सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः ३१

विकिस्रोतः तः

।। जैमिनिरुवाच ।। ।।
कृतकृत्यं तदात्मानं मन्यमानस्ततो व्रजेत् ।।
अश्वमेधांगसंभूतमिंद्रद्युम्नसरः प्रति ।। १ ।।
यस्य तीरे निवसति नरसिंहाकृतिर्हरिः ।।
नरसिंहमनुप्रार्थ्य तत्र स्नायाद्यथाविधि ।। २ ।।
नरसिंह नमस्तुभ्यं यस्य ते क्षेत्र उत्तमे ।।
सहस्रं वाजिमेधस्य क्रतोश्चक्रे नृपोत्तमः ।। ३ ।।
इन्द्रद्युम्नः प्रसादात्ते तस्य क्रत्वंगसंभवे ।।
सरसि स्नातुमायातो मामनुज्ञापय प्रभो ।। ४ ।।
ततस्तीर्थतटं गत्वा कृतशौचाचमक्रियः ।।
प्रार्थयेदंजलिं कृत्वा इमं मंत्रमुदीरयेत् ।। ५ ।।
अश्वमेधांगगोकोटिखुरक्षुण्णमहीतलः ।।
तन्मूत्रफेनादानांभः पूरिताखिलपावनः ।।६।।
स्नातुं तवागतः पुण्ये सर्वतीर्थमये जले ।।
पूर्वजन्मसहस्रोत्थं पापं स्नानाद्विमोचय ।। ७ ।।
अन्तः प्रविश्य च ततो वारुणैः पंचभिर्द्विजाः ।।
स्नायादन्तर्जले जप्यात्त्रिरावृत्त्याघमर्षणम् ।। ८ ।।
अश्वमेधांगसंभूत तीर्थ सर्वाघनाशन ।।
जन्मकोटिभवं पापं त्वयि स्नानाद्विनश्यतु ।। ९ ।।
इमं मन्त्रं त्रिरुच्चार्य त्रिः स्नायात्तज्जले द्विजाः ।।
संस्मरेद्विष्णुगायत्र्या नरसिंहाकृतिं हरिम् ।। 2.2.31.१० ।।
आपो नारा इति प्रोक्ता यस्मात्ता नरसूनवः ।।
अयनं प्रथमं चास्य तस्मादप्सु हरिं स्मरेत् ।।११।।
देवानृषीन्पितॄंश्चैव तर्पयेद्विधिवन्नरः ।।
नरसिंहं ततो गच्छेत्पश्चिमाभिमुखं स्थितम् ।। १२ ।।
सिद्धं शंभुं कृत्रिमं वा पश्चिमाभिमुखं हरिम् ।।
दृष्ट्वा विमुच्यते पापैर्जन्मकोटिसमुद्भवैः ।। १३ ।।
तमाथर्वणमंत्रेण यजेच्च नरकेसरिम् ।।
नारदेन पुरा ह्येष मंत्रराजः प्रतिष्ठितः ।। १४ ।।
इन्द्रद्युम्नेन तेनैव चिरादेष उपासितः ।।
नरसिंहाकृतौ नान्यो मंत्रस्तत्सदृशो द्विजाः ।। १५ ।।
यस्योच्चारणमात्रेण तुष्टो भवति केसरी ।।
अनेन दारुवर्ष्मापि ब्रह्मणा संप्रतिष्ठितः ।। १६ ।।
पूर्वोक्तैरुपचारैस्तु पूजयेन्नरकेसरिम् ।।
जपाप्रसूनैररुणैरन्यैश्चैव सुगंधिभिः ।। १७ ।।
चंदनागरुकर्पूरैर्लेपयेन्नरकेसरिम् ।।
पायसं सितया युक्तं सौरभेयेण सर्पिषा ।। १८ ।।
कर्पूरखण्डसंयुक्तान्मोदकान्घृतपाचितान् ।।
संयावान्घृतपूपांश्च फलं नानाविधं तथा ।। १९ ।।
