भावप्रकाशः/उत्तरखण्डम्
दिखावट
- अथ चिकित्साप्रकरणे उत्तरखण्डम्
वाजीकरणाधिकारः
[सम्पाद्यताम्]- अथ द्विसप्ततितमो वाजीकरणाधिकारः ७२
- यद् द्र व्यं पुरुषं कुर्याद्वाजीव सुरतक्षमम्
- तद्वाजीकरमाख्यातं मुनिभिर्भिषजां वरैः १
- क्लीबः स्यात्सुरताशक्तस्तद्भावः क्लैब्यमुच्यते
- तच्च सप्तविधं प्रोक्तं निदानं तस्य कथ्यते २
- तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते
- ध्वजः पतत्यतो नॄणां क्लैब्यं समुपजायते
- द्वेष्यस्त्रीसम्प्रयोगाच्च क्लैब्यं तन्मानसं स्मृतम् ३
- कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः
- पित्ताच्छुक्रक्षयो दृष्टः क्लैब्यं तस्मात्प्रजायते ४
- अतिव्यवायशीलो यो न च वाजीक्रियारतः
- ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम् ५
- महता मेढ्ररोगेण चतुर्थी क्लीबता भवेत्
- वीर्यवाहिशिराच्छेदान्मेहनानुन्नतिर्भवेत् ६
- बलिनः क्षुब्धमनसो निरोधाद् ब्रह्मचर्यतः
- षष्ठं क्लैब्यं स्मृतं तत्तु शुक्रस्तम्भनिमित्तकम् ७
- जन्मप्रभृति यत्क्लैब्यं सहजं तद्धि सप्तमम् ८
- असाध्यं सहजं क्लैब्यं मर्मच्छेदाच्च यद्भवेत् ९
- क्लैब्यानामिह साध्यानां कार्यो हेतुविपर्ययः
- मुख्यं चिकित्सितं यस्मान्निदानपरिवर्जनम् १०
- नरो वाजीकरान्योगान्सम्यक्छुद्धो निरामयः
- सप्तत्यन्तं प्रकुर्वीत वर्षादूर्ध्वं तु षोडशात् ११
- न च वै षोडाशादर्वाक्सप्तत्याः परतो न च
- आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति १२
- क्षयवृद्ध्युपदंशाद्या रोगाश्चातीव दुर्जयाः
- अकालमरणञ्च स्याद्भजतः स्त्रियमन्यथा १३
- विलासिनामर्थवतां रुपयौवनशालिनाम्
- नराणां बहुभार्याणां विधिर्वाजीकरो हितः १४
- स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छताम्
- योषित्प्रसङ्गात्क्षीणानां क्लीबानामल्परेतसाम् १५
- हिता वाजीकरा योगाः प्रीणयन्ति बलप्रदाः
- एतेऽपि पुष्टदेहानां सेव्याः कालाद्यपेक्षया १६
- भोजनानि विचित्राणि पानानि विविधानि च
- गीतं श्रोत्राभिरामाश्च वाचः स्पर्शसुखस्तथा १७
- यामिनी चन्द्र तिलका कामिनी नवयौवना
- गीतं श्रोत्रमनोज्ञञ्च ताम्बूलं मदिरा स्रजः १८
- गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च
- मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम् १९
- माक्षीकधातुमधुपारदलोहचूर्णपथ्याशिलाजतुविडङ्गघृतानि लिह्यात्
- एकाग्रविंशतिदिनानि गदार्दितोऽपि साशीतिकोऽपि रमयेत्प्रमदां युवेव २०
- सत्वं गुडूच्या गगनं सलोध्रमेलासितामागधिकासमेतम्
- एतत्समेतं मधुनाऽवलीढं रामाशतं सेवयतीव षण्ढः २१
