शिवधनुर्वेदः
दिखावट
अथ धनुर्वेदः
- ईश्वरोक्ताद्धनुर्वेदाद्व्यासस्यापि सुभाषितात्
- पदान्याकृष्य रचितो ग्रन्थः संक्षेपतो मया १
- विना शार्ङ्गधरं नान्यो धनुर्वेदार्थतत्त्ववित्
- यतः स्वप्ने निशि प्राप्ता धनुर्वेदार्थतत्त्ववित्
- यतः स्वप्ने निशि प्राप्ता शिवात्तत्त्वविचारणा २
- अतः संदेहदोलायां रोपणीयं न मानसम्
- ग्रन्थेस्मिंश्चापचतुरैर्वीरचिन्तामणौ क्वचित् ३
- यस्याभ्यासप्रसादेन निष्पद्यन्ते धनुर्धराः
- जेतारः परसैन्यानां तस्याभ्यासो विधीयताम् ४
- एकोऽपि यत्र नगरे प्रसिद्धः स्याद्धनुर्धरः
- ततो यान्त्यरयो दूरं मृगाः सिंहगृहादिव ५
- अथ धनुर्धारणविधिः
- आचार्येण धनुर्देयं ब्राह्मणे सुपरीक्षिते
- लुब्धे धूर्ते कृतघ्ने च मन्दबुद्धौ न दीयते ६
- ब्राह्मणाय धनुर्देयं खड्गं वै क्षत्रियाय च
- वैश्याय दापयेत्कुन्तं गदां शूद्रस्य दापयेत् ७
- धनुश्चक्रं च कुन्तं च खड्गं च च्छुरिका गदा
- सप्तमं बाहुयुद्धं स्यादेवं युद्धानि सप्तधा ८
- आचार्यः सप्तयुद्धः स्याच्चतुर्युद्धस्तु भार्गवः
- द्वाभ्यां चैव भवेद्योध एकेन गणको भवेत् ९
- हस्तः पुनर्वसुः पुष्यो रोहिणी चोत्तरात्रयम्
- अनुराधाश्विनी चैव रेवती दशमी तथा १०
- जन्मस्थे च तृतीये च षष्ठे वै सप्तमे तथा
- दशमैकादशे चन्द्रेसर्वकर्माणि कारयेत् ११
- तृतीया पञ्चमी चैव सप्तमी दशमी तथा
- त्रयोदशी द्वादशी च तिथयस्तु शुभा मताः १२
- सूर्यवारः शुक्रवारो गुरुवारस्तथैव च
- एतद्वारत्रयं धन्यं प्रारम्भे शस्त्रकर्मणाम् १३
- एभिर्दिनैस्तु शिष्याय गुरुः शस्त्राणि दापयेत्
- संतर्प्य दानहोमाभ्यां सुरान्वेदविधानतः १४
- ब्राह्मणान्भोजयेत्तत्र कुमारीश्चाप्यनेकशः
- तापसानर्चयेद्भक्त्या ये चान्ये शिवयोगिनः १५
- अन्नपानादिभिश्चैव वस्त्रालंकारभूषणैः
- गन्धमाल्यैर्विचित्रैश्च गुरुं तत्र प्रपूजयेत् १६
- कृतोपवासः शिष्यस्तु मृगाजिनपरिग्रहः
- बद्धाञ्जलिपुटस्तत्रयाचयेद्गुरुतो धनुः १७
- अङ्गन्यासस्ततः कार्यः शिवोक्तः सिद्धिमिच्छता
- आचार्येण च शिष्यस्य पापघ्नो विघ्ननाशनः १८
- शिखास्थाने न्यसेदीशं बाहुयुग्मे च केशवम्
- ब्रह्माणं नाभिकूपे तु जङ्घयोश्च गणाधिपम् १९
- ॐ हॐ शिखास्थाने शंकराय नमः
- ॐ हॐ बाह्वोः केशवाय नमः
- ॐ हॐ नाभिमध्ये ब्रह्मणे नमः
- ॐ हॐ जङ्घयोर्गणपतये नमः
- ईदृशं कारयेन्न्यासं येन श्रेयो भविष्यति
- अन्येऽपि दुष्टमन्त्रेण न हिंसन्ति कदाचन २०
- शिष्याय मानुषं चापं धनुर्मन्त्राभिमन्त्रितम्
- काण्डात्काण्डाभिमन्त्रेण दद्याद्वेदविधानतः २१
- प्रथमं पुष्पवेधं च फलहीनेन पत्रिणा
- ततः फलयुतेनैव मत्स्यवेधं च कारयेत् २२
- मांसवेधं ततः कुर्यादेवं वेधो भवेत्रिधा
- एतैर्वेधैः कृतैः पुंसां शराः स्युः सर्वसाधकाः २३
- वेधने चैव मांसस्य शरपातो यदा भवेत्
- पूर्वदिग्भागमाश्रित्य तदा स्याद्विजयी सुखी २४
- दक्षिणे कलहो घोरो विदेशगमनं पुनः
- पश्चिमे धनधान्यं च सर्वं चैवोत्तरे शुभम् २५
- ऐशान्यां पतनं दुष्टं विदिशोऽन्याश्च शोभनाः
- हर्षपुष्टिकराश्चैव सिद्धिदाः शस्त्रकर्मणि २६
- एवं वेधत्रयं कुर्याच्छङ्खदुन्दुभिनिः स्वनैः
- ततः प्रणम्य गुरवे धनुर्बाणान्निवेदयेत् २७
- अथ चापप्रमाणम्
- प्रथमं यौगिकं चापं युद्धचापं द्वितीयकम्
- निजबाहुबलान्मानात्किंचिदूनं शुभं धनुः २८
