योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः ०४३
श्रीवसिष्ठ उवाच ।
अहंतादिजगच्चेदं परिज्ञानादसत्यताम् ।
याति सानुभवो मोहात्सत्यमेवान्यथाधियाम् ।। १
अज्ञानज्वरमुक्तस्य बोधशीतलितात्मनः ।
एतदेव भवेच्चिह्नं यद्भोगाम्बु न रोचते ।। २
अलमन्यैः परिज्ञानैर्वाच्यवाचकविभ्रमैः ।
अनहंवेदनामात्रं निर्वाणं तद्विभाव्यताम् ।। ३
परिज्ञाता यथा स्वप्ने पदार्था रसयन्ति नो ।
न च सन्ति तथैवास्मिन्नहं जगदिदंभ्रमे ।। ४
यथा स्वभावनाद्यक्षस्तरौ सस्वजनं पुरम् ।
पश्यत्यसत्यमेवैवं जीवः पश्यति संसृतिम् ।। ५
विभ्रमात्मा यथा यक्षो यक्षलोकश्च ते मिथः ।
सद्रूपौ सुस्थितौ मिथ्या तथाहंत्वजगद्भ्रमौ ।। ६
अनावरणतोऽरण्ये यक्षा विभ्रमरूपिणः ।
यथा स्फुरन्ति भूतानि तथेमानि चतुर्दश ।। ७
भ्रममात्रमहं मिथ्यैवेति बुद्ध्वा विभावयन् ।
यक्षोऽयक्षत्वमायाति चित्तं चित्तत्त्वतामिदम् ।। ८
निरस्तकलनाशङ्कं त्यागग्रहणवर्जितम् ।
अविसारिसमस्तेच्छं शान्तमास्व यथास्थितम् ।। ९
असत्तासंभवं दृश्यं द्रष्ट्रात्मकमिदं ततम् ।
अथवा नैव द्रष्ट्रात्म सदवाच्यं किमास्यते ।। 6.2.43.१०
वसन्तरसपूरस्य यथा विटपगुल्मता ।
स्वरूपमात्रभरितसंविदः सर्गता तथा ।। ११
यदिदं जगदाभासं शुद्धं चिन्मात्रवेदनम् ।
कात्रैकता द्विता का वा निर्वाणमलमास्यताम् ।। १२
भूयतां चिन्मयव्योम्ना पीयतां परमो रसः ।
स्थीयतां विगताशङ्कं निर्वाणानन्दनन्दने ।। १३
किमेतास्वतिशून्यासु संसारारण्यभूमिषु ।
मानवा वातहरिणा भ्रमथो भ्रान्तबुद्धयः ।। १४
जगत्त्रयमरीच्यम्बु विप्रलब्धान्धबुद्धयः ।
मा धावत गतव्यग्रमाशयोपह्रताशयाः ।। १५
रूपालोकमनस्कारमृगतृष्णाम्बुपायिनः ।
व्यर्थमायासमायूंषि मा मा क्षपयतैणकाः ।। १६
जगद्गन्धर्वनगरगुरुगर्वेण नश्यथ ।
सुखरूपाणि दुःखानि नाशनायैव पश्यथ ।। १७
जगत्केशोण्ड्रकभ्रान्त्यै मा महाम्बरमध्यगम् ।
अवलोकयताभ्रान्ते स्वरूपे परिणम्यताम् ।। १८
मानवा वातलोलोच्चपत्रप्राप्ताम्बुभङ्गुर- ।
मानवासु न चास्वन्धगर्भशय्यासु सुप्यताम् ।। १९
अविराममनाद्यन्ते स्वभावे शान्तमास्यताम् ।
द्रष्ट्टदृश्यदशादोषादस्वभावाद्विनश्यताम् ।। 6.2.43.२०
अज्ञावबुद्धः संसारः स हि नास्ति मनागपि ।
अवशिष्टं च यत्सत्यं तस्य नाम न विद्यते ।। २१
त्रोटयित्वा तु तृष्णायःशृङ्खलावलितं बलात् ।
संसारपञ्जरं तिष्ठ सर्वस्योर्ध्वं मृगेन्द्रवत् ।। २२
आत्मात्मीयग्रहभ्रान्तिशान्तिमात्रा विमुक्तता ।
