शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ०९

विकिस्रोतः तः

मुनय ऊचुः
कथं जगदिदं कृत्स्नं विधाय च निधाय च ॥ ७.१,९.१
आज्ञया परमां क्रीडां करोति परमेश्वरः ॥ ७.१,९.१
किं तत्प्रथमसंभूतं केनेदमखिलं ततम् ॥ ७.१,९.२
केना वा पुनरेवेदं ग्रस्यते पृथुकुक्षिणा ॥ ७.१,९.२
वायुरुवाच
शक्तिः प्रथमसम्भूता शांत्यतीतपदोत्तरा ॥ ७.१,९.३
ततो माया ततो ऽव्यक्तं शिवाच्छक्तिमतः प्रभोः ॥ ७.१,९.३
शान्त्यतीतपदं शक्तेस्ततः शान्तिपदक्रमात् ॥ ७.१,९.४
ततो विद्यापदं तस्मात्प्रतिष्ठापदसंभवः ॥ ७.१,९.४
निवृत्तिपदमुत्पन्नं प्रतिष्ठापदतः क्रमात् ॥ ७.१,९.५
एवमुक्ता समासेन सृष्टिरीश्वरचोदिता ॥ ७.१,९.५
आनुलोम्यात्तथैतेषां प्रतिलोम्येन संहृतिः ॥ ७.१,९.६
अस्मात्पञ्चपदोद्दिष्टात्परस्स्रष्टा समिष्यते ॥ ७.१,९.६
कलाभिः पञ्चभिर्व्याप्तं तस्माद्विश्वमिदं जगत् ॥ ७.१,९.७
अव्यक्तं कारणं यत्तदात्मना समनुष्ठितम् ॥ ७.१,९.७
महदादिविशेषांतं सृजतीत्यपि संमतम् ॥ ७.१,९.८
किं तु तत्रापि कर्तृत्वं नाव्यक्तस्य न चात्मनः ॥ ७.१,९.८
अचेतनत्वात्प्रकृतेरज्ञत्वात्पुरुषस्य च ॥ ७.१,९.९
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ॥ ७.१,९.९
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ७.१,९.१०
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥ ७.१,९.१०
तस्माच्छक्तस्स्वतन्त्रो यः सर्वशक्तिश्च सर्ववित् ॥ ७.१,९.११
अनादिनिधनश्चायं महदैश्वर्यसंयुतः ॥ ७.१,९.११
स एव जगतः कर्ता महादेवो महेश्वराः ॥ ७.१,९.१२
पाता हर्ता च सर्वस्य ततः पृथगनन्वयः ॥ ७.१,९.१२
परिणामः प्रधानस्य प्रवृत्तिः पुरुषस्य च ॥ ७.१,९.१३
सर्वं सत्यव्रतस्यैव शासनेन प्रवर्तते ॥ ७.१,९.१३
इतीयं शाश्वती निष्ठा सतां मनसि वर्तते ॥ ७.१,९.१४
न चैनं पक्षमाश्रित्य वर्तते स्वल्पचेतनः ॥ ७.१,९.१४
यावदादिसमारंभो यावद्यः प्रलयो महान् ॥ ७.१,९.१५
तावदप्येति सकलं ब्रह्मणः शारदां शतम् ॥ ७.१,९.१५
परमित्यायुषो नाम ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,९.१६
तत्पराख्यं तदर्धं च परार्धमभिधीयते ॥ ७.१,९.१६
परार्धद्वयकालांते प्रलये समुपस्थिते ॥ ७.१,९.१७
अव्यक्तमात्मनः कार्यमादायात्मनि तिष्ठति ॥ ७.१,९.१७
आत्मन्यवस्थिते ऽव्यक्ते विकारे प्रतिसंहृते ॥ ७.१,९.१८
साधर्म्येणाधितिष्ठेते प्रधानपुरुषावुभौ ॥ ७.१,९.१८
तमः सत्त्वगुणावेतौ समत्वेन व्यवस्थितौ ॥ ७.१,९.१९
अनुद्रिक्तावनन्तौ तावोतप्रोतौ परस्परम् ॥ ७.१,९.१९
गुणसाम्ये तदा तस्मिन्नविभागे तमोदये ॥ ७.१,९.२०
शांतवातैकनीरे च न प्राज्ञायत किंचन ॥ ७.१,९.२०
अप्रज्ञाते जगत्यस्मिन्नेक एव महेश्वरः ॥ ७.१,९.२१
उपास्य रजनीं कृत्स्नां परां माहेश्वरीं ततः ॥ ७.१,९.२१
प्रभातायां तु शर्वर्यां प्रधानपुरुषावुभौ ॥ ७.१,९.२२
प्रविश्य क्षोभयामास मायायोगान्महेश्वरः ॥ ७.१,९.२२
ततः पुनरशेषाणां भूतानां प्रभवाप्ययात् ॥ ७.१,९.२३
अव्यक्तादभवत्सृष्टिराज्ञया परमेष्ठिनः ॥ ७.१,९.२३
विश्वोत्तरोत्तरविचित्रमनोरथस्य यस्यैकशक्तिशकले सकलस्समाप्तः ॥ ७.१,९.२४
आत्मानमध्वपतिमध्वविदो वदंति तस्मै नमः सकललोकविलक्षणाय ॥ ७.१,९.२४

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वभागे सृष्टिपालनप्रलयकर्तृत्ववर्णनं नाम नवमोऽध्यायः