- वरं प्राणाधिको धन्वी न तु प्राणाधिकं धनुः
- धनुषा पीड्यमानस्तु धन्वी लक्ष्यं न पश्यति २९
- अतो निवबलोन्मानं चापं स्याच्छुभकारकम्
- देवानामुत्तमं चापं ततो न्यूनं च मानवम् ३०
- अर्धपञ्चमहस्तं तु श्रेष्ठं चापं प्रकीर्तितम्
- तद्विज्ञेयं धनुर्दिव्यं शंकरेण धृतं पुरा ३१
- तस्मात्परशुरामेण ततो द्रोणेन धारितम्
- द्रोणाद्गृहीतं पार्थेन ततः सात्यकिना धृतम् ३२
- कृते युगे महादेवस्त्रेतायां चापि राघवः
- द्वापरे द्रोणविप्रश्च दैवं चापमधारयत् ३३
- चतुर्विशाङ्गुलो हस्तश्चतुर्हस्तं धनुः स्मृतम्
- तद्भवेन्मानवं चापं सर्वलक्षणसंयुतम् ३४
- त्रिपर्व पञ्चपर्व च सप्तपर्व प्रकीर्तितम्
- नवपर्व च कोदण्डं चतुर्धा शुभकारकम् ३५
- चतुःपर्व च षट्पर्व अष्टपर्व विवर्जयेत्
- केषांचिच्च भवेच्चापं वितस्तिनवसंमितम् ३६
- अतिजीर्णमपक्वं च ज्ञातिधृष्टं तथैव च
- दग्धं छिद्रं न कर्तव्यं बाह्याभ्यन्तरहस्तकम् ३७
- गुणहीनं गुणाक्रान्तं काण्डदोषसमन्वितम्
- गलग्रन्थि न कर्तव्यं तलमध्ये तथैव च ३८
- अपक्वं भङ्गमायाति अतिजीर्णं तु कर्कशम्
- जातिधृष्टं तु सोद्वेगं कलहो बान्धवैः सह ३९
- दग्धेन दह्यते वेश्म छिद्रं युद्धविनाशनम्
- बाह्यो लक्ष्यं न लभ्येत तथैवाभ्यन्तरेपि वा ४०
- हीने तु संधिते बाणे संग्रामे भङ्गकारकम्
- आक्रान्ते तु पुनः क्वापि न लक्ष्यं प्रप्यते दृढम् ४१
- गलग्रन्थि तलग्रन्थि घनहानिकरं धनुः
- एभिर्दोषैर्विनिर्मुक्तं सर्वकार्यकरं स्मृतम् ४२
- शार्ङ्ग पुनर्धनुर्दिव्यं विष्णोः परममायुधम्
- वितस्तिसप्तसंमानं निर्मितं विश्वकर्मणा ४३
- न च स्वर्गे न पाताले न भूमौ कस्यचित्करे
- तद्धनुर्वशमायाति मुक्त्वैकं पुरुषोत्तमम् ४४
- पौरुषेयं तु यच्छार्ङ्ग बहुवत्सरशोषितम्
- वितस्तिभिः सार्धषड्भिर्मितं सर्वार्थसाधनम् ४५
- प्रयो योगयं धनुः शार्ङ्ग गजारोहाश्वसादिनाम्
- रथिनां च पदातीनां वांशं चापं प्रकीर्तितम् ४६
- अथ गुणलक्षणानि
- गुणानां लक्षणं वक्ष्ये यादृशं कारयेद्गुणम्
- पट्टसूत्रो गुणः कार्यः कनिष्ठामानसंमितः ४७
- धनुःप्रमाणो निःसन्धिः शुद्धैस्त्रिगुणतन्तुभिः
- वर्तितः स्याद्गुणः श्लक्ष्णः सर्वकर्मसहो युधि ४८
- अभावे पट्टसूत्रस्य हारिणी स्नायुरिष्यते
- गुणार्थमथवा ग्राह्याः स्नायवो महिषीगवाम् ४९
- तत्कालहतगोकर्णचर्मणा छागलेन वा
- निर्लोम्ना तन्तुरूपेण कुर्याद्धा गुणमुत्तमम् ५०
- पक्ववंशत्वचा कार्यो गुणस्तु स्थावरो दृढः
- पट्टसूत्रेण संनद्धः सर्वकर्मसहो युधि ५१
- प्राप्ते भाद्रपदे मासि त्वगर्कस्य प्रशस्यते
- तस्यास्तत्र गुणः कार्यः पवित्रः स्थावरो दृढः ५२
- वृत्तार्कसूत्रतन्तूनां हस्तास्त्वष्टादश स्मृताः
- सद्वृत्तं त्रिगुणं कार्यं प्रमाणोऽयं गुणे स्मृतः ५३
- अथ शरलक्षणानि
- अतः परं प्रवक्ष्यामि शराणां लक्षणं शुभम्
- स्थूलं न चातिसूक्ष्मं च न पक्वं न कुभूमिजम्
- हीनग्रन्थिविदीर्णं च वर्जयेदीदृशं शरम् ५४
- पूर्णग्रन्थि सुपक्वं च पाण्डुरं समयाहृतम्
- कठिनं वर्तुलं काण्डं गृह्णीयात्सुप्रदेशजम् ५५
- द्वौ हस्तौ मुष्टिहीनौ तु दैर्घ्ये स्थौल्ये कनिष्ठिका
- विधेया शरमानेषु यन्त्रेष्वाकर्षेयेत्ततः ५६
- कङ्हंसशशादानां मत्स्यादक्रौञ्चकेकिनाम्
- गृध्राणां कुक्कुटानां च पक्षा एतेषु शोभनाः ५७