शर्करादधिसंयुक्तं शाल्यन्नं विनिवेदयेत् ।।
दृष्ट्वा स्पृष्ट्वा नमस्कृत्वा संपूज्य नरकेसरिम् ।। 2.2.31.२० ।।
स्वान्स्वानभीष्टानाप्नोति नरो वै नात्र संशयः ।।
देवत्वममरेशत्वं गंधर्वत्वं च भो द्विजाः ।।२१।।
ईशित्वं च वशित्वं च सार्वभौमत्वमेव वा ।।
यद्यत्कामयते चित्ते तत्तदाप्नोत्यसंशयम् ।। २२ ।।
पंचतीर्थीविधानं च कथितं पृच्छतां द्विजाः ।।
दिनानि पंच कृत्वैतां पञ्चभूतमये पुनः ।।२३।।
न देहे प्रविशेन्मर्त्यो व्रती विष्णुपरायणः ।।
पौर्णमास्यां प्रत्युषसि तीर्थराजजले पुनः ।। २४ ।।
पूर्वोक्तविधिना स्नात्वा शुद्धाहारो जितेंद्रियः ।।
एकभक्तव्रतेनैव वर्त्तते प्रीतये नरः ।।
यावत्पंच दिनानि स्युस्तावत्कालं द्विजोत्तमाः ।। २५ ।।
ततः प्रविश्यप्रासादं मंचस्थं पुरुषोत्तमम् ।।
रामं सुभद्रां दृष्ट्वा च मुच्यते पापकंचुकैः ।। २६ ।।
सर्वतीर्थमयात्कूपादुद्धृतेन सुगन्धिना ।।
वारिणा स्नाप्यमानं तु यो ज्यैष्ठ्यां पश्यते हरिम् ।। २७ ।।
न तस्य पापसंबंध आत्मनि प्रभविष्यति ।।
यात्राकर्तृविधिं वक्ष्ये शृणुध्वं मुनयः परम् ।। २८ ।।
चतुर्दश्यां दृढं मंचं कारयित्वा सुशोभनम् ।।
तृणकाष्ठमयं लिप्तं सुधया बहुलं शुभम् ।। २९ ।।
अथवा दार्षदं कुर्याच्चिरस्थायि द्विजोत्तमाः ।।
स्नानार्थं देवदेवस्य वित्तशाठ्यं न कारयेत् ।। 2.2.31.३० ।।
नानाद्रुमगणाकीर्णं दक्षिणानिलशीतलम् ।।
उल्लसत्सिंधुकल्लोलशाड्वलोपरि संस्कृतम् ।। ३१ ।।
समुच्छ्रितमहामूल्यवितानवरशोभितम् ।।
विरलाच्छादनं कुर्याद्देवानां दर्शनाय वै ।। ३२ ।।
आयांति ब्रह्मणा सार्द्धं स्नपनाय जगत्पतेः ।।
स्वर्गंगांभः समादाय पारिजातविभूषितम् ।। ३३ ।।
ब्रह्मर्षयश्च त्रिदशा ब्रह्मणा सहिता विभुम् ।।
मंचस्थं स्नापयन्तीह वचनात्परमेष्ठिनः ।। ३४ ।।
जयशब्दैश्च स्तुतिभिर्वंद्योऽयं त्रिदिवौकसाम् ।।
तस्मान्मंचस्तु कर्तव्यो मंडितो माल्यचामरैः ।। ३५ ।।
नानामणिस्रजा हारिदुकूलकृततोरणम् ।।
सुगंधधूपसुरभिचंदनाभः समुक्षितम् ।। ३६ ।।
एवं मंचं प्रतिष्ठाप्य तस्य दक्षिणतो द्विजाः ।।
कूपाद्वारि समुद्धृत्य कलशान्स्वर्णनिर्मितान् ।। ३७ ।।
शालायां शास्त्रदृष्टेन विधिना त्वधिवासयेत्।। ३८ ।।
