बौधायनगृह्यसूत्रम्/प्रश्नः ३

विकिस्रोतः तः

अथ तृतीयप्रश्ने प्रथमो ऽध्यायः
हुतानुकृतिरुपाकर्म ।१।
श्रावण्यां पौर्णमास्यां क्रियेतापि वा आषाढ्याम्।२।
समन्वारब्धेष्वन्तेवासिषु ।३।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा चतस्रः प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्यस्स्वाहा सांहितीभ्यो देवताभ्यस्स्वाहा ।वरुणीभ्यो देवताभ्यस्स्वाहा ।सर्वाभ्यो देवताभ्यस्स्वाहा इति ।४।
अथ काण्डऋषीन्जुहोति प्रनापतये काण्डऋषये स्वाहा ।सोमाय काण्डऋषये स्वाहा ।अग्नये काण्डऋषये स्वाहा ।विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यस्स्वाहा ।स्वयम्भुवे काण्डऋषये स्वाहा इति ।५।
अथ सदसस्पतिं जुहोति सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्।सनिं मेधामयासिषं स्वाहा इति ।६।
अथ सावित्रीं जुहोति तत्सवितुर्वरेण्यमित्येताम्।७।
अथ वेदाहुतीजुहोति ऋग्वेदाय स्वाहा ।यजुर्वेदाय स्वाहा ।सामवेदाय स्वाहा ।अथर्ववेदाय स्वाहा ।अथर्वाङ्गिरोभ्यस्स्वाहा ।इतिहासपुराणेभ्यस्स्वाहा ।सर्पदेवजनेभ्यस्स्वाहा ।सर्वभूतेभ्यस्स्वाहा इति ।८।
त्रीनादितो ऽनुवाकानधीयीरन्वा सर्वान्।९।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।१०।
अथ ब्राह्मणान्तर्पयत्यपूपैर्धानाभिस्सक्तुभिरोदनेनेति यद्यु वैतेभ्यो भवति ।११।
ऋषयश्छन्दांस्याचार्या वेदा यज्ञाश्च प्रीयन्तामिति वाचयित्वा ।१२।
त्र्यहमेकाहं वा नाधीयीरन्।१३।
मासं प्रदोषे नाधीयीरन्।१४।
नित्यं चैव भुक्त्वोर्ध्वम्।१५।
मध्यरात्रात्स्तनिते सप्रदोषमहरनध्यायः अस्तमिते ।चोदयाद्विद्युति च स्वप्नान्तम्।१६।
एवमेव काण्डोपाकरणक्राण्डसमापनाभ्याम्।१७।
स एकः काण्डऋषिः ।१८।
तस्य चैवैकस्य काण्डस्याद्यो ऽनुवाकः ।१९।
तस्य चैवैकस्य काण्डस्यैतदहरनध्यायः ।२०।
एवं काण्डविसर्गे ।एतावदेव नाना नात्रानुवाकः ।पौरोडाशिकं याजमानं होतारो हौत्रं पैतृमेध इति सब्राह्मणानि सानुब्राह्मणानि प्राजापत्यानि ।२१।
आध्वर्यवं ग्रहा दाक्षिणानि समिष्टयजूंष्यवभृथयजूंषि वाजपेयश्शुक्रियाणि सवा इति सब्राह्मणानि सानुब्राह्मणानि सौम्यानि ।२२।
अग्न्याधेयमग्निहोत्रमग्न्युपस्थानमग्निचयनं सावित्रं नाचिकेतं चातुर्होत्रीयं वैश्वसृजारुणा इति सब्राह्मणानि सानुब्राह्मणान्याग्नेयानि ।२३।
राजसूयः पशुबन्धः इष्टयो नक्षत्रेष्टयो दिवश्येनयो ऽपाघास्सात्रायणमुपहोमाः कौकिलीसूक्तान्यौपानुवाक्यं याज्या ऽश्वमेधः पुरुषमेधस्सौत्रामण्यच्छिद्राणि पशुहौत्रमुपनिषद इति सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानि ।२४।
स्वायम्भुवं काण्डं काठके पठितो विधिः स्वयम्भूश्चात्र दैवतं सर्वभूतपतिश्शुचिरिति ।२५।
अथ कारीरीव्रतं चतूरात्रमक्षारलवणं भूमौ भुञ्जीत पशुवत्।२६।
एववेम काराव्रतम्।२७।
सावित्रीभ्यः प्रभृत्यूर्ध्वमोषध्यनुवाकानधीयीरन्नात्र भूमौ भुञ्जीत न पशुवदिति ।२८।
इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने प्रथमो ऽध्यायः
BaudhGS.3.2
अथ तृतीयप्रश्ने द्वितीयो ऽध्यायः
आचार्यप्रसूतः कर्माणि करोतीति विज्ञायते ।१।
आचार्यो वै ब्रह्मेति ।२।
काण्डेकाण्डे च व्रतचर्या ।३।
अथेमानि ब्राह्मणानि सांवत्सरिकैर्व्रतैरध्येयानि भवन्ति होतारश्शुक्रियाण्युपनिषदो गोदानं सम्मितं इति ।४।
होतृषु प्रधानकालेष्वथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्यो होतृभ्यस्स्वाहा सांहितीभ्यो देवताभ्यो होतृभ्यस्स्वाहा वारुणीभ्यो देवताभ्यो होतृभ्यस्स्वाहा सर्वाभ्यो देवताभ्यो होतृभ्यस्स्वाहा इति ।५।
अथ काण्डऋषिं जुहोति प्रजापतये काण्डऋषये स्वाहा इति ।६।
अथ सदसस्पतिं जुहोति सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम्।सनिं मेधामयासिषं स्वाहा इति ।७।
अथ सावित्रीं जुहोति तत्सवितुर्वरेण्यमित्येताम्।८।
अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ।९।
अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशास्सप्ररोहाः प्रादेशमात्रा अपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति ।१०।
याज्ञीकानां वा वृक्षाणामन्यतमस्य ।११।
अग्ने व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा वायो व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा आदित्य व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा व्रतानां व्रतपते होतारं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा इति ।१२।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।१३।
संवत्सरमेतद्व्रतं चरेत्संवत्सरं हि व्रतं नातीत्यैतस्मिंस्त्वेवैतत्संवत्सरे ऽधीयीत ।१४।
यद्यु वैतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत्।१५।
अथ संवत्सरे पर्यवेते ऽध्यापयते श्रावयते वा ।१६।
अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात्कृत्वा ऽथाव्रत्यप्रायश्चित्तं जुहोति यन्मे आत्मनो मिन्दा ऽभूत्पुनरग्निश्चक्षुरदातिति द्वाभ्याम्।१७।
यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्यो होतृभ्यस्स्वाहा इति चतसृभिः ।१८।
अथ काण्डऋषिं जुहोति प्रजापतये काण्डऋषये स्वाहा इति ।१९।
अथ सदसस्पतिं जुहोति सदसस्पतिमिति ।२०।
अथ सावित्रीं जुहोति तत्सवितुः इत्येताम्।२१।
अथ वेदाहुतीर्जुहो ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभून्तेभ्यस्स्वाहा इति ।२२।
अथ पालाशीश्चतस्रस्समिध आर्द्रांस्सपलाशास्सप्ररोहाः प्रदेशमात्रा अपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति ।२३।
याज्ञिकानां वा वृक्षाणामन्यतमस्य ।२४।
अग्रे व्रतपते होतारं व्रतमचारिषं तदशकं तन्मेराधि स्वाहा वायो व्रतपतेहोतारं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा आदित्य व्रतपते होतारं व्रतमचरिषं तदशकं तन्मे राधि स्वाहा व्रतानां व्रतपते होतारं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा इति जयप्रभृति सिद्धमा धेनुवरप्रदानात्।२६।
अथ शुक्रियाणि ।२७।
तेषामुक्ता व्रतचर्या ।२८।
अथोपनिषत्सु ।२९।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा इति चतस्रः ।३०।
अथ काण्डऋषिं जुहोति विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यस्स्वाहा इति ।३१।
अथ सदसस्पतिं जुहोति सदसस्पतिमिति ।३२।
अथ सावित्रीं जुहोति तत्सवितुर्वरेण्यमित्येताम्।३३।
अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ।३४।
अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशास्सप्ररोहाः प्रादेशमात्रा अपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति ।३५।
याज्ञिकानां वा वृक्षाणामन्यतमस्य ।३६।
अग्ने व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा वायो व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा आदित्य व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा व्रतानां व्रतपत उपनिषदं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा इति ।३७।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।३८।
संवत्सरमेतद्व्रतं चरेत्संवत्सरं हि व्रतं नातीत्यैतस्मिंस्त्वेवैतत्संवत्सरे ऽधीयीत ।३९।
यद्यु वैतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत्।४०।
अथ संवत्सरे पर्यवेते ऽध्यापयते श्रावयते वा ।४१।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा ऽथाव्रत्यप्रायश्चित्तं जुहोति यन्म आत्मनः पुनरग्निश्चक्षुरदातिति द्वाभ्याम्।४२।
अथ यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा इति चतस्रः ।४३।
अथ काण्डऋषिं जुहोति विश्वेभ्यो देवेभ्यः काण्डऋषि भ्यस्स्वाहा इति ।४४।
अथ सदसस्पतिं जुहोति सदसस्पतिमिति ।४५।
अथ सावित्रीं जुहोति तत्सवितुर्वरेण्यमित्येताम्।४६।
अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ।४७।
अथ पालाशीश्चतस्रस्समिध आर्द्रास्सपलाशास्सप्ररोहाः प्रादेशमात्रा अपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति ।४८।
याज्ञिकानां वा वृक्षाणामन्यतमस्य ।४९।
अग्ने व्रतपत उपनिषदं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा वायो व्रतपत उपनिषदं व्रतमचारिषं तदशकं तन्मे राधि स्वाहा आदित्य व्रतपत उपनिषदं व्रतमाचारिषं तदशकं तन्मे राधि स्वाहा व्रतानां व्रतपत उपनिषदं व्रतमाचारिषं तदशकं तन्मे राधि स्वाहआ इति ।५०।
जवप्रभृति सिद्धमा धेनुवरप्रदानात्।५१।
षोडशे वर्षे गोदानम्।५२।
तस्य चौलवत्तूष्णीं प्रतिपत्तिरवसानं च ।५३।
एतावदेव नाना ।५४।
प्रतिपत्तौ सर्वान्केशान्वापयति ।५५।
गामत्र गुरवे वरं ददाति ।५६।
अग्निगोदानो वा भवति ।५७।
तस्य काण्डोपाकरणकाण्डसमापनाभ्यां प्रतिपत्तिरवसानं च ।५८।
सर्ववेदसम्मितमित्याचक्षते ।५९।
तस्य द्वादश संवत्सरानेकादश नव सप्त पञ्च त्रीन्संवत्सरान्षण्मासान्चतुरो मासान्द्वौ मासौ मासं वा व्रतं चरेत्।६०।
तस्योपदेशात्प्रतिपत्तिरवसानं च ।६१।
तस्य नित्ये ऽधिब्रह्मचर्यं त्रिषवणमभिषेक उत्सन्नशय्या आसनं च ।६२।
यन्मातुर्दुश्चरितं तस्मादेनं त्रायत इत्युपदिशति मन्त्रब्राह्मणं वेद इत्याचक्षते ।६३।
इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने द्वितीयो ऽध्यायः
BaudhGS.3.3
अथ तृतीयप्रश्ने तृतीयो ऽध्यायः
अष्टाचत्वारिंशत्सम्मितं सम्मितमित्याचक्षते ।१।
तस्य संक्षेपस्संवत्सरः ।२।
तत्संवत्सरमनुव्याख्यास्यामः ।३।
स यदि ब्रह्मचारी स्यान्नियममेव प्रतिपद्यते ।४।