- एकैकस्य शरस्यैव चतुष्पक्षाणि योजयेत्
- षडङ्गुलप्रमाणेन पक्षच्छेदं च कारयेत् ५८
- दशाङ्गुलमिताः पक्षाः शार्ङ्गचापस्य मार्गणे
- योज्या दृढाश्चतुःसंख्याः संनद्धाः स्नायुतन्तुभिः ५९
- शराश्च त्रिविधा ज्ञेयाः स्त्री पुमांश्च नपुंसकः
- अग्रे स्थूलो भवेन्नारी पश्चात्स्थूलो भवेत्पुमान् ६०
- समं नपुंसकं ज्ञेयं तल्लक्ष्यार्थं प्रशस्यते
- दूरापातं युवत्या च पुरुषो भेदयेद्दृढम् ६१
- अथ फललक्षणानि
- फलं तु शुद्धलोहस्य सुधारं तीक्ष्णमक्षतम्
- योजयेद्वज्रलेपेन शरे पक्षानुमानतः ६२
- आरामुखं क्षुरप्रं च गोपुच्छं चार्धचन्द्रकम्
- सूचिमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ६३
- कर्णिकं काकतुण्डं च तथान्यान्यप्यनेकशः
- फलानि देशभेदेषु भवन्ति बहुरूपतः ६४
- आरामुखेन वै चर्म क्षुरप्रेण च कार्मुकम्
- सुचीमुखेन कवचमर्धचन्द्रेण मस्तकम् ६५
- भल्लेन द्रदयं वेध्यं द्विभल्लेन गुणः शरः
- लोहं च काकतुण्डेन लक्ष्यं गोपुच्छकेन च ६६
- अन्यद्गोपुच्छकं ज्ञेयं शुद्धकाष्ठविनिर्मितम्
- मुखे च लोहकण्टेन वेध्यं त्र्यङ्गुलसंमितम् ६७
- अथ फलपायनम्
- फलस्य पायनं वक्ष्ये दिव्यौषधिविलेपनैः
- येन दुर्भेद्यवर्माणि भेदयेत्तरुपर्णवत् ६८
- पिप्पली सैन्धवं कुष्ठं गोमूत्रेण तु पेषयेत्
- अनेन लेपयेच्छस्त्रं लिप्तं चाग्नौ प्रतापयेत् ६९
- अविशीतमनाविद्धं पीतनष्टं तथौषधम्
- ततो निर्वापितं तैले लोहं तत्र विशिष्यते ७०
- पञ्चभिर्लवणैः पिष्टैर्मधुसिक्तैः ससर्षपैः
- एभिः प्रलेपयेच्छस्त्रं लिप्तं चाग्नौ प्रतापयेत् ७१
- शिखिग्रीवानुवर्णाभं तप्तपीतं तथौषधम्
- ततस्तु विमलं तोयं पाययेच्छस्त्रमुत्तमम् ७२
- अथ नाराचनालीकौ
- सर्वलोहास्तु ये बाणा नाराचास्ते प्रकीर्तिताः
- पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिद्ध्यन्ति कस्यचित् ७३
- नालीका लघवो बाणा तलयन्त्रेण चोदिताः
- अत्युच्चदूरपातेषु दुर्गयुद्धेषु ते मताः ७४
- अथ स्थानमुष्टयाकर्षणलक्षणानि
- स्थानान्यष्टौ विधेयानि योजने भिन्नकर्मणाम्
- मुष्टयः पञ्च समाख्याता व्यायाः पञ्च प्रकीर्तिता ७५
- अग्रेता वामपादं च दक्षिणं जानु कुञ्चितम्
- आलीढं तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ७६
- प्रत्यालीढं तु कर्तव्यं सव्यं चेवानुकुञ्चितम्
- दक्षिणं च पुरस्तद्वद्दूरपाते विशिष्यते ७७
- पादौ सुविस्तरौ कार्यौ समौ हस्तप्रमाणतः
- विशाखस्थानकं ज्ञेयं कूटलक्ष्यस्य वेधने ७८
- समपादे समौ पादौ निष्कम्पौ च सुसंगतौ
- असमे च पुरो वामो हस्तमात्रे नतं वपुः ७९
- आकुञ्चितोरू द्वौ यत्र जानुभ्यां धरणिं गतौ
- दर्दुरक्रममित्याहुः स्थानकं दृढभेदने ८०
- सव्यं जानु गतं भूमौ दक्षिणं च सकुञ्चितम्
- अग्रतो यत्र वातव्यं तं विद्याद्गरुडक्रमम् ८१
- पद्मासनं प्रसिद्धं तु उपविश्य यथाक्रमम्
- धन्विनां तत्तु विज्ञेयं स्थानकं शुभलक्षणम् ८२
- अथ गुणमुष्टयः
- पताका वज्रमुष्टिश्च सिंहकर्णी तथैव च
- मत्सरी काकतुण्डी च योजनीया यथाक्रमम् ८३
- दीर्घा तु तर्जनी यत्र आश्रिताङ्गुष्ठमूलकम्
- पताका सा च विज्ञेया नलिका दूरमोक्षणे ८४
- तर्जनी मध्यमामध्यमङ्गुष्ठो विशते यदि
- वज्रमुष्टिस्तु सा ज्ञेया स्थूले नाराचमोक्षणे ८५
- अङ्गुष्ठनखमूले तु तर्जन्यग्रं सुसंस्थितम्
