
- दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत्
- लिङ्गिनीं गुरुपत्नीं च सगोत्रामथ पर्वसु १२२
- वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः
- गर्मिण्या गर्भपीडा स्याद् व्याधितायां बलक्षयः १२३
- हीनाङ्गीं मलिनां द्वेष्यां कामं वन्ध्यामसंवृते
- देशेऽशुद्धे च शुक्रस्य मनसश्च क्षयो भवेत् १२४
- क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः
- स्थितश्च हानिं शुक्रस्य वायोः कोपं च विन्दति १२५
- अतिप्रसङ्गाद्भवति शोषः शुक्रक्षयावहः
- व्याधितस्य रुजा प्लीह्नि मृत्युर्मूर्च्छा च जायते १२६
- प्रत्यूषस्यर्धरात्रे च वातपित्ते प्रकुप्यतः
- तिर्यग्योनावयोनौ च दुष्टयोनौ तथैव च १२७
- उपदंशस्तथा वायोः कोपः शुक्रस्य च क्षयः
- उच्चारिते मूत्रिते च रेतसश्च विधारणे १२८
- उत्ताने च भवेच्छीध्रं शुक्राश्मर्यास्तु संभवः
- सर्वं परिहरेत्तस्मादेतल्लोकद्वयेऽहितम् १२९
- शुक्रं चोपस्थितं मोहान्न सन्धार्यं कथंचन
- वयोरूपगुणोपेतां तुल्यशीलां कुलान्विताम् १३०
- अभिकामोऽभिकामां तु हृष्टो हृष्टामलङ्कृताम्
- सेवेत प्रमदां युक्त्या वाजीकरणबृंहितः १३१
- भक्ष्याः सशर्कराः क्षीरं ससितं रस एव च
- स्नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु १३२
- मुखमात्रं समासेन सद्वृत्तस्यैतदीरितम्
- आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः १३३
- इति सुश्रुतसंहितायां चिकित्सास्थानेऽनागताबाध चिकित्सितं नाम चतुर्विंशोऽध्यायः २४
25
- पञ्चविंशतितमोऽध्यायः
- अथातो मिश्रकचिकित्सितं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- पाल्यामयास्तु विस्राव्या इत्युक्तं प्राङ्निबोध तान्
- परिपोटस्तथोत्पात उन्मन्थो दुःखवर्धनः ३
- पञ्चमः परिलेही च कर्णपाल्यां गदाः स्मृताः
- सौकुमार्याच्चिरोत्सृष्टे सहसाऽभिप्रवर्धिते ४
- कर्णशोफो भवेत् पाल्यां सरुजः परिपोटवान्
- कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः ५
- गुर्वाभरणसंयोगात्ताडनाद्घर्षणादपि
- शोफः पाल्यां भवेच्छ्यावो दाहपाकरुगन्वितः ६
- रक्तो वा रक्तपित्ताभ्यामुत्पातः स गदो मतः
- बलाद्वर्धयतः कर्णं पाल्यां वायुः प्रकुप्यति ७
- गृहीत्वा सकफं कुर्याच्छोफं तद्वर्णवेदनम्
- उन्मन्थकः सकण्डूको विकारः कफवातजः ८
- वर्धमाने यदा कर्णे कण्डूदाहरुगन्वितः
- शोफो भवति पाकश्च त्वक्स्थोऽसौदुःखवर्धनः ९
- कफासृक्कृमयः कुर्युः सर्षपाभा विकारिणीः
- स्राविणीः पिडकाः पाल्यां कण्डूदाहरुगन्विताः १०
- कफासृक्कृमिसंभूतः स विसर्पन्नितस्ततः
- लिह्यात् सशष्कुलद्यं पालद्यं परिलेहीति स स्मृतः ११
- पाल्यामया ह्यमी घोरा नरस्याप्रतिकारिणः
- मिथ्याहारविहारस्य पालि हिंस्युरुपेक्षिताः १२
- तस्मादाशु भिषक् तेषु स्नेहादिक्रममाचरेत्
- तथाऽभ्यङ्गपरीषेकप्रदेहासृग्विमोक्षणम् १३
- सामान्यतो विशेषाच्च वक्ष्याम्यभ्यञ्जनं प्रति
- खरमञ्जरियष्ट्याह्वसैन्धवामरदारुभिः १४
- सुपिष्टैः साश्वगन्धैश्च मूलकावल्गुजैः फलैः
- सर्पिस्तैलवसामज्जमधूच्छिष्टानि पाचयेत् १५
- सक्षीराण्यथ तैः पालि प्रदिह्यात् परिपोटके
- मञ्जिष्ठातिलयष्ट्याह्वसारिवोत्पलपद्मकैः १६
- सरोध्रैः सकदम्बैश्च बलाजम्ब्वाम्रपल्लवैः
- सिद्धं धान्याम्लसंयुक्तं तैलमुत्पातनाशनम् १७
- तालपत्र्! यश्वगन्धार्कबाकुचीफलसैन्धवैः
- तैलं कुलीरगोधाभ्यां वसया सह पाचितम् १८
- सरलालाङ्गलीभ्यां च हितमुन्मन्थनाशनम्