अथ यद्यब्रह्मचारी स्यात्केशश्मश्रुलोमनखानि वापयित्वा तीर्थं गत्वा स्नात्वा ऽप आचम्य सुरभिमत्या ऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिरिति मार्जयित्वा ऽन्तर्जलगतो ऽघमर्षणेन षोडश प्राणायामान्धारयित्वोत्तीर्य वासः पीडयित्वा ऽन्यत्प्रयतं वासः परिधायाप आचम्य देवयजनमुदानयति ।५।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा ऽथाव्रत्यप्रायश्चित्तं जुहोति नाहं करोमि कामः करोति कामः कर्ता कामः कारयितैतत्ते काम कामाय स्वाहा नाहं करोमि मन्युः करोति मन्युः कर्ता मन्युः कारयितैतत्ते मन्यो मन्यवे स्वाहा इति ।६।
अथ यथोपदेशं प्रधानाहुतीर्जुहोति याज्ञिकीभ्यो देवताभ्यस्सम्मितीभ्यस्स्वाहा इति चतस्रः ।७।
अथ काण्डऋषिं जहोति स्वयम्भुवे काण्डऋषये स्वाहा इति ।८।
अथ सदसस्पतिं जुहोति सदसस्पतिमिति ।९।
अथ सावित्रीं जुहोति तत्सवितुः इत्येताम्।१०।
अथ वेदाहुतीर्जुहोति ऋग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहा अथर्ववेदाय स्वाहा अथर्वाङ्गिरोभ्यस्स्वाहा इतिहासपुराणेभ्यस्स्वाहा सर्पदेवजनेभ्यस्स्वाहा सर्वभूतेभ्यस्स्वाहा इति ।११।
अथ चतस्र औदुम्बरीस्समिधो ऽपरिशुष्काग्रा घृतान्वक्ता अभ्याधापयन्वाचयति ।१२।
याज्ञिकानां वा वृक्षाणामन्यतमस्य ।१३।
अग्ने व्रतपते ऽष्टाचत्वारिंशत्सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा वायो व्रतपते ऽष्टाचत्वारिंशत्सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा आदित्य व्रतपते ऽष्टाचत्वारिंशत्सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा व्रतानां व्रतपते ऽष्टाचत्वारिंशत्सम्मितं सम्मितं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा इति ।१४।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।१५।
एवमेव व्रतान्ते ।अधोताभ्युपरिजान्वाच्छाद्य त्रिषवणमुदकमुपस्पृशननग्निपक्ववृत्तिरच्छायोपयोगो नागारं प्रविशेदन्यत्र गुरुनियोगात्।१६।
भैक्षं वा तत्कालं भुञ्जीत ।१७।
कामं कन्दमूलफलम्।१८।
अपराह्णे प्रसिद्धमुपस्पृश्य तदपि नोपयुञ्जीत ।१९।
स्त्रीशूद्रपतितरभसरजस्वलाभिश्च न सम्भाषेत ।२०।
कामं मातरमुगध्यायिनीं भगिनीं च ।२१।
याश्चान्या एवंयुक्ताः स्त्रियो ऽशक्ताः पराक्रमे ।२२।
सप्रणवा व्याहृतयः प्राणायामाग्नीन्धनभैक्षाचरणस्थानासनशयनोपस्पर्शनसुमनसोनिवेदनानि च ।२३।
सर्वास्सम्मितदेवतास्तर्पयति ब्रह्माणं तर्पयामि प्रजापतिं तर्पयामि परमेष्ठिनं तर्पयामि स्थाणुं तर्पयामि शिवं तर्पयामि शर्वं तर्पयामि बहुरूपं तर्पयामि स्कन्दं तर्पयामि इन्द्रं तर्पयामि यमं तर्पयामि ऋषींस्तर्पयामि पितॄंस्तर्पयामि सर्वास्सम्मितदेवतास्तर्पयामि इति प्रसख्याय समाप्नुयात्।२४।
गुरोस्समानवृत्तिषु गुरुवृत्तिस्स्यात्।२५।
प्रेबितस्तदेव प्रतिपद्येतान्यत्र पातकात्।२६।
एवं द्वादश संवत्सरानेकादश नव सप्त पञ्च त्रीन्संवत्सरान्षण्मासान्चतुरो मासान्द्वौ मासौ मासं वा व्रतं चरेत्।२७।
अपि वा यो ऽनूचानश्रोत्रियस्स द्वादशरात्रं पराकं वा व्रतं चरेन्न त्वेवासम्मिती स्यात्।२८।
स एष चरति दशपूर्वान्दशापरानात्मानं चैकविंशतिं पङ्क्तिं च पुनाति ।२९।
यस्मा उपदिशति यस्यामुपविशति यस्मै ददाति यस्माच्च प्रतिगृह्णाति तत्सर्वं पुनाति ।३०।
व्रतसमाप्तौ वेदसमाप्तौ वा गुरुदक्षिणामाहरेद्धार्मिको यथाशक्ति ।३१।
विषमगते त्वाचार्य उग्रतश्शूद्रतो वाहरेत्।३२।
सर्वतो वोग्रतश्शूद्रतो ऽप्याचार्यार्थं स्यादाहरणं धार्म्यमित्येके ।३३।
एतेन धात्रन्तरशैवबहुरूपपार्षदस्कन्देन्द्राणां व्रतानां समापनं ब्रह्माभ्यसेदृक्साम यजुर्वा छन्दसामनुसवनं लभेत काममिति ह स्माह बोधायनः ।३४।
इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने तृतीयो ऽध्यायः
BaudhGS.3.4
अथ तृतीयप्रश्ने चतुर्थो ऽध्यायः
अथातो ऽवान्तरदीक्षां व्याख्यास्यामः ।१।
उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे केशश्मश्रु वापयित्वा पूर्ववदुपाकृत्य ग्रामात्प्राचीं वोदीचीं वा दिशामुपनिष्क्रम्याखले ऽछदिर्दर्शे ऽग्निमुपसमाधाय सम्परिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्यः आसनानि कल्पयति ।२।
अग्रेणाग्निं प्रवर्ग्याय कल्पयामि ।घर्माय कल्पयामि ।महावीराय कल्पयामि ।संराज्ञे कल्पयामीति ।३।
दक्षिणेनाग्निं ब्रह्मणे कल्पयामि प्रजापतये कल्पयामीति ।४।
उत्तरेणाग्निं ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यः कल्पयामि ।देवेभ्यो घर्मपेभ्यः कल्पयामीति ।५।
अथ दक्षिणतः प्राचीनावीती पितृभ्यो ऽघर्मपेभ्यः कल्पयामि ।यमायाङ्गिरस्वते पितृमते कल्पयामीति ।६।
अथाप उपस्पृश्योत्तरतो यज्ञोपवीती रुद्राय रुद्रहोत्रे कल्पयामीति ।७।
प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधो ऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यस्तर्पयति ।८।