- मत्सरी सा च विज्ञेया चित्रलक्ष्यस्य वेधने ८६
- अङ्गुष्ठाग्रे तु तर्जन्या मुखं यत्र निवेशितम्
- काकतुण्डी च विज्ञेया सूक्ष्मलक्ष्येषु योजिता ८७
- अथ धनुर्मुष्टिसंधानम्
- संधानं त्रिविधं प्रोक्तमध ऊर्ध्वं समं तथा
- योजयेत्त्रिप्रकारं हि कार्येष्वपि यथाक्रमम् ८८
- अधश्च दूरपातित्वं समे लक्ष्यं सुनिश्चितम्
- दृढस्फोटं प्रकुर्वीत ऊर्ध्वसंस्थानयोगतः ८९
- अथ व्यायाः
- कैशिकः केशमूले चेच्छरः शृङ्गे च सात्त्विकः
- श्रवणे वत्सकर्णश्च ग्रीवायां भरतो भवेत् ९०
- अंसके स्कन्धनामा च व्यायाः पञ्च प्रकीर्तिताः
- कैशिकश्चित्रयुद्धेषु अधोलक्ष्येषु सात्त्विकः ९१
- वत्सकर्णः स विज्ञेयो भरतो दृढभेदने
- दृढभेदे च दूरे च स्कन्धनामानमुद्दिशेत् ९२
- अथ लक्ष्यम्
- लक्ष्यं चतुर्विधं ज्ञेयं स्थिरं चैव चलं तथा
- वेधयेत्रिप्रकारं तु स्थिरवेधी सु उच्यते ९३
- आत्मानं सुस्थिरं कृत्वा लक्ष्यं चैव स्थिरं बुधः
- वेधयेत्त्रिप्रकारं तु स्थिरवेधी स उच्यते ९४
- चलं तु वेधयेद्यस्तु आत्मना स्थिरसंस्थितः
- चललक्ष्यं तु तत्प्रोक्तमाचार्येण सुधीमता ९५
- धन्वी तु चलते यत्र स्थिरलक्ष्ये समाहितः
- चलाचलं भवेत्तत्र अप्रमेयमनिन्दितम् ९६
- उभावेव चलौ यत्र लक्ष्यं चापि धनुर्धरः
- तद्विज्ञेयं द्वयचलं श्रमेणैव हि साध्यते ९७
- श्रमेणास्खलितं लक्ष्यं दूरं च बहुभेदनम्
- श्रमेण कठिना मुष्टिः शीघ्रसंधानमाप्यते ९८
- श्रमेण चित्रयोधित्वं श्रमेण प्राप्यते जयः
- तस्माद्गुरुसमक्षं हि श्रमः कार्यो विजानता ९९
- प्रथमं वामहस्तेन यः श्रमं कुरुते नरः
- तस्य चापक्रियासिद्धिरचिरादेव जायते १००
- वामहस्ते तु संसिद्धे पश्चाद्दक्षिणमारभेत्
- उभाभ्यां च श्रमं कुर्यान्नाराचैश्च शरैस्तथा १०१
- वामेनैव श्रमं कुर्यात्सुसिद्धे दक्षिणे करे
- विशाखेनासमेनैव तथा व्याये च कैशिके १०२
- उदिते भास्करे लक्ष्यं पश्चिमायां निवेशयेत्
- अपराह्ने च कर्तव्यं लक्ष्यं पूर्वदिगाश्रितम् १०३
- उत्तरेण सदा कार्यं प्राणस्य न विरोधकम्
- संग्रामेण विना कार्यं न लक्ष्यं दक्षिणामुखम् १०४
- षष्टिधन्वन्तरे लक्ष्यं ज्येष्ठलक्ष्यं प्रकीर्तितम्
- चत्वारिंशन्मध्यमं च विंशतिश्च कनिष्ठकम् १०५
- शराणां कथितं ह्येतन्नाराचानामथोच्यते
- चत्वारिंशच्च त्रिंशच्च षोडशैव भवेत्ततः १०६
- चतुःशतैश्च काण्डानां यो हि लक्ष्यं विसर्जयेत्
- सूर्योदये चास्तमये स ज्येष्ठो धन्विनां भवेत् १०७
- त्रिशतैर्मध्यमश्चैव द्विशताभ्यां कनिष्ठकः
- लक्ष्यं च पुरुषोन्मानं कुर्याच्चन्द्रकसंयुतम् १०८
- ऊर्ध्ववेदी भवेज्ज्येष्ठो नाभिवेधी च मध्यमः
- यः पादवेधी लक्ष्यस्य स कनिष्ठो मतो मया १०९
- अथानध्यायः
- अष्टमी च अमावास्या वर्जनीया चतुर्दशी
- पूर्णिमार्धदिनं यावन्निषिद्धा सर्वकर्मसु ११०
- अकाले गर्जिने देवे दुर्दिनं वाथवा भवेत्
- पूर्वकाण्डहतं लक्ष्यमनध्यायं प्रचक्षते १११
- श्रमं च कुर्वतस्तत्र भुजंगो यदि दृश्यते
- अथवा भज्यते चापं यदैव श्रमकर्मणि ११२
- त्रुट्यते वा गुणो यत्र प्रथमे बाणमोक्षणे
- श्रमं तत्र न कुर्वीत शस्त्रे मतिमतां वरः ११३
- अथ श्रमक्रिया
- क्रियाकलापान्वक्ष्यामि श्रमसाध्याञ्शुचिष्मताम्
- येषां विज्ञानमात्रेण सिद्धिर्भवति नान्यथा ११४
- प्रथमं चापमारोप्य चूलिकां बन्धयेत्ततः