- गवां विरूढवत्सानां सिद्धं पयसि पायसम्
- गोधूमचूर्णञ्च तथा सितामधुघृतान्वितम्
- भुक्त्वा हृष्यति जीर्णोऽपि दश दारान्व्रजत्यपि २२
- दध्नोऽद्धाढकमीषदम्लमधुरं खण्डस्य चन्द्र द्युतेः
- प्रस्थं क्षौद्र पलं पलञ्च हविषः शुण्ठ्याश्च माषाष्टकम्
- तद्वन्माषचतुष्टयं मरिचतः कर्षं लवङ्गं तथा
- धृत्वा शुक्लपटे शनैः करतलेनोत्थाप्य विस्रावयेत् २३
- मृद्भाण्डे मृगनाभिचन्दनरसामृष्टेऽगुरूद्धूपिते
- कर्पू रेण सुगन्धितं तदखिलं संलोड्य संस्थापयेत्
- स्वस्यार्थं मकरेश्वरेण रचिता ह्येषा रसाला स्वयं
- भोक्तुर्मन्मथदीपनी सुखकरी कान्तेव नित्यं प्रिया २४
- रतिवर्द्धनयोगाः
- गोक्षुरेक्षुरबीजानि वाजिगन्धा शतावरी
- मुशली वानरीबीजं यष्टी नागबला बला २५
- एषां चूर्णं दुग्धसिद्धं गव्येनाज्येन भर्जितम्
- सितया मोदकं कृत्वा भक्ष्यं वाजीकरं परम् २६
- चूर्णादष्टगुणं क्षीरं घृतं चूर्णसमं स्मृतम्
- सर्वतो द्विगुणं खण्डं खादेदग्निबलं यथा २७
- वाजीकराणि भूरीणि संगृह्य रचितो यतः
- तस्माद्बहुषु योगेषु योगोऽय प्रवरो मतः २८
- चत्वारो व्योमभागास्तदनु निगदितं भागयुग्मञ्च बङ्गं
- भागैकं शम्भुबीजं त्रितयमपि मृतं तत्समा सिद्धमूली
- चातुर्जातं सजातीफलमरिचकणा नागरं देवपुष्पं
- जातीपत्रञ्च भागद्वितयमपि पृथक्सर्वमेकत्र चूर्ण्यम् २९
- सर्वद्व्यंशा सिता स्याद् घृतमधुसहितं मोदकीकृत्य चैतत्
- खादेदग्निं समीक्ष्य प्रसभमभिनवानन्दसम्वर्द्धनाय
- योगो वाजीकराख्योऽयमिह निगदितो भैरवानन्दनाम्ना
- निःशेषव्याधिहन्ता दलितबहुवधूद्दामकन्दर्पदर्पः ३०
- पिप्पलीलवणोपेते बस्ताण्डे घृतसाधिते
- कच्छपस्याथवा खादेत्तत्तु वाजीकरं भृशम् ३१
- पूगं दक्षिणदेशजं दशपलोन्मानं भृशं कर्त्तये
- त्तत्स्विन्नं जलयोगतो मृदुतरं सङ्कुट्य चूर्णीकृतम्
- तच्चूर्णं पटशोधितं वसुगुणे गोशुद्धदुग्धे पचेद्
- द्र व्याज्याञ्जलिसंयुतेऽतिनिबिडे दद्यात्तुलार्द्धां सिताम् ३२
- पक्वं तज्ज्वलनात्क्षितिं प्रति नयेत्तस्मिन्पुनः प्रक्षिपेद्
- यद्यत्तत्तदुदाहरामि बहुला दृष्ट्वाऽदरात्संहिताः
- एला नागबला बला सचपला जातीफला लिङ्गका
- जातीपत्रसुपत्रपत्रकयुतं तच्च त्वचा संयुतम् ३३
- विश्वावीरणवारिवारिदवरा वांशी वरी वानरी
- द्रा क्षा सेक्षुरगोक्षुराऽथ महती खर्जूरिका क्षीरिका
- धान्याकं सकशेरुकं समधुकं शृङ्गाटकं जीरकं
- पृथ्वीकाऽथ यवानिका वरटिका मांसी मिसी मेथिका ३४
- कन्देष्वत्र विदारिकाऽथ मुशली गन्धर्वगन्धा तथा
- कर्चूरं करिकेशरं समरिचं चारस्य बीजं नवम्
- बीजं शाल्मलिसम्भवं करिकणाबीजञ्च राजीवजं