अग्रेणाग्निं प्रवर्ग्य तर्पयामि ।महावीरं तर्पयामि ।संराजं तर्पयामीति ।९।
दक्षिणेनाग्निं ब्रह्माणं तर्पयामि ।प्रजापतिं तर्पयामीति ।१०।
उत्तरेणाग्निमृषीन्मन्त्रकृतो मन्त्रपतीन्तर्पयामि ।देवान्घर्मपांस्तर्पयामीति ।११।
अथ दक्षिणतः प्राचीनावीती पितॄन्घर्मपात्तर्पयामि ।यममङ्गिरस्वन्तं पितृमन्तं तर्पयामीति ।१२।
अथाप उपश्पृश्योत्तरतो यज्ञोपवीती रुद्रं रुद्रहोतारं तर्पयामीति ।१३।
अथाप उपस्पृश्य सर्वाः प्रवर्ग्यदेवतास्तर्पयामीति ।१४।
अथ चतस्र औदुम्बरीस्समिधो ऽपरिशुष्काग्रा घृताभ्यक्ता अभ्याधापयन्वाचयति पृथिवी समितित्येतैः प्रतिमन्त्रम्।१५।
अथ देवता उपतिष्ठते अग्ने व्रतपते शुक्रियं व्रतं रिमिष्यामि तच्छकेयं तन्मे राध्यताम्।वायो व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्।आदित्य व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम्।व्रतानां व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामिति ।१६।
अथैतेषामनुवाकानां प्रभृति वाचयति प्रथमोत्तमयोर्वा ।१७।
अथैनं संशास्ति समील्य वाचं यच्छे इति ।१८।
अथास्याहतेन वाससा त्रिः प्रदक्षिणं समुखं शिरो वेष्टयति चितस्स्थ परिचितः ।स्वाहा मरुद्भिः परिश्रियस्व इति ।१९।
प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधो ऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यस्तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वा ऽथा स्तमित आदित्ये ग्राममायान्ति ।२०।
वाग्यतस्तिष्ठेदेतां रात्रिमुपविशेत्संवेशयेद्वा ।२१।
अथ प्रातरुदित आदित्ये ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्याखले ऽछदिर्दर्शे ऽग्निमुपसमाधाय सम्परिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्य आसनानि कल्पयित्वा वयस्सुपर्णाः इति वासो विमुच्याथास्य षट्तयमभिनिर्दशयति अग्निमप आदित्यं गां ब्राह्मणं हिरण्यमिति ।२२।
त्रीनादितो दर्शयित्वा यथोपपादमितराणि दर्शयित्वा प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधो ऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यस्तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वा ऽथास्य व्रतचर्यामुपदिशेत्।२३।
न यानमारोहेन्न वृक्षमधिरोहेन्न कूपमवरोहेन्न छत्रं धारयीत नोपानहौ धारयीत नासन्द्यां शयीत न स्त्रिया न शूदेण सह सम्भाषेत यदि सम्भाषेत ब्राह्मणेन सह सम्भाषेत न सायं भुञ्जीत यदि सायं भुञ्जीतापज्वलितं भुञ्जीत न स्नायादष्टम्यां पर्वणि चोपवसेत्तदहश्च स्नायाद्वाग्यतस्तिष्ठेदेतां रात्रिमुपविशेत्संवेशयेद्वा ।२४।
अमेध्यलोहितशवपात्रदर्शने ज्योतिषां संदर्शनम्।२५।
अमेध्यं दृष्ट्वा जपति अबद्धं मनो दरिद्रं चक्षुस्सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीः इति ।२६।
अथ यद्येनमभिवर्षति उन्दतीर्बलं धत्तौ जोधत्त बलं धत्त मा मे दीक्षां मा तपी निर्वधिष्ट इत्येव तत्र जपति ।२७।
संवत्सरमेतद्व्रतं चरेत्संवत्सरं हि व्रतं नातीत्यैतस्मिंस्त्वेवैतत्संवत्सरे ऽधीयीत ।२८।
यद्यु वैतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत्संवत्सरे पर्यवेते ऽध्यापयते श्रावयते वा ।२९।
पूर्वेवदुपाकृत्य ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्याखले ऽछदिर्दर्शे ऽग्निमुपसमाधाय संपरिस्तीर्य मदन्तीरधिश्रित्य प्रथमेनानुवाकेन शान्तिं कृत्वा दर्भैः प्रवर्ग्यदेवताभ्य आसनानि कल्पयित्वा ऽथाव्रत्यप्रायश्चित्ते जुहओति यन्म आत्मनो मिन्दा ऽभूत्पुनरग्निश्चक्षुरदातिति द्वाभ्याम्।३०।
प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधो ऽभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यः तर्पयित्वा चतस्र औदुम्बरीस्समिधो ऽपरिशुष्काग्रा घृताभ्यक्ता अभ्याधापयन्वाचयति द्यौस्समितित्येतैः प्रतिमन्त्रमथ देवता उपतिष्ठते आदित्य व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि ।वायो व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि ।अग्ने व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि ।व्रतानां व्रतपते शुक्रियं व्रतमचारिषं तदशकं तन्मे राधि इति ।३२।
प्रदक्षिणमग्निं परिषिच्य व्याहृतिभिर्वैकङ्कतीस्समिधो ऽथाभ्याधाय मदन्तीभिः प्रवर्ग्यदेवताभ्यः तर्पयित्वोत्तमेनानुवाकेन शान्तिं कृत्वा ऽथास्याध्याये ऽनध्यायानुपदिशेत्।नाधीयीतास्तमित आदित्ये नानुदिते नानुविप्रोषिते न पर्यावृत्ते नाभ्रच्छायायां न ग्राम्यस्य पशोरन्ते नारण्यस्य नापामन्ते न हरितयवान्प्रेक्षमाणो न हर्म्याणी न शरीराणि न लोहितमुत्पादितं दृष्ट्वा न मांसमशित्वा न श्राद्धं भुक्त्वा न केशश्मश्रु वापयित्वा न केशान्प्रसार्य न दतो धावते नाङ्क्ते नाभ्यङ्क्ते नार्दो नार्द्रेण वाससा नार्द्रायामिति ।३४।