- स्थानकं तु ततः कृत्वा बाणोपरि करं न्यसेत् ११५
- तुलनं धनुषश्चैव कर्तव्यं वामपाणिना
- आदानं च ततः कृत्वा संधानं च ततः परम् ११६
- सकृदाकृष्टचापेन भूमिवेधं तु कारयेत्
- नमस्कुर्याच्छिवं विघ्नराजं गुरुधनुःशरान् ११७
- याचितव्या गुरोराज्ञा बाणस्याकर्षणं प्रति
- प्राणवायुं प्रयत्नेन बाणेन सह पूरयेत् ११८
- कुम्भकेन स्थिरं कृत्वा हुंकारेण विसर्जयेत्
- इत्यभ्यासक्रिया कार्या धन्विना सिद्धिमिच्छता ११९
- षण्मासात्सिद्ध्यते मुष्टिः शराः संवत्सरेण तु
- नाराचास्तस्य सिद्धयन्ति यस्य तुष्टो महेश्वरः १२०
- पुष्पवद्धारयेद्बाणं सर्पवत्पीडयेद्धनुः
- धनवच्चिन्तयेल्लक्ष्यं यदीच्छेत्सिद्धिमात्मनः १२१
- क्रियामिच्छन्ति आचार्या दूरमिच्छन्ति भार्गवाः
- राजानो दृष्टिमिच्छन्ति लक्ष्यमिच्छन्ति चेतरे १२२
- जनानां रञ्जनं येन लक्ष्यघातात्प्रजायते
- हीनेनापीषुणा तस्मात्प्रशस्तं लक्ष्यवेधनम् १२३
- विशाखस्थानके स्थित्वा समसंधानमाचरेत्
- गोपुच्छम्नुखबाणेन सिंहकर्ण्या च मुष्टिना १२४
- आकर्षेत्कैशिकव्याये न शिखां चालयेत्ततः
- पूर्वापरौ समौ कार्यौ समांसौ निश्चलौ करौ १२५
- चक्षुषी स्पन्दयेन्नैव दृष्टिं लक्ष्ये नियोजयेत्
- मुष्टिनाच्छादितं लक्ष्यं शरस्याग्रे नियोजयेत् १२६
- मनो दृष्टिगतं ज्ञात्वा ततः काण्डं विसर्जयेत्
- स्खलत्येवं कदाचिन्न लक्ष्ये योधो जितश्रमः १२७
- आदानं चैव तूणीरात्संधानं कर्षणं तथा
- क्षेपणं च त्वरायुक्तो बाणस्य कुरुते तु यः
- नित्याभ्यासवशात्तस्य शीघ्रसंधानता भवेत् १२८
- प्रत्यालीढे कृते स्थाने अधःसंधानमाचरेत्
- मुष्ट्या पताकया बाणं स्त्रीचिह्नं दूरपातनम् १२९
- दर्दुरक्रममास्थाय ऊर्ध्वसंधानमाचरेत्
- स्कन्धव्यायेन वज्रस्य मुष्ट्या पुंमार्गणेन च
- अत्यन्तसौष्ठवाद्वाह्वोर्जायते दृढवेधिता १३०
- सूचीमुखा मीनपुच्छा भ्रमरी च तृतीयका
- शराणां गतयस्तिस्रः प्रशस्ताः कथिता बुधैः १३१
- सूचीमुखगतिस्तस्य सायकस्य प्रजायते
- पत्रं विलोमितं यस्य अथवा हीनपत्रकम् १३२
- कर्कशेन तु चापेन यः कृष्टो हीनमुष्टिना
- मत्स्यपुच्छा गतिस्तस्य सायकस्य प्रकीर्तिता १३३
- भ्रमरी कथिता ह्येषा विद्वद्भिः श्रमकर्मणि
- ऋजुत्वेन विना याति क्षेप्यमाणस्तु सायकः १३४
- वामगा दक्षगा चैव ऊर्ध्वगाधोगमा तथा
- चतस्रो गतयः प्रोक्ता बाणस्खलनहेतवः १३५
- कम्पते गुणमुष्टिस्तु मार्गणस्य हि पृष्ठतः
- संमुखी स्याद्धनुर्मुष्ठिस्तदा वामे गतिर्भवेत् १३६
- ग्रहणं शिथिलं यस्य ऋजुत्वेन विसर्जितम्
- पार्श्वं तु दक्षिणं याति सायकस्य न संशयः १३७
- ऊर्ध्वं याति चापमुष्टिर्गुणमुष्टिरधो भवेत्
- स मुक्तो मागणो लक्ष्याद्दूरं याति न संशयः १३८
- मोक्षणे चैव बाणस्य चापमुष्टिरधो भवेत्
- गुणमुष्टिर्भवेदूर्ध्वं तदाधोगामिनी गतिः १३९
- लक्ष्यबाणाग्रदृष्टीनां संगतिस्तु यदा भवेत्
- तदानीमुज्झितो बाणो लक्ष्यान्न स्खलति ध्रुवम् १४०
- निर्दोषः शब्दहीनश्च सममुष्टिद्वयोज्झितः
- भिनत्ति दृढवेध्यानि सायको नास्ति संशयः १४१
- स्वाकृष्टस्तेजितो यश्च सुशुद्धो गाढमुक्तितः
- नरनागाश्वकायेषु न स तिष्ठति मार्गणः १४२
- यस्य तृणसमा बाणा यस्येन्धनसमं धनुः
- यस्य प्राणसमा मौर्वी स धन्वी धन्विनां वरः १४३
- अयश्चर्म घतश्चैव मृत्पिण्डं च चतुष्टयम्
- यो भिनत्ति हि तस्येषुर्वज्रेणापि न धारय्ते १४४