सुवासितं जलं तेषु पावमान्या प्रपूरयेत् ।।
चतुर्दशीनिशामध्ये कर्मैतत्समुदाहृतम् ।। ३९ ।।
शनैः शनैश्च नीयासुर्हरिं हलि पुरःसरम् ।।
ब्राह्मणाः क्षत्रिया वैश्या राज्ञा संमानितादृताः ।। 2.2.31.४० ।।
चामरैस्तालवृन्तैश्च वीज्यमानं निरंतरम् ।।
पुराकृतामलेपं तं विष्णोरंगान्न हापयेत् ।। ४१ ।।
यथा सुगंधलेपेन सुपुष्टांगो दिने दिने ।।
तथा प्रयत्नतः कार्यः कृशांगो न हि पुष्टिकृत् ।। ४२ ।।
नयेयुरप्रमाद्यंतो भगवंतमानदिताः ।।
प्रमादतो यदि भवेत्पतनं मुरवैरिणः ।। ४३ ।।
बलस्य वा सुभद्राया राज्ञो राज्यस्य भीतिकृत् ।।
अपि पातयतां हानिः संततेर्बहुदुःखिता ।। ४४ ।।
नरके नियतं वासो भवेत्तेषां दुरात्मनाम् ।।
विमुह्यंतश्चिराद्दारुमयीयं प्रतिमा कथम् ।। ४५ ।।
तिष्ठेदविश्वसंतो ये भगवद्द्रोहिणस्तु ते ।।
नरकं प्रतिपद्यंते सर्वकर्मबहिष्कृताः ।।४६।।
मूढानां नास्तिकानां च कृतघ्नानां हतात्मनाम् ।।
धर्मकृत्येषु जायंते अविश्वासस्य युक्तयः।।४७।।
अदृष्टं यस्य यावद्धि स तु तेन विनिर्मितः ।।
तदंते तस्य क्षीयंते प्रासादप्रतिमादयः ।।४८।।
न चायं निर्मितः केन द्रुमः सोऽपि प्रवर्द्धितः ।।
वरं ददाति या नूनं न चासौ प्रतिमा मता ।। ४९ ।।
निर्मितायां प्रतिकृतौ पुरा मन्वंतरादिषु ।।
व्यतीतेष्वपि वर्द्धंते जनानां च सुपर्वणाम् ।। 2.2.31.५० ।।
भक्तयस्तादृशो विप्राः सर्वेषां पृथिवीक्षिताम् ।।
स्वारोचिषेंऽतरे चैव आविर्भूतः कृपानिधिः ।। ५१ ।।
वैवस्वतेंऽतरे सप्तविंशे चैव चतुर्युगे ।।
द्वापरांते समायातौ तदा कृष्णार्जुनावुभौ ।। ५२ ।।
त्रिदिनानि स्थितावत्र व्रतस्थौ मधुसूदनम् ।।
भक्त्या संपूज्य तं स्तुत्वा जग्मतुर्द्वारकां पुनः ।। ५३ ।।
न केऽपि तत्त्वं जानंति मानुषीं तनुमास्थिताः ।।
अवताराः प्रवर्तंते विष्णोरस्य युगेयुगे ।। ५४ ।।
धर्मस्थापनया विप्रा लीयंते स्वपदे पुनः ।।
पूर्वं च ब्रह्मणा प्रोक्तः स चानेन परस्परम् ।। ५५ ।।
स्थाता परार्द्धपर्यंतं भगवान्दारुरूपधृक् ।।
सदायं वरदो विष्णुः शुद्धसत्त्वेन भावितः ।। ५६ ।।
यस्य यावांस्तु विश्वासस्तस्य सिद्धिस्तु तावती ।।
प्रमादीकृतविश्वासो भक्तो दृढमतिः पुमान् ।। ५७ ।।
यत्नानुरूपं लभते फलमस्मात्सुदुर्लभम् ।।