- श्वेतं चन्दनमत्र रक्तमपि च श्रीसंज्ञपुष्पैः समम् ३५
- सर्वञ्चेति पृथक्पृथक् पलमितं सञ्चूर्ण्य तत्र क्षिपेत्
- सूतं बङ्गभुजङ्गलोहगगनं सम्मारितं स्वेच्छया
- कस्तूरीघनसारचूर्णमपि च प्राप्तं यथा प्रक्षिपेत्
- पश्चादस्य तु मोदकान्विरचयेद् बिल्वप्रमाणानथ ३६
- तान्भुक्त्वाऽति सदा यथाऽनलबलं भुञ्जीत नाम्लं रसं
- पूर्वस्मिन्नशिते गते परिणतिं प्राग्भोजनाद्भक्षयेत्
- नित्यं स्त्रीरतिवल्लभाख्यकमिमं पूगस्य पाकं भजेत्
- स स्याद्वीर्यविवृद्धिवृद्धमदनो वाजीव शक्तो रतौ ३७
- दीप्ताग्निर्बलवान्वलीविरहितो हृष्टः स पुष्टः सदा
- वृद्धो योऽपि युवेव सोऽपि रुचिरः पूर्णेन्दुवत्सुन्दरः ३८
- एतस्मिन् रतिवल्लभे यदि पुनः सम्यक्खुराशाणिका
- धत्तूरस्य च बीजमर्ककरभः पोथोऽब्धिशोषस्तथा
- सन्माजूफलकं तथा खसफलत्वक्कार्षिकान् निक्षिपे
- च्चूर्णार्द्धा विजया तदा स हि भवेत्कामेश्वरो मोदकः ३९
- रक्तपित्ताधिकारोक्तः खण्डकूष्माण्डको महान्
- रक्तपित्तादिरोगघ्नो महावाजीकरः स्मृतः ४०
- पक्वाम्रस्य रसद्रो णे सितामाढकसम्मिताम्
- घृतं प्रस्थमितं दद्यान्नागरस्य पलाष्टकम् ४१
- मरिचं कुडवोन्मानं पिप्पली द्विपलोन्मिता
- सलिलस्याढकं दत्वा सर्वमेकत्र कारयेत् ४२
- विपचेन्मृण्मये पात्रे दारुदर्व्या प्रचालयेत्
- चूर्णान्येषां क्षिपेत्तत्र घनीभूतेऽवतारिते ४३
- धान्यकं जीरकं पथ्यां चित्रकं मुस्तकं त्वचम्
- बृहज्जीरकमप्यत्र ग्रन्थिकं नागकेशरम् ४४
- एलाबीजं लवङ्गञ्च पृथग्जाती पलम्पलम्
- सिद्धं शीते प्रदद्याच्च मधुनः कुडवद्वयम् ४५
- भक्षयेद्भोजनादर्वाक्पलमात्रमिदं नरः
- अथवा नियता नात्र मात्रां खादेद्यथाऽनलम् ४६
- मानवः सेवनादस्य वाजीव सुरते भवेत्
- समर्थो बलवान्पुष्टो नित्यं स स्यान्निरामयः ४७
- ग्रहणीं नाशयेदेष क्षयं श्वासमरोचकम्
- अम्लपित्तं महाश्वासं रक्तपित्तञ्च पाण्डुताम् ४८
- शमयति गोक्षुर चूर्णं छाग क्षीरेण साधितं समधु
- भुक्तं क्षपयति षण्ढ्यं यज्जनितं कुप्रयोगेण ४९
- द्र व्याणि चन्दनादेस्तु चन्दनं रक्तचन्दनम्
- पत्तङ्गमथ कालीयागुरुकृष्णागुरूणि च ५०
- देवद्रुमः ससरलः पद्मकं तूणिकोऽपि च
- कर्पूरो मृगनाभिश्च लता कस्तूरिकाऽपि च ५१
- सिह्लिकः कुङ्कमं नव्यं जातीफलकमेव च
- जातीपत्रं लवङ्गञ्च सूक्ष्मैला महती च सा ५२
- कङ्कोलफलकं त्वक्च पत्रकं नागकेशरम्
- बालकञ्च तथोशीरं मांसी दारुसिताऽपि वा ५३
- मुरा कर्पूरकश्चापि शैलेयं भद्र मुस्तकम्
- रेणुका च प्रियङ्गुश्च श्रीवासो गुग्गुलुस्तथा ५४
- लाक्षा नखश्च रालश्च धातकीकुसुमं तथा
- ग्रन्थिपर्णञ्च मञ्जिष्ठा तगरं सिक्थकं तथा ५५