- सार्धाङ्गुलप्रमाणेन लोहपात्राणि कारयेत्
- तानि भित्त्वैकबाणेन दृढघाती भवेन्नरः १४५
- चतुर्विंशतिचर्माणि भिनत्त्येकेषुणा नरः
- तस्य बाणो गजेन्द्रस्य कायं निर्भिद्य गच्छति १४६
- भ्राम्यञ्जले घटो वेद्ध्यश्चक्रे मृत्पिण्डकं तथा
- भ्रमन्तं वेधयेद्यस्तु दृढभेदी स उच्यते १४७
- अयस्तु काकतुण्डेन चर्म आरामुखेन हि
- मृत्पिण्डं च घटं चैव विध्येत्सूचिमुखेन हि १४८
- बाणभङ्गं करावर्तं काष्ठच्छेदनमेव च
- बिन्दुकं गोलकयुगं यो वेत्ति स जयी भवेत् १४९
- लक्ष्यस्थाने धृतं काण्डं ससुखं छेदयेत्ततः
- किंचिन्मुष्टिं विधाय स्वां तिर्यग्विफलिकेषुणा १५०
- संमुखं वा समायान्तं तिर्यक्छायं तमम्बरे
- शरं शरेण यश्छिन्द्याद्बाणच्छेदी स जायते १५१
- काष्ठेऽश्वकेशं संयम्य तत्र बद्ध्वा वराटिकाम्
- हस्तेन भ्राम्यमाणां च यो हन्ति स धनुर्धरः १५२
- लक्ष्यस्थाने न्यसेत्काष्ठं सार्द्रं गोपुच्छसंनिभम्
- यश्छिन्द्यात्तं क्षुरप्रेण काष्ठच्छेत्ता स जायते १५३
- लक्ष्ये बिन्दुं न्यसेच्छुभ्रं शुभ्रबन्धूकपुष्पवत्
- हन्ति तं बिन्दुकं यस्तु चित्रयोधी स जायते १५४
- काष्ठगोलयुगं क्षिप्तं दूरमूर्ध्वपुरःस्थितिः
- अप्राप्तधारं पृष्ठेन गच्छेत्पुच्छमुखेन हि १५५
- यो हन्ति शरयुग्मेन शीघ्रसंधानयोगतः
- स स्याद्धनुर्भृतां श्रेष्ठः पूजितः सर्वपार्थिवैः १५६
- रथस्थेन गजस्थेन हयस्थेन च पत्तिना
- धावता वै श्रमः कार्यो लक्ष्यं हन्तुं सुनिश्चितम् १५७
- लक्ष्यस्थाने न्यसेत्कांस्यपात्रं हस्तद्वयान्तरे
- ताडयेच्छर्कराभिस्तच्छब्दः संजायते यथा १५८
- यत्रैवोत्पद्यते शब्दस्तं सम्यक्तत्र चिन्तये
- कर्णेन्द्रियमनोयोगाल्लक्ष्यंनिश्चयतां नयेत् १५९
- पुनः शर्करया तच्च ताडयेच्छब्दहेतवे
- पुनर्निश्चयतां नेयं शब्दस्थानानुसारतः १६०
- ततः किंचित्कृतं दूरे नित्यं नित्यं विधानतः
- लक्ष्यं समभ्यसेद्ध्वान्ते शब्दव्यधनहेतवे १६१
- ततोअ बाणेन हन्यात्तदवधानेन तीक्ष्णधीः
- एतच्च दुष्करं कर्म भाग्यैः कस्यापि सिद्धयति १६२
- एवं श्रमविधिं कुर्याद्यावत्सिद्धिः प्रजायते
- श्रमे सिद्धे च वर्षासु नैव ग्राह्यं धनुः करे १६३
- पूर्वाभ्यासस्य शस्त्राणामविस्मरणहेतवे
- मासद्वयं श्रमं कुर्यात्प्रतिवर्षं शरदृतौ १६४
- जाते वाश्वयुजे मासि नकमीदेवतादिने
- पूजयेदीश्वरं चण्डीं गुरुं शस्त्राणि वाजिनः १६५
- विप्रेभ्यो दक्षिणां दत्त्वा कुमारी भोजयेत्ततः
- देव्यै पशुवलिं दत्त्वा हृष्टो वादित्रमङ्गलैः १६६
- ततस्तु साधयेन्मन्त्रान्वेदोक्तांश्चागमोदितान्
- अस्त्राणां कर्मसिद्ध्यर्थं जपहोमविधानतः १६७
- ब्राह्मं नारायणं शैवमैन्द्रं वायव्यवारुणे
- आग्नेयं चापरास्त्राणि गुरुदत्तानि साधयेत् १६८
- मनोवाक्कर्मभिर्भाव्यं लब्धास्त्रेण शुचिष्मता
- अपात्रमसमर्थं च घ्नत्यस्त्राणि कुपूरुषम् १६९
- प्रयोगं चोपसंहारं यो वेत्ति स धनुर्धरः
- सामान्ये कर्मणि प्राज्ञो नैवास्त्राणि प्रयोजयेत् १७०
- हस्तार्के लाङ्गलीकन्दं गृहित्वा तस्य लेपतः
- शूरस्यापि रणे पुंसो दर्पं हरति सत्वरः १७१
- गृहीतं योगनक्षत्रैरपामार्गस्य मूलकम्
- लेपमात्रेण वीराणां सर्वशस्त्रनिवारणम् १७२
- अधःपुस्पी शङ्खपुष्पी लज्जालुर्गिरिकर्णिका
- नीलिनी सहदेवा च पुत्रमार्जारिका तथा १७३