- तथाऽश्मन्तकजम्ब्वाम्रपत्रक्वाथेन सेचनम् १९
- प्रपौण्डरीकमधुकमञ्जिष्ठारजनीद्वयैः
- चूर्णैरुद्वर्तनैः पालद्यं तैलाक्तामवचूर्णयेत् २०
- लाक्षाविडङ्गकल्केन तैलं पक्त्वाऽवचारयेत्
- स्विन्नां गोमयपिण्डेन प्रदिह्यात् परिलेहिके २१
- पिष्टैर्विडङ्गैरथवा त्रिवृच्छ्यामार्कसंयुतैः
- करञ्जेङ्गुदिबीजैर्वा कुटजारग्वधायुतैः २२
- सर्वैर्वा सार्षपं तैलं सिद्धं मरिचसंयुतम्
- सनिम्बपत्रैरभ्यङ्गे मधूच्छिष्टान्वितं हितम् २३
- पालीषु व्याधियुक्तासु तन्वीषु कठिनासु च
- पुष्ट्यर्थं मार्दवार्थं च कुर्यादभ्यञ्जनं त्विदम् २४
- लोपाकानूपमज्जानं वसां तैलं नवं घृतम्
- पचेद्दशगुणं क्षीरमावाप्य मधुरं गणम् २५
- अपामार्गाश्वगन्धे च तथा लाक्षारसं शुभम्
- तत्सिद्धं परिपूतं च स्वनुगुप्तं निधापयेत् २६
- तेनाभ्यञ्ज्यात् सदा पालद्यं सुस्विन्नामतिमर्दिताम्
- एनेन पाल्यो वर्धन्ते निरुजो निरुपद्र वाः २७
- मृद्व्यः पुष्टाः समाः स्निग्धा जायन्ते भूषणक्षमाः
- नीलीदलं भृङ्गरजोऽजुनत्वक् पिण्डीतकं कृष्णमयोरजश्च
- बीजोद्भवं साहचरं च पुष्पं पथ्याक्षधात्रीसहितं विचूर्ण्य २८
- एकीकृतं सर्वमिदं प्रमाय पङ्केन तुल्यं नलिनीभवेन
- संयोज्य पक्षं कलशे निधाय लौहे घटे सद्मनि सापिधाने २९
- अनेन तैलं विपचेद्विमिश्रं रसेन भृङ्गत्रिफलाभवेन
- आसन्नपाके च परीक्षणार्थं पत्रं बलाकाभवमाक्षिपेच्च ३०
- भवेद्यदा तद्भ्रमराङ्गनीलं तदा विपक्वं विनिधाय पात्रे
- कृष्णायसे मासमवस्थितं तदभ्यङ्गयोगात् पलितानि हन्यात् ३१
- सैरीयजम्ब्वर्जुनकाश्मरीजं पुष्पं तिलान्मार्कवचूतबीजे
- पुनर्नवे कर्दमकण्टकार्यौ कासीसपिण्डीतकबीजसारम् ३२
- फलत्रयं लोहरजोऽञ्जनं च यष्ट्याह्वयं नीरजसारिवे च
- पिष्ट्वाऽथ सर्वं सह मोदयन्त्या साराम्भसा बीजकसंभवेन ३३
- साराम्भसः सप्तभिरेव पश्चात् प्रस्थैः समालोड्य् दशाहगुप्तम्
- लौहे सुपात्रे विनिधाय तैलमक्षोद्भवं तच्च पचेत् प्रयत्नात् ३४
- पक्वं च लौहैऽभिनवे निधाय नस्यं विदध्यात् परिशुद्धकायः
- अभ्यङ्गयोगैश्च नियुज्यमानं भुञ्जीत माषान् कृशरामथो वा ३५
- मासोपरिष्टाद्घनकुञ्चिताग्राः केशा भवन्ति भ्रमराञ्जनाभाः
- केशास्तथाऽन्ये खलतौ भवेयुर्जरा न चैनं सहसाऽभ्युपैति ३६
- बलं परं संभवतीन्द्रि याणां भवेच्च वक्त्रं वलिभिर्विमुक्तम्
- नाकामिनेऽनर्थिनि नाकृताय नैवारये तैलमिदं प्रदेयम् ३७
- लाक्षा रोध्रं द्वे हरिद्रे शिलाले कुष्ठं नागं गैरिका वर्णकाश्च
- मञ्जिष्ठोग्रा स्यात् सुराष्ट्रोद्भवा च पत्तङ्गं वै रोचना चाञ्जनं च ३८
- हेमाङ्गत्वक् पाण्डुपत्रं वटस्य कालीयं स्यात् पद्मकं पद्ममध्यम्
- रक्तं श्वेतं चन्दनं पारदं च काकोल्यादिः क्षीरपिष्टश्च वर्गः ३९
- मेदो मज्जा सिक्थकं गोघृतं च दुग्धं क्वाथः क्षीरिणां च द्रुमाणाम्
- एतत् सर्वं पक्वमैकध्यतस्तु वक्त्राभ्यङ्गे सर्पिरुक्तं प्रधानम् ४०
- हन्याद् व्यङ्गं नीलिकां चातिवृद्धां वक्त्रे जाताः स्फोटिकाश्चापि काश्चित्
- पद्माकारं निर्वलीकं च वक्त्रं कुर्यादेतत् पीनगण्डं मनोज्ञम् ४१
- राज्ञामेतद्योषितां चापि नित्यं कुर्याद्वैद्यस्तत्समानां नृणां च
- कुष्ठघ्नं वै सर्पिरेतत् प्रधानं येषां पादे सन्ति वैपादिकाश्च ४२
- हरीतकीचूर्णमरिष्टपत्रं चूतत्वचं दाडिमपुष्पवृन्तम्
- पत्रं च दद्यान्मदयन्तिकाया लेपोऽङ्गरागो नरदेवयोग्यः ४३
- इति सुश्रुतसंहितायां चिकित्सास्थाने मिश्रकचिकित्सितं नाम पञ्चविंशोऽध्यायः २५