अथ स्वाध्यायमधीयीतापरेणाग्निं दर्भेष्वासीनो दर्भान्धारयमाणः पराचीनं स्वाध्यायमधीयीत पुनरेव शांतिं कृत्वा ऽधीयीत ।३५।
अथ यदि लौकिकमनुव्याहरेद्यत्रक्वचिद्यद्यशान्तिकृ पश्येत्पुनरेव शांतिं कृत्वा ऽधीयीत चोत्तमेन प्रवर्ग्यायोपनिष्क्रम्य नाप्रविश्य काममन्यदधीयीतान्यदधीयीत ।३६।
इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने चतुर्थो ऽध्यायः
BaudhGS.3.5
अथ तृतीयप्रश्ने पञ्चमो ऽध्यायः
प्रहुतानुकृतिर्वास्तुशमनम्।१।
स यत्र दशोषित्वा प्रयास्यन्भवति दशभ्यो वोर्ध्वं सदारस्साग्निहोत्रिकस्तद्वास्तोष्पतीयं हुत्वा प्रयातीति ।२।
सर्व एवा हिताग्निरित्येके ।३।
यायावर इत्येके ।४।
यच्चागारं कारयित्वा प्रथममध्यवस्येत्तद्वास्तोष्पतीयेन शमयित्वा ऽध्यवस्येत्।५।
तदु हैके यजुषा स्थूणा उच्छ्रायन्ति यजुषा वंशान्यजुषा छदींषि यजषाब्भ्रिणं यजुषा तल्पदेशं यजुषा वास्तुमध्यं यजषा ऽजुषाग्निनिधानम्।६।
स यंद्युहैवं कुर्याद्यथा यजुषोच्छ्रियन्ते सदस्यर्क्सामयजूंष्यथर्वणान्याङ्गिरसानि मिथुनीसंभवन्तीति तद्यदध्यवस्येद्यथा मिथुनीसम्भवन्तावध्यवस्येत्तादृक्तद्यद्यजुष्कृतं स्यात्।७।
आधयो व्याधयो ग्रहा उपसर्गाश्चाहन्युः ।८।
तस्मात्तूष्णीमगारं कारयित्वा द्वारदेशमलङ्कृत्य वास्तुमध्यं विमायाब्भ्रिणं पूरयित्वा तल्पदेशं कल्पयित्वोत्तरपूर्वदेशे ऽगारस्य गृह्याग्निमुपसमाधाय सम्परिस्तीर्याग्निमुखात्कृत्वा पक्वाज्जहोति वास्तोष्पते प्रतिजानीह्यस्मानिति पुरोनुवाक्यामनूच्य वास्तोष्पते शग्मया संसदा ते इति याज्यया जुहोति ।९।
अथाज्याहुतीरुपजुहोति ।१०।
वास्तोष्पते ध्रुवा स्थूणां सत्रं सोम्यानाम्।द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा स्वाहा ।११।
गृह्यं भयं यच्चेद्द्विपात्सु यदु चेच्चतुष्पात्सु भयं यदस्ति ।अग्निर्यविष्ठ्यः प्रणुदतु तद्भयं शं नः प्रजाभ्यः शमु नः पशुभ्यस्स्वाहा ।१२।
अक्षिस्पन्दे ऽङ्गचले च यद्भयं यद्वशिते यदु चेद्दुरुक्ते ।अग्निर्यविष्ठ्यः प्रणुदतु तद्भयं शं नः प्रजाभ्यः शमु नः पशुभ्यस्स्वाहा ।१३।
दुस्स्वप्ने पापस्वप्ने च यद्भयं स्वप्नाशनं यदमेध्यदर्शने ।अग्निर्यविष्ठ्यः प्रणुदतु तद्भयं शं नः प्रजाभ्यः शमु नः पशुभ्यस्स्वाहा ।१४।
वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो ।अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व स्वाहा ।१५।
अभीवहा वास्तोष्पते विश्वारूपाण्याविशन्।सखा सुशेव एधि नस्स्वाहा ।इति ।१६।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।१७।
अथाग्रेणाग्निं दर्भस्तम्बेषु हुतशेषं निदधाति नमो रुद्राय वास्तोष्पये ।आयने विद्रावणे ।उद्याने यत्परायणे ।आवर्तने निवर्तने ।यो गोपायति तं हुवे इति ।१८।
स्थालीसंक्षाऌअनमाज्यशेषमुदकशेषं च पात्र्यां समानीयौदुम्बरशाखया पलाशशाखया शमीशाखया दर्भमुष्टिना वा सर्वतः पर्युक्षन्त्रिः प्रदक्षिणमगारं पर्येति त्वं विप्रः त्वं कविः त्वं विश्वा रूपाणि धारयनप जन्यं भयं नुद इति ।१९।
अन्नं संस्कृत्य ब्राह्मणान्संपूज्याशिषो वाचयित्वा शिवं वास्तु शिवं वास्त्विति ।२०।
वास्तुशमनं व्याख्यातम्।२१।
इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने पञ्चमो ऽध्यायः
BaudhGS.3.6
अथ तृतीयप्रश्ने षष्ठो ऽध्यायः
अथ यद्यगारे स्थूणा विरोहेत्कपेतो वा ऽगारमध्ये ऽधिपतेत्वायसो वा गृहं प्रविशेत्गौर्वा गां धयेत्गौरात्मानं प्रति धयेतन वान्वा दिवमुल्लिखेतनग्नौ वा धूमो जायेत अनग्नौ वा दीप्येत मधु वा जायेत वल्मीकं वोपजायेत निर्यासं वोपजायेत छत्राकं वोपजायेत मण्डूको वा ऽब्भ्रिणे वाशयेत्श्वानप्रसूतो वा सर्पो वा गृहपतिं जायां वोपतपद्विन्देतान्येषु ।अद्भुतोत्पातेषु ।१।
अथ देवयजनोल्लेखनप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम्।२।
अथाज्याहुतीरुपजुहोति वास्तोष्पते वास्तोष्पते शं नो देवीः इन्द्राग्नी रोचना कया नश्चित्र आ भुवत्को अद्य युङ्क्ते भवतं नस्समनसो इति ।३।
स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात्।४।
अथाप्रेणाग्निं शमीपर्णेषु हुतशेषं निदधाति शं नो देवीरभिष्टये इति ।५।
स्थालीसंक्षालनमाज्यशेषमुदकशेषं च पात्र्यां समानीय तेषूत्पातेषु निनयेत्प्रोक्षेद्वा तच्छंयोरावृणीमहे इति ।६।
अन्नं संस्कृत्य ब्राह्माणान्सम्पूज्याशिषो वाचयित्वा शिवं शिवमिति प्रोक्षति ।७।
अद्भुतो व्याख्यातः ।८।
इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने षष्ठो ऽध्यायः
BaudhGS.3.7
अथ तृतीयप्रश्ने सप्तमो ऽध्यायः
आहुतानुकृतिरायुष्यचरुः ।१।
संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासिमासि वा कुमारस्य जन्मनक्षत्रे क्रियेत ।२।