पुरा वः कथितं सर्वमंबरीषविमोचनम् ।। ५८ ।।
ततस्तस्मिञ्जगन्नाथे परमात्मस्वरूपिणि ।।
विधाय सुदृढां भक्तिं वसध्वं पुरुषोत्तमे ।।५९ ।।
अतोऽयं भक्तितो नेयः श्रीकृष्णमंच उत्तमः ।।
सुभद्राबलभद्रौ च राजवत्परिचर्य वै ।। 2.2.31.६० ।।
उत्तोलितेषु च्छत्रेषु चामरैर्वीजितेषु च ।।
कालागुरुसुधूपासु दिक्षु गंभीरनादिषु ।। ६१ ।।
नानाविधेषु वाद्येषु त्वगारे परिपूरिते ।।
तौर्यत्रिके साधुवृत्ते दीपिका श्रेणिराजिते ।। ६२ ।।
अंधकारेऽथ सर्वेषां वर्द्धमाने महोत्सवे ।।
आच्छन्ने श्रीपतेरंगे प्रमादपरिशंकया ।। ६३ ।।
पटुपट्टदुकूलेषु नीयमानेषु दूरतः ।।
गतेर्वेगात्तदोत्तानीकृतास्ये जगतां गुरौ ।। ६४ ।।
आवर्त्तदृष्टयो देवा दिवारोहणशंकिनः ।।
जयस्व राम कृष्णेति जय भद्रेति चोचिरे ।। ६५ ।।
एवं सलीलं भगवाञ्जन्मज्यैष्ठ्याभिषेचने ।।
नीयते मंचदेशं तु निशीथे ब्राह्मणादिभिः ।। ६६ ।।
अहंपूर्विकशब्दस्तु देवानां श्रूयते दिवि ।।
देवदुंदुभयश्चैव जयशब्दविमिश्रिताः ।। ६७ ।।
ततो मंचस्थितं ब्रह्मरूपं प्रत्यर्चया सह ।।
आच्छाद्य सर्वाण्यंगानि मुखवर्जं सुचेलकैः ।। ६८ ।।
विना निवेद्यं संपूज्य उपचारैः पुरोदितैः ।।
अधिवासितकुंभैश्च शांतिघोषपुरःसरम् ।। ६९ ।।
समुदज्येष्ठामंत्रेण स्नापयेत्सुरपुंगवान् ।।
पश्यतामभिषेक्तॄणां कृतकृत्यत्वहेतवे ।। 2.2.31.७० ।।
स्नाप्यमानं तु पश्यंति ये नरास्तत्र संस्थिताः ।।
गर्भोदकेन स्नपनं न ते पुनरवाप्नुयुः ।। ७१ ।।
ज्येष्ठस्नानं भगवतो ये पश्यंति मुदान्विताः ।।
न ते भवाब्धौ मज्जंति यात्रामुत्कंठमानसाः ।। ७२ ।।
बुद्ध्यबुद्धिकृतः पुंसामनादिः पापसंचयः ।।
तत्क्षणान्नाशमायाति पश्यतां स्नपनं हरेः ।। ७३ ।।
सत्यं सत्यं पुनः सत्यं ब्रवीमि द्विजपुंगवाः ।।
सर्वसंतापशमनमशेषमलनाशनम् ।। ७४ ।।
स्नपनं श्रीपतेर्ज्यैष्ठ्यां यदि भक्त्या विलोकनम् ।।
प्रायश्चित्तनिमित्तानि यानि पापानि संति वै ।। ७५ ।।
तानि सर्वाणि क्षीयंते पश्यतां स्नपनं हरेः ।।
नातः परतरं कर्म ह्यनायासेन मोचनम् ।। ७६ ।।
ज्येष्ठजन्मदिने स्नानं हरेर्यदवलोकितम् ।।
स्नानदानतपःश्राद्धजपयज्ञादयस्तु ये ।। ७७ ।।
विधयः कोटिगुणिताः कोटिजन्मोपपादिताः ।।