- विष्णुक्रान्ता च सर्वासां जटा ग्राह्या रवेर्दिने
- बद्धा भुजे विलेपाद्वा काये शस्त्रौघवारिका १७४
- सर्पव्याघ्रादिसत्त्वानां भूतादीनां न जायते
- भितिस्तस्य स्थिता यस्य मातरोऽष्टौ शरीरके १७५
- गृहीतं हस्तनक्षत्रे चूर्णं छुच्छुन्दरीभवम्
- तत्प्रभावाद्गजः पुंसः संमुखो नैति निश्चितम् १७६
- छुच्छुन्दरी श्रीफलपुष्पचूर्णैरालिप्तगात्रस्य नरस्य दूरात्
- आघ्राय गन्धं द्विरदोऽतिमत्तो मदं त्यजेत्केसरिणो यथोग्रम् १७७
- श्वेताद्रिकर्णिकामूलं पाणिस्थं वारयेद्गजम्
- श्वेतकण्टारिकामूलं व्याघ्रादीनां भयं हरेत् १७८
- पुष्यार्कोत्पाटिते मूले पाठाया मुखसंस्थिते
- देहे स्फुटति नो तीक्ष्णं मण्डलाग्रं रणे नृणाम् १७९
- गन्धार्या उत्तरं मूलं मुखस्थं संमुखागतम्
- शस्त्रौघं वारयत्येव पुष्यार्के विधिना धृतम् १८०
- शुभ्रायाः शरपुङ्खाया जटानीलीजटाथवा
- भुजे शिरसि वक्त्रे वा स्थिता शस्त्रनिवारिका
- भूपाहिचौरभीतिघ्नी गृहीता पुष्यभास्करे १८१
- प्रथमं क्रियते स्नानं शुक्लवस्त्रावृतो भवेत्
- मङ्गल्यगीतसंयुक्तो देवविप्रांश्च पूजयेत् १८२
- क्षेत्रपालस्य नाम्ना च बलिं दद्याद्दिशो दश
- शस्त्राणि चापि संपूज्य रक्षामन्त्रं स्मरेत्ततः १८३
- ॐ शूलेन पाहि नो देवि पाहि खङ्गेन चाम्बिके
- घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च १८४
- प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे
- भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि १८५
- सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते
- यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् १८६
- खङ्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके
- करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः १८७
- दिव्यौषधीनां लेपं च रक्षाबन्धं च कारयेत्
- किंचिद्भुक्त्वा च पीत्वा च ततः संनाहमाचरेत् १८८
- सेनापतिं गजारोहानन्यांश्च सुभटांस्तथा
- मुख्यानन्यानपि धनैर्वस्त्रैश्च परितोषयेत् १८९
- पूर्वं सारथिमारोप्य रथे सज्जेत्ततः स्वयम्
- योजयेद्वाजिनः शुद्धान्सुसंतुष्टाञ्जितश्रमान् १९०
- रथे च धारयेद्भद्रं कार्मुकाणां चतुष्टयम्
- चतुःशतानि बाणानां तूणीरे च प्रयोजयेत् १९१
- खङ्गं चर्म गदां शक्तिं परिघं मुद्गरं तथा
- नाराचं परशुं कुन्तं पट्टिशादींश्च धारयेत् १९२
- न रथा न गजा यस्य सोऽश्वमेव समारुहेत्
- कटिबद्धैकतूणीरः खङ्गशक्तिधनुर्युतः १९३
- ततोर्जुनस्य नामानि विष्णुस्मरणपूर्वकम्
- जपेत्ततः प्रतिष्ठेत चतुरङ्गबलैर्युतः १९४
- लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः
- येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः १९५
- अर्जुनः फाल्गुनः पार्थः किरीटी श्वेतवाहनः
- बीभत्सुर्विजयी कृष्णः सव्यसाची धनंजयः १९६
- स्वं तथा स्वरवस्विन्दुनेत्रैरक्षौहिणी मता
- अक्षौहिण्यां संप्रदिष्टा रथानां वर्मधारिणाम्
- संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः १९७
- उपर्यष्टौ शतान्याहुस्तथा भूयश्च सप्ततिः
- गजानां तु परीमाणमेतदेव विनिर्दिशेत् १९८
- ज्ञेयं लक्षं पदातीनां सहस्राणि तथा नव
- शतानि त्रीणि पञ्चाशच्छूराणां शस्त्रधारिणाम् १९९
- पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च