यथा तथा स्थितस्यापि सो स्वसत्तैव योगिनः ।। २३
निर्वाणताऽवासनता पराऽपतापताज्ञता ।
संसाराध्वनि खिन्नस्य शान्ता विश्रामभूमयः ।। २४
तज्ज्ञज्ञातो न मूर्खाणां मूर्खज्ञातो न तद्विदाम् ।
विद्यते जगदर्थोऽसाववाच्यार्थमयो मिथः ।। २५
विश्वता भ्रान्तिसंशान्तौ संस्थितैव न लभ्यते ।
महार्णवाम्बुवलिता पुत्रिकेव पयोमयी ।।
भ्रान्तिशान्तौ प्रबुद्धस्य विनिर्वाणस्य विश्वता ।
यथास्थितैव गलिता विद्यते च यथास्थितम् ।। २७
निर्दग्धतृणभस्माली क्वापि याति यथानिलैः ।
सतां स्वभावविश्रामैः क्वापि याति तथा जगत् ।। २८
जगद्ब्रह्मपदार्थस्य संनिवेशः स तूत्तमः ।
ब्रह्मशब्दार्थरूपात्मा न जगच्छब्दकार्यभाक् ।। २९
अविज्ञातस्य बालस्य पदार्था यादृशा इमे ।
विदुषस्तादृशा एव तिष्ठतः क्षीणवासनम् ।। 6.2.43.३०
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।।३१
स्थितमेवाऽविरामी यज्जाग्रदस्य सुषुप्तवत् ।
चित्रावलोकित इव जाग्रत्योऽस्य रसैषणाः ।। ३२
जात्यन्धरूपानुभवसमं भुवनवेदनम् ।
भ्रान्तप्रायमसद्रूपं ज्ञस्य भाति न भाति च ।। ३३
विमूढदुःखं त्रिजगद्विमूढविषयं न सत् ।
स्वप्ने स्वप्नतया ज्ञाते रूपालोकमनःक्रियाः ।। ३४
न स्वदन्ते यथा तद्वज्जाग्रत्स्वप्रे स्फुरन्तु मा ।
निर्विभागः समाश्वस्तोऽविरोधं परमागतः ।। ३५
आशीतलान्तःकरणो निर्वाणो ज्ञोऽवतिष्ठते ।
तज्ज्ञस्याकृष्टमुक्तस्य समं ध्यानं विना स्थितिः ।। ३६
निम्नं विनैव तोयस्य न संभवति काचन ।
अर्थ एव मनस्कारो मन एवार्थरञ्जनम् ।। ३७
एष एवैष आभासः सबाह्याभ्यन्तरात्मकः ।
आसमुद्रं नदीवाहशतसंघमयात्मकम् ।। ३८
यथैकश्लेषपिण्डात्म वहत्यम्बु तरङ्गिणाम् ।
सबाह्याभ्यन्तराकारमर्थानर्थमयात्मकम् ।। ३९
मन एव स्फुरत्यर्थनिर्भासं व्याततं तथा ।
नास्त्यर्थमनसोर्द्वित्वं यथा जलतरङ्गयोः ।। 6.2.43.४०
एकाभावे द्वयोः शान्तिः पवनस्पन्दयोरिव ।
नूनमेकोपशान्त्यैव निःसारे परमार्थतः ।। ४१
एकत्वादर्थमनसी सममेवाशु शाम्यतः ।
अर्थः संकल्परूपात्मा नेहितव्यो विजानतो ।। ४२
मनश्च सम्यग्ज्ञानेन शान्तिरेवं भवेत्तयोः ।
अनष्टे नश्यतश्चैतै ज्ञस्यार्थमनसी स्वतः ।। ४३
मृन्मये द्विषति ज्ञानाद्द्विषद्भावभये यथा ।
यथासंख्यं स्थिते एव ज्ञस्यार्थमनसी सदा ।। ४४
किमप्यपूर्वमेवान्यत्संपन्ने भावरूपिणि ।
संहितार्थजगत्कालोऽप्यज्ञोऽज्ञविषयोऽप्यसत् ।। ४५
पार्श्वसुप्तनरस्वप्न इव क्लीबाग्रयक्षवत् ।
ज्ञस्य साज्ञं जगन्नास्ति वीरस्येव पिशाचधीः ।। ४६