- एतानि शाणमानानि कल्कीकृत्य शनैः पचेत्
- तैलं प्रस्थमितं सम्यगेतत्पात्रे शुभे क्षिपेत् ५६
- अनेनाभ्यक्तगात्रस्तु वृद्धोऽशीतिसमोऽपि सः
- युवा भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः ५७
- वन्ध्याऽपि लभते गर्भं वृद्धोऽपि तरुणायते
- अपुत्रः पुत्रमाप्नोति जीवेच्च शरदां शतम् ५८
- चन्दनादि महातैलं रक्तपित्तं क्षयं ज्वरम्
- दाहं प्रस्वेददौर्गन्ध्यं कुष्ठं कण्डूं विनाशयेत् ५९
- दशमूलं कणा वह्निः कपित्थञ्च विभीतकम्
- कट्फलं मरिचं विश्वमूलं पिप्पलिसैन्धवम् ६०
- रक्तरोहीतकं दन्ती द्रा क्षाजाजिनिशाद्बयम्
- धात्रीजन्तुघ्नशिखरि शृङ्गीदारुपुनर्नवाः ६१
- धान्याकं देवकुसुमं राजवृक्षस्त्रिकण्टकम्
- वृद्धदारुकुबेराक्ष्यौ मूलं वीरणिकाभवम् ६२
- एतेषां पलयुग्मन्तु भेषजानां पृथक्पृथक्
- आढकञ्चापि पथ्यायास्तोये पञ्चाढके पचेत् ६३
- स्विन्ना पथ्या भवेद्यावत्पश्चान्मधु विनिक्षिपेत्
- गुरूपदेशाद्विधिवत्त्रिदिनञ्च ततः परम् ६४
- पुनः क्षिपेत्पञ्चदिनं तथा च दशवासरम्
- संसिद्धा चाभया पश्चाद् घृतभाण्डे निधापयेत् ६५
- विमले सुदृढे क्षौद्र परिपूर्णेप्रयत्नतः
- पश्चात्पूर्वोक्तकाण्डे तु क्षिपेद् बुद्धिपरायणः ६६
- एषा हरीतकी चैव धन्वन्तरि कृता शुभा
- भक्षयेद्यो नरो नित्यं रोगा नश्यन्ति सर्वशः ६७
- श्वासं कासं क्षयं पाण्डु हिक्का छर्दिमदभ्रमान्
- मुखरोगं तथा तृष्णामरुचिं वह्निमन्दताम् ६८
- यकृत्प्लीहोदरञ्चैव वातरक्तं सुदारुणम्
- शिरोऽक्षिकर्णजां पीडां तथा बद्धगुदोदरम् ६९
- ग्रहणीं दुर्विकाराञ्च शेषं दोषत्रयोद्भवम्
- मधुपक्वेति विख्याता हन्ति रोगाननेकशः ७०
- बीजानि तु कपिकच्छ्वाः कुडवमितानि च स्वेदयेच्छनकैः
- प्रस्थे गोभवदुग्धे तावद् यावद् भवेद् गाढम् ७१
- त्वग्रहितानि च कृत्वा सूक्ष्मं सम्पेषयेत्तानि
- पिष्टिकया लघुवटिकाः कृत्वा गव्ये पचेदाज्ये ६२
- द्विगुणितशर्करया ता वटिकाः सम्पक्वया लेप्याः
- वटिका माक्षिकमध्ये मज्जनयोग्येऽखिलाः स्थाप्याः ७३
- पञ्चटङ्कमितास्तास्तु प्रातः सायञ्च भक्षयेत्
- अनेन शीघ्रद्रा वी यो यश्च स्यात्पतितध्वजः ७४
- सोऽपि प्रात्नोति सुरते सामर्थ्यमति वाजिवत्
- नानेन सदृशं किञ्चिद् द्र व्यं वाजीकरं परम् ७५
- आकारकरभः शुण्ठी लवङ्गं कुङ्कुमं कणा
- जातीफलं जातिपुष्पं चन्दनं कार्षिकं पृथक् ७६
- चूर्णयेदहिफेनन्तु तत्र दद्यात्पलोन्मितम्
- सर्वमेकीकृतं माषमात्रं क्षौद्रे ण भक्षयेत् ७७
- शुक्रस्तम्भकरं पुंसामिदमानन्दकारकम्
- नारीणां प्रीतिजननं सेवेत निशि कामुकः ७८
- इति द्विसप्ततितमो वाजीकरणाधिकारः समाप्तः ७२