- दशोत्तराणि षट् प्राहुः संख्यातत्त्वविदो जनाः २००
- स्वद्वयं निधिवेदाक्षिचन्द्राक्ष्यग्निहिमांशुभिः
- महाक्षौहिणिका प्रोक्ता संख्या गणितकोविदैः २०१
- कोटयस्त्रयोदश प्रोक्ता लक्षाणामेकविंशतिः
- चतुर्विंशत्सहस्राणि तथा नवशतानि च २०२
- महाक्षौहिणिकां प्राहुरिमां तत्त्वविदो जनाः
- महाक्षौहिणिकायां तु रथाः कोटिमिताः स्मृताः
- सप्तत्रिंशच्च लक्षाणि गीयन्ते तत्त्वव्हेदिभिः २०३
- द्वादशैव सहस्राणि चत्वार्येव शतानि च
- प्रोक्तानि नवतिस्तद्वदेवमेव मतंगजाः २०४
- अश्वाश्चतुष्कोटिमिता लक्षाण्येकादशैव च
- सप्तत्रिंशत्सहस्राणि तथा शतचतुष्टयम् २०५
- सप्ततिश्चैव संख्याताः प्रोच्यन्ते पत्तयस्ततः
- षट्कोटयोऽशीतिलक्षाणि पञ्चाधिकमितानि च २०६
- द्विषष्टि च सहस्राणि तथा शतचतुष्टयम्
- पञ्चाशदिति संख्याता महाक्षौहिणिका बुधैः २०७
- मुखे रथा गजाः पृष्ठे तत्पृष्ठे च पदातयः
- पार्श्वयोश्च हयाः कार्या व्यूहस्यायं विधिः स्मृतः २०८
- अर्धचन्द्रं च चक्रं च शकटं मकरं तथा
- कमलं श्रेणिकां गुल्मं व्यूहानेवं प्रकल्पयेत् २०९
- ये राजपुत्राः सामन्ता आप्ताः सेवकजातयः
- तान्सर्वानात्मनः पार्श्वे रक्षायै स्थापयेन्नृपः २१०
- यस्मिन्कुले यः पुरुषः प्रधानः स सर्वयत्नेन हि रक्षणीयः
- तस्मिन्विनष्टे किल सारभूते न नाभिभङ्गे ह्यरका वहन्ति २११
- क्षत्रसारभृतं शूरं शस्त्रज्ञमनुराजि चेत्
- अपि स्वल्पं श्रिये सैन्यं वृथेयं मुण्डमण्डली २१२
- अपि पञ्चशतं शूरा मृद्नन्ति महतीं चमूम्
- अथवा पञ्च षट् सप्त विजयन्तेऽनिवर्तिनः २१३
- धनुःसंगतिसंशुद्धा वाजिनो मुखदुर्बलाः
- आकर्णपलिता योधाः संग्रामे जयवादिनः २१४
- परस्परानुरक्ता ये योधाः शार्ङ्गधनुर्धराः
- युद्धज्ञास्तुरगारूढास्ते जयन्ति रणे रिपून् २१५
- एकः कापुरुषो दीर्णो दारयेन्महतीं चमूम्
- तं दीर्णमनु दीर्यन्ते योधाः शूरतमा अपि २१६
- दुर्निवारतरा चैव प्रभग्ना महती चमूः
- अपामिव महावेगत्रस्ता मृगगणा इव २१७
- यस्तु भग्नेषु सनियेषु विद्रुतेषु निवर्तते
- पदे पदेऽश्वमेधस्य लभते फलमक्षयम् २१८
- द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ
- परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः २१९
- यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः
- अक्षयं लभते लोकं यदि क्लीबं न भाषते २२०
- मूर्छितं नैव विकलं नाशस्त्रं नान्ययोधिनम्
- पलायमानं शरणं गतं चैव न हिंसयेत् २२१
- भीरुः पलायमानोऽपि नान्वेष्टव्यो बलीयसा
- कदाचिच्छूरतां याति मरणे कृतनिश्चयः २२२
- संभृत्य महतीं सेनां चतुरङ्गां महीपतिः
- व्यूहयित्वाग्रतः शूरान्स्थापयेज्जयलिप्सया २२३
- अल्पायां वा महत्यां वा सेनायामिति निश्चयः
- हर्षो योधगणस्यैको जयलक्षणमुच्यते २२४
- अन्वेतं वायवो यान्ति पृष्ठे भानुर्वयांसि च
- अनुप्लवन्ते मेघाश्च यस्य तस्य रणे जयः २२५
- अपूर्णे नैव मर्तव्यं संपूर्णे नैव जीवति
- तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी २२६
- जिते लक्ष्मीर्मृते स्वर्गः कीर्तिश्च धरणीतले
- तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी २२७
- एतम् शिवधनुर्वेदस्य भगवतो व्यासस्य च
स्रोतः
[सम्पाद्यताम्]- शिवधनुर्वेदः
- DHANURVEDA from the BRHAT SARNGADHARA PADDHATI (English translation)