अथ देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा व्रीही न्निर्वपति अग्नय आयुष्मते वो जुष्टं निर्वपामि इति ।तूष्णीं वा ।३।
धान्यान्निर्वपति प्राणाय वो जुष्टं निर्वपामि इति ।तूष्णीं वा ।४।
तानभ्युक्ष्यावहत्य त्रिःफलीकृत्य त्रिःप्रक्षाऌय निदधाति ।५।
तण्डुलान्वा निर्वपति ।६।
तानभ्युक्ष्य त्रिः प्रक्षाऌयैव निदधातीति ।७।
अथ तिरःपवित्रं स्थाल्यामपः पयो वानीयाधिश्रित्य तिरःपवित्रं तण्डुलानावपति ।८।
अथाज्यं निर्वपत्यथाज्यमधिश्रयत्युभयं पर्यग्नि कृत्वा मेक्षणं स्त्रूवं च संमार्ष्टि ।९।
अथैतं चरुं श्रपयित्वा ऽभिघार्योदञ्चमुद्वास्य प्रतिष्ठितमभिघारयति ।एवमेव सर्वेषां स्थालीपाकानां चरुकल्पः ।११।
परिधानप्रभृत्या ऽग्निमुखात्कृत्वा पक्वाज्जुहोति आयुष्टे विश्वतो दधतिति पुरो ऽनुवाक्यामनूच्य आयुर्दा अग्ने हविषो जुषाणः इति याज्यया जुहोति ।१२।
अथाज्याहुतीरुपजुहोत्यथान्तरेणाग्निं चाज्यस्थालीं च स्थालीपाकं निधाय तत्सहस्रं सम्पाताभिहुतं करोति ।१३।
यो ब्रह्म ब्रह्मण उज्जभार प्राणेश्वरः कृत्तिवासाः पिनाकी ।ईशानो देवस्स न आयुर्दधातु तस्मै जुहोमि हविषा घृतेन स्वाहा ।४।
बिभ्राजमानस्सरिरस्य मध्याद्रोचमानो घर्मरुचिर्य आगात्स मृत्युपाशादपनुद्य घोरादिहायुषेणो घृतमत्तु देवस्स्वाहा ।१५।
ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं यमादधात्पुरुरूपं जयन्तम्सुवर्णरं भग्नहमर्कमर्चं तमायुषे वर्धयामो घृतेन स्वाहा ।१६।
श्रियं लक्ष्मीमौपलामम्विकां गां षष्ठीं जयामिन्द्रसेनेत्युदाहुः तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे तर्पयामो घृतेन स्वाहा ।१७।
दाक्षायण्यस्सर्वयोन्यस्सयोन्यस्सहस्रशो विश्वरूपा विरूपाः ससूनवस्सपतयस्सयूथ्या इहायुषेणो घृतमिदं जुषन्तां स्वाहा ।१८।
दिव्या गणा बहुरूपाः पुराणा आयुश्छिदो नः प्रमथन्तु वीरान्तेभ्यो जुहोमि बहुधा घृतेन मा नः प्रजां रिरिषो मोतवीरान्स्वाहा ।१९।
एकः पुरस्ताद्य इदं बभूव यतो बभूवुर्भुवनस्य गोपाः ।यमप्येति भुवनं साम्पराये स नो हविर्घृतमिहायुर्षे ऽत्तु देवस्स्वाहा ।२०।
वसून्रुद्रानादित्यान्मरुतो ऽथ साध्यानृभून्यक्षान्गन्धर्वांश्च पितॄंश्च विश्वान्।भृगून्सर्पांश्चाङ्गिरसो ऽथ सर्वान्घृतं हुत्वा स्वायुष्यामहयाम शश्वत्स्वाहा ।२१।
षड्विंशतिशतकृत्वस्तदाहुतीनां अष्टसहस्रं संपद्यते ।२२।
इतरस्मात्पक्वात्सौविष्टकृतं जुहोति ।२३।
जयप्रभृति सिद्धमाधेनुवरप्रदानात्।२४।
अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति मा नो महान्तं मा नस्तोके इति द्वाभ्याम्।२५।
अपरेणाग्निं प्राङ्मुख उपविश्य वाग्यतः स्थालीपाकं सगणः प्राश्नाति ।तस्य प्राशनमन्त्रः आयुरसि विश्वायुरसि ।सर्वायुरसि सर्वमायुरसि ।सर्व म आयुर्भूयात्।सर्वमायुर्गेषमिति प्राश्याप आचम्य जठरमभिमृशति यत इन्द्र भयामहे स्वस्तिदा विशस्पतिः इति द्वाभ्याम्।२६।
कुमाराणां ग्रहगृहीतानां ज्वरगृहीतानां भूतोपसृष्टानां आयुष्येण घृतसूक्तेनाहरहस्स्वस्त्ययनार्थं स्वाध्यायमधीयीतैतैरेव मन्त्रैराहुतीर्जुहुयादेतैरेव मन्त्रैर्बलीन्हरेदगदो हैव भवति ।२७।
तदेतदृद्धमयनं भूतोपसृष्टानां राष्ट्रभृतः पञ्चचोडास्सर्पाहुतिर्गन्धर्वाहुतिरहरहस्स्वस्त्ययनार्थं स्वाध्यायमधीयीतैतैरेव मन्त्रैराहुतीर्जुहुयातेतैरेव मन्तैर्बलीन्हरेदगदो हैव भवति ।तदेतदृद्धमयनं हुतप्रहुतानुकृतयो ऽन्ये होमाः बलिहरणानुकृतीन्यभ्यर्चनान्याश्रमानुकृतयस्संश्रया इति ।२९।
इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने सप्तमो ऽध्यायः
BaudhGS.3.8
अथ तृतीयप्रश्ने अष्टमो ऽध्यायः
अथातो ऽर्धमासे ऽर्धमासेष्टम्यां ब्राह्मणा ब्रह्मचारिणस्त्रियश्चाहरुपवसन्ति ।१।
अथ प्रदोषे रुद्रं विरूपाक्षं सपत्नीकं ससुतं सगणं सपार्षत्कमावाहयामि इत्यावाह्य गन्धपुष्पधूपदीपैरभ्यर्च्य प्रतिपुरुषं पैष्टिकान्दीपानेकातिरिक्तांश्चतस्रो ऽष्टौ वा देवस्यायतने प्रतिदिशं प्रद्योतयति उद्दीप्यस्व जातवेदः मा नो हिंसीतिति द्वाभ्याम्हव्यवाहमभिमातिषाहं स्विष्टमग्ने अभि इति द्वाभ्यां च ।२।
अथोपसमिद्धमग्निं कृत्वा यदशनीयस्य जुहोति इमा रुद्राय स्थिरधन्वने गिरः इति षड्भिरनुच्छन्दसं मा नो महान्तं मा नस्तोके इति द्वाभ्यां वास्तोष्पते वास्तोष्पते इति द्वाभ्यां आर्द्रया रुद्रः हेती रुद्रस्य इति द्वाभ्यां द्वादश संपद्यन्ते द्वादश मासास्संवत्सरः संवत्सर एव प्रतितिष्ठति इति ब्राह्मणम्।३।
समिधो वा ऽभ्यादधातीति विज्ञायते वैष्णवा वै वनस्पतयः विष्णोस्सायुज्यं सलोकतामाप्नोति ।४।
स्तुतिभिस्स्तुन्वन्ति ब्रह्म वै ब्रह्मा व्रह्मणस्सायुज्यं सलोकतामाप्नोति ।५।
सर्वं पाप्मानं तरति तरति ब्रह्महत्यामपपुनर्मुत्युं जयतीत्याह भगवान्बोधायनः ।६।
इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने अष्टमो ऽध्यायः
BaudhGS.3.9