स्नानदर्शनपुण्यस्य हरेस्ते न तुलां गताः ।। ७८ ।।
भक्त्या यः स्नपनं विष्णोरेकस्मिन्वत्सरेऽपि वा ।।
पश्येन्न शोचते विप्रा इह संसारमोचने ।। ७९ ।।
तेनेष्टं क्रतुभिः पुण्यैः श्रद्धाविपुलदक्षिणैः ।।
महादानानि दत्तानि भोजिताः कोटिशो द्विजाः ।। 2.2.31.८० ।।
श्राद्धानि गयशीर्षादौ कोटिशश्च कृतानि वै ।।
पुण्यकाले च तीथार्दौ तपांसि चरितानि च ।। ८१ ।।
अर्धोदयादियोगेषु कोटितीर्थेषु कोटिशः ।।
स्नातानि तेन भो विप्रा यः पश्येत्स्नपनं हरेः ।। ८२ ।।
सत्यं सत्यं पुनः सत्यं ब्रवीमि द्विजपुंगवाः ।।
नातः श्रेयस्करं कर्म शास्त्रदृष्टपथिस्थितम् ।। ८३ ।।
मञ्चस्थं स्नाप्यमानं हि यः पश्येत्पुरुषोत्तमम् ।।
स्नानाच्छतगुणं पुण्यं लभते वै न संशयः ।। ८४ ।।
मञ्चस्थितं जगन्नाथं स्नानार्द्रं यस्तु पश्यति ।।
सांद्रानन्दार्द्रचित्तोऽसौ न किंचित्पापमश्नुते ।। ८५ ।।
यदेव पुण्यमुदितं स्नानदर्शनकर्मणि ।।
तत्तत्फलमवाप्नोति दृष्ट्वा मञ्चस्थमच्युतम् ।। ८६ ।।
एक एव जगन्नाथस्त्रिधा तत्र स्थितो द्विजाः ।।
एकैकस्यापि स्नपनदर्शनं भुक्तिमुक्तिदम् ।। ८७ ।।
जयस्व रामभद्रेति जय भद्रेति यो वदेत् ।।
जय कृष्ण जगन्नाथ जयेत्युच्चारयेन्मुदा ।। ८८ ।।
स्नानकाले स वै मुक्तिं प्रयाति द्विजसत्तमाः ।।
अधिवासादिकं तत्र यैः कृतं स्नानकर्मणि ।। ८९ ।।
तेषां श्रद्धामुदायुक्तः प्रदद्याद्दक्षिणाः पृथक् ।।
ब्राह्मणेभ्यश्च मिष्टान्नं वस्त्रालंकरणानि च ।। 2.2.31.९० ।।
प्रदद्याच्छ्रद्धया युक्तो दीनानाथांश्च तर्पयेत् ।।
ये द्रष्टुमागताः स्नानं जीवन्मुक्तास्तु ते ध्रुवम् ।। ९१ ।।
तान्यथाशक्ति वै राजा मानयेत्प्रीतये हरेः ।।
स्नानावशेषतोयेन स्नायाद्भद्रासनस्थितः ।। ९२ ।।
नारी वा पुरुषो वापि तस्य पुण्यं वदामि वः ।।
कल्पः स्याच्चिररोगार्तो ह्यपमृत्युं जयेदसौ ।। ९३ ।।
अपुत्रा मृतवत्सा वा वन्ध्या वापि लभेत्सुतम् ।।
सुभगः सर्वलोकानां निर्धनो धनवान्भवेत् ।। ९४ ।।
गुर्विणी लभते पुत्रं दीर्घायुर्गुणवत्तरम्।।
गंगादिसर्वतीर्थानां स्नानजं फलमुच्यते ।। ९५ ।।
स्नानदर्शनजं पुण्यं धर्मात्मा लभते ध्रुवम् ।।९६।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य एकत्रिंशोऽध्यायः ।। ३१ ।।