ज्ञमज्ञो भावयत्यज्ञं चिरं वन्ध्यापि वर्धते ।
विनैव ज्ञातशब्दार्थमर्थभावमिवागतम् ।। ४७
स्थितं बोधमनाद्यन्तं स्वभावं सर्गगं विदुः ।
मनः शब्दार्थरहितं विभागान्तविवर्जितम् ।। ४८
बोधवारिमनोबुद्धितरङ्गमिव निर्मलम् ।
क्व संभवत एवान्तः के वार्थमनसी किल ।। ४९
निरर्थिकैव विभ्रान्तिः स्वभावमयमास्यताम् ।
शुद्धबोधस्वभावस्थैराकाशमिव शारदैः ।। 6.2.43.५०
जाग्रत्स्वप्नसुषुप्तान्तैर्मनस्त्वं नानुभूयते ।
विधूयानन्तनानात्वमसद्भावमनामये ।। ५१
ज्ञेयं रज्जुरिवाशेषं स्वभावे तिष्ठ चिद्घने ।
ज्ञप्तिरेवान्तरं बाह्यं चार्थत्वमधितिष्ठति ।। ५२
बीजं शाखाफलानीव क्वातोऽर्थमनसी वद ।
ज्ञेयासंभवतो ज्ञप्तिरप्यनाख्यं पदं गता ।। ५३
शान्ताशेषविशेषात्मा तेन शेषोऽस्ति सत्स्वभाः ।
अर्थ एव मनस्कारः स चाभावात्मको भ्रमः ।। ५४
मन एवार्थसंस्कारः स चाभावात्मको भ्रमः ।
सर्वात्मत्वादजस्यैतदप्यकारणकं मनः ।। ५५
भ्रमानुभवतोऽर्थश्च मिथ्यैवास्तीव भासते ।
अकारणकमेवार्थनिर्भासं भासते मनः ।। ५६
विद्युद्विलसिताकारमस्थिरं तरलायते ।
त्वं मनस्कारमात्रात्मा संसृतौ विभ्रमायसे ।। ५७
स्वभावैकपरिज्ञानान्नासि नापि भ्रमायसे ।
मनसैव हि संसार आत्मबोधेन शाम्यति ।। ५८
शुक्तिरूप्यभ्रमाकारो जनो मिथ्यैव ताम्यति ।
अभावभावस्तु परं बोधरूपमसंसृतिः ।। ५९
निर्वाणादितरा सत्ता दुःखायाहमिति भ्रमः ।
मृगतृष्णाम्बुरूपोऽहमसच्छून्यस्वरूपकः ।। 6.2.43.६०
इत्येवात्मपरिज्ञानादहमित्येव शाम्यति ।
ज्ञात्वा ज्ञानमयो भूत्वा सबाह्याभ्यन्तरार्थताम्।। ६१
गतं स्वमत्यजद्रूपं तरङ्गत्वं यथा पयः ।
मूलशाखाग्रपर्यन्ता सत्ता विटपिनो यथा ।। ६२
निर्विकारमलं ज्ञप्तेर्ज्ञेयान्तैकैव भासते ।
यथा योजनलक्षाभमेकमेवामलं नभः ।। ६३
एकमेव तथा ज्ञानं ज्ञेयान्तं भात्यखण्डितम् ।
शून्यत्वादेकममलं यथा सर्वगमेव खम् ।। ६४
तथैकममलं ज्ञात्वा ज्ञानज्ञेयदशास्वपि ।
घृतेनात्मा घनीभूय पाषाणीक्रियते यथा ।। ६५
चिता चेत्यतयात्मैव स्वचित्तीक्रियते तथा ।
देशकालं विनैवात्मा बोधाबोधेन चित्तताम् ।। ६६
अबुद्धो नीयते न्यायैरेकमेवैष सुस्थितः ।
अत्र यद्यप्यबोधादेः संभवो नास्ति कश्चन ।
तथापि कल्प्यतेऽत्रैव बोधनाय परस्परम् ।। ६७
महानुभावा विगताभिमाना
विमूढभावोपशमे गलन्ति ।
निर्भ्रान्तयोऽनन्ततयैव शान्ता
नित्यं समाधानमया भवन्ति ।। ६८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो० निर्वाण० उ० ब्रह्मैकतानतोपदेशो नाम त्रिचत्वारिंशः सर्गः ।। ४३ ।।