अथ तृतीयप्रश्ने नवमो ऽध्यायः
बलिहरणानुकृतिरुत्सर्गः ।१।
तैष्यां पौर्णामस्यां क्रियेतापि वा माघ्याम्।२।
सहान्तेवासिभिर्ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य यत्रापस्सुतीर्थास्सूपावगाहास्स्रवन्त्यस्स्ववकिन्यश्शङ्खिन्यस्तासामन्तं गत्वा स्नात्वा ऽप आचम्य सुरभिमत्या ऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिरिति मार्जयित्वा ऽन्तर्जलगतो ऽघमर्षणेन त्रीन्प्राणायामान्धारयित्वोत्तीर्य वासः पीडयित्वा ऽन्यत्प्रयतं वासः परिधायाप आचम्यापां समीपे स्थण्डिलानि कृत्वा दर्भानन्योन्यस्मै संप्रदाय दर्मैरासनानि कल्पयन्ति ब्रह्मणे कल्पयामि प्रजापतये बृहस्पतये अग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यः संवत्सराय इन्द्राय राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यः रुद्रेभ्यः आदित्येभ्यः विश्भ्यो देवेभ्यः साध्येभ्यो देवेभ्यः मरुद्भ्यः ऋभुभ्यः भृगुभ्यः अथर्वभ्यो ऽङ्गिरोभ्यः विश्वामित्राय जमदग्नये जामदग्न्याय भरद्वाजाय गौतमाय आत्रेयाय वसिष्ठाय काश्यपाय अरुन्धत्यै कल्पयामीति ।३।
अथ दक्षिणतः अगस्त्याय कल्पयामीति ।४।
अथोत्तरतः निवीतिनः कृष्णद्वैपायनाय जातुकर्ण्याय तरुक्षाय तृणबिन्दवे सोमशुष्मिणे सोमशुष्मायणाय वाजिने वाजश्रवसे बृहदुक्थाय वर्मिणे वज्रिणे वरूथाय सनत्कुमाराय वामदेवाय वाजिरत्नाय वीरजिताय हर्यश्वाय उदमेघाय ऋणंजयाय तृणंजयाय कृतंजयाय धनञ्जयाय सत्यञ्जयाय बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवे अश्वज्ञाय पराशराय मृत्यवे कर्त्रे विकर्त्रे सुकर्त्रे त्वष्ट्रे धात्रे विधात्रे सुश्रवसे सुतश्रवसे सत्यश्रवसे सवित्रे सावित्र्यै छन्दोभ्यः ऋग्वेदाय यजुर्वेदाय सामवेदाय अथर्ववेदाय अथर्वाङ्गिरोभ्यः इतिहासपुराणेभ्यः सर्पदेवजनेभ्यः सर्वभूतेभ्यः ।५।
अथ दक्षिणतः प्राचीनावीतिनो वैशम्पायनाय फलिङ्गवे तित्तिरये उखायोख्याय आत्रेयाय पदकाराय कौण्डिन्याय वृत्तिकाराय कण्वाय बोधायनाय प्रवचनकारायापस्तम्बाय सूत्रकाराय सत्याषाढाय हिरण्यकेशाय वाजसनेयाय याज्ञवल्क्याय भरद्वाजायाग्निवेश्यायाचार्येभ्य ऊर्ध्वरेतोभ्यो वानप्रस्थेभ्यः वंशस्थेभ्यः एकपत्नीभ्यः कल्पयामीति ।६।
अथ यथास्वयं पितृभ्यः कल्पयन्ति मातामहेभ्यश्च ।७।
पृथक्पृथगेतैरेव नामधेयैर्गन्धपुष्पधूपदीपैरमुष्मै नमो ऽमुष्मै नम इति ।८।
अन्नेनामुष्मै स्वाहा ऽमुष्मै स्वाहेति ।फलोदकेनामुं तर्पयाम्यमुं तर्पयामीति ।९।
त्रीनादितो ऽनुवाकानधीयीरन्काण्डादीन्वा सर्वान्।१०।
काण्डात्काण्डात्प्ररोहन्ती या शतेन प्रतनोषि इति द्वाभ्यामुपोदके दूर्वामारोपयन्ते ऽथाधीप्सन्ते ऽन्योन्यममुष्मा अमुष्मा इति ।११।
अथावगाह्य सम्परिगृह्योर्मिमन्तमुदधिं कृत्वा त्रिरुद्युत्या तमितोराजिं धावन्ति ।१२।
प्रत्येत्य गृहानथ ब्राह्मणान्तर्पयन्त्यपूपैर्धानाभिस्सक्तुभिरोदनेनेति यद्यु वैतेभ्यो भवति ।१३।
त्र्यहमेकाहं वा नाधीयीरन्मासं प्रदोषे नाधीयेरन्नित्यं चैव विद्युत्स्तनितवर्षाणामेकस्मिन्द्वयोर्वा काले त्रिषन्निपाते त्र्यहम्।१४।
यथोपाकृतौ छब्दसामेवमेवमुत्सृष्टौ कल्पानाम्।१५।
एवमेव पारायणसमाप्तौ काण्डादिदूर्वारोपणोदधिधावनवर्जम्।१६।
इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने नवमो ऽध्यायः
BaudhGS.3.10
अथ तृतीयप्रश्ने दशमो ऽध्यायः
वलिहरणानुकृतिरेव सर्पबलिः ।१।
संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासि मासि वा वर्षास्वाश्रेषाषु क्रियेत ।२।
अपां समीपे वल्मीक्राग्रेण वा पचनम्।३।
गन्धोदकैर्दूर्वोदकैश्चाभ्युक्ष्य चित्रास्सुमनसस्सम्प्रकीर्य यवपिष्टानि व्रीहिपिष्टानि श्यामाकपिष्टानि वा ऽऽज्येनेक्षुरसेन वा पक्त्वा पायसं घृतपक्वांश्च अपूपानोदनं धानास्सक्तून्करम्भान्लाजानित्युपकिरन्ति नमो अस्तु सर्पेभ्यः इति तिसृभिरनुच्छन्दसम्।४।
सर्पेभ्यस्स्वाहा ऽऽश्रेषाभ्यस्स्वाहा दन्दशूकेभ्यस्स्वाहा इति त्रयस्स्वाहाकाराः ।५।
जीर्वरो ग्रहपतिरध्वर्युर्धृताराष्ट्र ह्ह्रावतो ब्रह्मदत्तस्तापसो होता पृथुश्रवा दूरेश्रवा उद्गाता ग्लावश्चाजगश्च प्रस्तोता प्रतिहर्ता शितिपृष्ठो मैत्रावरुणः तक्षको वैशालकिर्ब्राह्मणाच्छंस्युपनीतिस्तार्क्ष्यस्सदस्यश्शिखातिशिखौ नेष्टापोतारौ वारुणो होता ऽच्छावाकश्चक्रः पिशङ्ग आग्नीध्रश्चाहिरो महेयस्सुब्रह्मण्यो ऽर्बुदो ग्रावस्तुत्साण्ड उन्नेता पशगो ध्रुवगोपः कौस्तुको धुरिमेजयश्च जनमेजयश्चे त्येतैरेव नामधेयैः समीची नामासि प्राची दिकिति षड्भिः पर्या यैः हेतयो नाम स्थ तेषां वः पुरो गृहाः इति षड्भिः इदं सर्पेभ्यो हविरस्तु जुष्टमिति चोपस्थानम्।६।
त्रिवृता ऽन्नेन ब्राह्मणान्सम्पूज्य आशिषो वाचयित्वा ।७।
व्याख्यातस्सर्पबलिर्व्याख्यातस्सर्पबलिः ।८।
इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने दशमो ऽध्यायः
BaudhGS.3.11
अथ तृतीयप्रश्ने एकादशो ऽध्यायः
अथेमे देवते प्रबाधिन्यावुद्वाहिकाले यक्ष्यतम्यौ भवतस्तयोस्तदुपक्लृप्तं भवति यत्सर्पबलौ ।१।
अपां समीपे द्वे स्त्रीप्रतिकृतीकृत्य गन्धैर्माल्येन चालङ्कृत्यैवमेवाभ्यर्चयति ।२।
तयोरर्चनमन्त्रः ते सूनवस्स्वपसम्सुदंससो मही जज्ञुर्मातरापूर्वचित्तये ।स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ।३।
ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा ।नव्यं नव्यं तन्तुमातन्वते दिवि समुद्रे अन्तः कवयस्सुदीतयः इति ।४।
अथैते उपसङ्गृह्य पार्श्वे दत्वा प्रवाह्य त्रिवृता ऽन्नेन ब्राह्मणान्सम्पूज्याशिषो वाचयित्वा व्याख्यातो यक्षीबलिः ।५।
इति बोधायनीयगृह्यसूत्रे तृतीयप्रश्ने एकादशो ऽध्यायः
BaudhGS.3.12
अथ तृतीयप्रश्ने द्वादशो ऽध्यायः
अष्टकानुकृतिर्मासिकं तत्पुरस्ताद्व्याख्यातम्।१।
अथाभ्युदयिकेषु प्रदक्षिणमुपचारो यज्ञोपवीतं प्रागग्रान्दर्भान्युग्मान्ब्राह्मणान्यवैस्तिलार्थः पृषदाज्यं हविः ।२।
सोपयामेन पात्रेण नान्दीमुखाः पितरः प्रीयन्तामित्यपां प्रतिग्रहणं विसर्जनं च ।३।
नान्दीमुखेभ्यः पितृभ्यस्स्वाहेत्यग्नौ करणमनुदेशनम्।४।
आशयेषु परिसमूढेषु प्रागग्रेषु दर्भेषु पृषदाज्येनानुप्रदानं सर्वं द्विर्द्विरिति ।५।
अथैकोद्दिष्टेषु नाग्नौकरणं नाभिश्रावणं न पूर्वं निमन्त्रणं न दैवं न धूपं न दीपं न स्वधा न नमस्कारो नात्रापूपम्।६।
सर्वं सिद्धं समानीयायुग्मान्ब्राह्मणान्सुप्रक्षाऌइतपाणिपादानप आचमय्य सदर्भोपक्लप्तेष्वासनेषू वेश्य सर्वस्मात्सकृत्सकृत्समवदायाभिघार्य दक्षिणतो भस्ममिश्रानङ्गागन्निरूह्य तेषु जुहुयात्प्रेतायामुष्मै यमाय च स्वाहा इति ।तद्धुतमहुतं च भवति ।७।
अमुष्मै तृप्तिरस्त्वित्यपां प्रतिग्रहणं विसर्जनं च ।अमुष्मा उपतिष्ठत्वित्यनुदेशनमाशयेष्वेव पिण्डदानं तृप्यस्वेति संक्षाऌअनं तृप्तिरस्त्विति विसर्जनमस्तु तृप्तिरितीतरेषां प्रतिवचनम्।८।
प्रेतस्य द्वितीयाप्रभृति ब्राह्मणभोजनैरेकोत्तरवृद्धिरादशाहात्।९।
अत्र नवं विच्छिद्येत ।१०।
एकादश्यां श्राद्धं तृतीये पक्षे द्वितीयं सन्ततमेकैकेनैकादश मासान्नयन्ति न द्वादशमासमभ्यारोहन्ति ।११।
संवत्सरे सपिण्डीकरणं साग्नौकरणं साभिश्रावणं सपूर्वं सदैवं सधूपं सदीपं सस्वधा सनमस्कारं सापूपम्।१२।
अथाप्युदाहरन्ति एकोद्दिष्टे नवश्राद्धे नाग्नौ करणमिष्यते न चाभिश्रावणं कुर्यान्न च पूर्वं तु कारयेत्।१३।
प्रणामं च न कुर्वीत स्वधाकारं तथैव च ऊर्ध्वं संवत्सरात्प्रेतः पितृत्वमुपपद्यते ।१४।
इतीन्न्वा इमा अनुकृतयो व्याख्याताः ।१५।
इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने द्वादशो ऽध्यायः
BaudhGS.3.13
अथ तृतीयप्रश्ने त्रयोदशो ऽध्यायः
अथर्तुसंवेशनादि जन्मप्रभृति वा कुमारः क्रियाभिलुप्तस्स्यादुपनयनं चैकं स्यात्तासां पृथक्पृथक्क्रियाणां करणं न चैकहोमे सर्वाणि कर्माण्युपपादयेत्।१।
यद्येकहोमे सर्वाणि कर्माण्युपपादयेत्प्रधानादौ द्वेद्वे मिन्दाहुती जुहुयात्।२।
मिन्दाहुती हुत्वा जयानभ्यातानान्।३।
रुद्राहुत्यन्ते च विज्ञायते रुद्रो वै क्रूरो देवानां सो ऽस्य तुष्टः प्रीतो भवति इति सर्वत्र छेदनभेदनखनननिरसनपितृराक्षसनैरृतरौद्राभिचरणीयेष्वप उपस्पृशेदिति विज्ञायते आपो वै शान्ताश्शान्ताभिरेवास्य शुचं शमयति इति ब्राह्मणम्।४।
आषोडशात्ब्राह्मणस्यानात्यय इत्याद्वाविंशात्क्षत्रियस्याचतुर्विंशाद्वैश्यस्यात ऊर्ध्वं पतितसावित्रीका भवन्ति ।५।
नैनानुपनयेयुर्नाध्यापयेयुर्न विवहेयुर्न याजयेयुः ।६।
तांस्त्रिवृता व्रात्यस्तोमेन याजयित्वा विवाहयेयुः ।७।
यच्च किञ्चित्सगोत्राणां सर्वेषां च सशान्तिकम्कन्यानां चैव जन्मादिकर्तव्याः कर्ममङ्गलाः ।८।
क्रियामयं हि ब्राह्मण्यं नाक्रियं ब्रह्मोच्यते नाक्रियं ब्रह्मोच्यत इति
इति बोधायनीये गृह्यसूत्रे तृतीयप्रश्ने त्रयोदशो ऽध्यायः
अथर्तुसंवेशनादि ।अष्टकानुकृतिः ।अथेमे देवते ।बलिहरणानुकृतिरेव सर्पबलिः ।बलिहरणानुकृतिरुत्सर्गः ।अथातो ऽर्धमासे ऽर्धमासे ।आहुतानुकृतिरायुष्यचरुः ।अथ यद्यगारे विरोहेत्।प्रहुतानुकृतिर्वास्तुशमनम्।अथातो ऽवान्तरदीक्षां व्याख्यास्यामः ।अष्टाचत्वारिंशत्सम्मितम्।आचार्यप्रसूतः कर्माणि करोति ।हुतानुकृतिरुपाकर्म ।१३।
हुतानुकृतिरुपाकर्म ।आचार्यप्रसूतः कर्माणि करोति ।अष्टाचत्वारिंशत्संमितम्।अथातो ऽवान्तरदीक्षां व्याख्यास्यामः ।प्रहुतानुकृतिर्वास्तुशमनम्।अथ यद्यगारे स्थूणा विरोहेत्।आहुतानुकृतिरायुष्यचरुः ।अथातो ऽर्धमासे ऽर्धमासे ।बलिहरणानुकृतिरुत्सर्गः ।बलिहरणानुकृतिरेव सर्पबलिः ।अथेमे देवते ।अष्टकानुकृतिः ।अथर्तुसंवेशनादि ।१३।

इति बोधायनगृह्यसूत्रे तृतीयप्रश्नः