रसायनाधिकारः
[सम्पाद्यताम्]- अथ त्रिसप्ततितमो रसायनाधिकारः ७३
- यज्जराव्याधिविध्वंसि वयः स्तम्भकरं तथा
- चक्षुष्यं बृंहणं वृष्यं भेषजं तद्र सायनम् १
- दीर्घमायुः स्मृतिं मेधामारोग्यं तरुणं वयः
- देहेन्द्रि यबलं कान्तिं नरो विन्देद्र्रसायनात् २
- नाविशुद्धशरीरस्य युक्तो रासायनो विधिः
- न भाति वाससि म्लिष्टे रङ्गयोग इवार्पितः ३
- शीतोदकं पयः क्षौद्रं घृतमेकैकशो हितम्
- त्रिशः समस्तमथवा प्राक्पीतं स्थापयेद्वयः ४
- मण्डूकपर्ण्या स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम्
- रसो गुडूच्यास्तु समूलपुष्पः कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः ५
- आयुः प्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि
- मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी ६
- माक्षिकेण तुगाक्षीरी पिप्पल्या लवणेन च
- त्रिफला सितया वाऽपि युक्ता सिद्धं रसायनम् ७
- सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात्
- वर्षाऽदिष्वभया प्राश्या रसायनगुणैषिणा ८
- पुनर्नवस्यार्द्धपलं नवस्य पिष्टं पिबेद्यः पयसाऽद्धमासम्
- मासत्रयं तत्त्रिगुणं समं वा जीर्णोऽपि भूयः स पुनर्नवः स्यात्
- ये मासमेकं स्वरसं पिबन्ति दिने दिने भृङ्गरजःसमुत्थम्
- क्षीराशिनस्ते बलवीर्ययुक्ताः समाः शतं जीवनमाप्नुवन्ति १०
- शतावरी मुण्डितिका गुडूची सहस्तिकर्णा सहतालमूली
- एंतानि कृत्वा समभागयुक्तान्याज्येन किं वा मधुनाऽवलिह्यात् ११
- जरारुजामृत्युवियुक्तदेहो भवेन्नरो वीर्यबलादियुक्तः
- विभाति देवप्रतिमः स नित्यं प्रभामयो भूरिविवृद्धियुक्तः १२
- पीत्वाऽश्वगन्धां पयसाऽद्धमासं घृतेन तैलेन सुखाम्बुना वा
- वीर्यस्य पुष्टिं वपुषो विधत्ते बालस्य वृक्षस्य यथाऽम्बुवृष्टिः १३
- अयः पलं गुग्गुलुमत्र योज्यं पलत्रयं व्योषपलानि पञ्च
- पलानि चाष्टौ त्रिफलारजश्च कर्षं लिहन्यात्यमरत्वमेव १४
- न केवलं दीर्घमिहायुरश्नुते रसायनं यो विधिवन्निषेवते
- गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथैव चाक्षरम् १५
- इति त्रिसप्ततितमो रसायनाधिकारः समाप्तः ७३
- ग्रन्थकर्त्तृशुभाशीः शंसनम्
- यावद् व्योमनि बिम्बमम्बरमणेरिन्दोश्च विद्योतते
- यावत् सप्त पयोधयःसगिरयस्तिष्ठन्ति पृष्ठे भुवः
- यावच्चावनिमण्डलं फणिपतेरास्ते फणामण्डले
- तावत्सद्भिषजः पठन्तु परितो भावप्रकाशं शुभम् १
- ग्रन्थस्यास्याध्यापकनाञ्जनानां मध्ये नॄणामादरं कुर्वतां च
- श्रीसोमेशादित्यविप्रप्रसादादायुर्दीर्घं सौख्यमास्तां सदैव २
- समाप्तमिदमुत्तरखण्डम्
- समाप्तश्चायं ग्रन्थः