तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ७

विकिस्रोतः तः

7.1

हरिः ॐ ।

शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः, इति । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदि ष्यामि । सत्यं वदिष्यामि । तन्मामवन्तु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम्, इति ।

ॐ शान्तिः शान्तिः शान्तिः ( १) इति ।

सत्यं वदिष्यामि पञ्च च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके प्रथमोऽनुवाकः ।। १ ।।


7.2

ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम संतानः । इत्युक्तः शीक्षाध्यायः ( १, इति । शीक्षां पञ्च ।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके द्वितीयोऽनुवाकः

7.3

सह नौ यशः । सह नौ ब्रह्मवर्चसम्, इति । अथातः सँहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज मध्यात्मम् । ता महासंहिता इत्याचक्षते, इति । अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः संधिः ( १) । वायुः संधानम् । इत्यधिलोकम्, इति ।

अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः संधिः । वैद्युतः संधानम् । इत्यधिज्यौतिषम्, इति ।

अथाधिविद्यम् । आचार्यः पूर्वरूपम् ( २) । अन्तेवास्युत्तररूपम् । विद्या संधिः । प्रवचनं संधानम् । इत्यधिविद्यम्, इति । अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा संधिः । प्रजननंश संधानम् । इत्यधिप्रजम् ( ३), इति ।

अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररू- पम् । वाक्संधिः । जिह्वा संधानम् । इत्यध्यात्मम्, इति । इतीमा महासंहिताः, इति । य एवमेता महासंहिता व्याख्याता वेद । संधीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ( ४), इति ।। सधिराचार्यः पूर्वरूपमित्यधिप्रजं लोकेन ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके तृतीयोऽनुवाकः ।।३।।

7.4

यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात्संबभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम्, इति । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधयाऽपिहितः । श्रुतं मे गोपाय, इति ।

आवहन्ती वितन्वाना ( १) । कुर्वाणा चीरम्रात्मनः । वासांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा, इति । आ मा यन्तु ब्रह्मचारिणः स्वाहा । वि माऽऽयन्तु ब्रह्मचारिणः स्वाहा । प्र माऽऽयन्तु ब्रह्मचारिणः स्वाहा । दमायन्तु ब्रह्मचारिणः स्वाहा । शमायन्तु ब्रह्मचारिणः स्वाहा ( २), इति । यशो जनेऽसानि स्वाहा । श्रेयान्वस्यसोऽसानि स्वाहा, इति । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन्त्सहस्रशाखे । नि भगाहं त्वयि मृजे स्वाहा, इति । यथाऽऽपः प्रवताऽऽयन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा, इति । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व( ३), इति । वितन्वाना शमायन्तु ब्रह्मचारिणः स्वाहा धातरायन्तु सर्वतः स्वाहैकं च । ।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।

7.5

भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः, इति । तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवेदयते । मह इति, इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः, इति । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ( १) । मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते, इति । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते। भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि (२) । मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते, इति । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते, इति । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः, इति । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति(३), इति । असौ लोको यजूंषि वेद द्वे च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।

7.6

स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः, इति । अन्तरेण तालुके । य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले, इति । भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ( १) । सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पति- श्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम्, इति । इति प्राचीनयोग्योपास्स्व ( २), इति । वायावमृतमेकं च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।

7.7

पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम्, इति । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक्त्वक् । चर्म मांसं स्नावास्थि मज्जा, इति । एतदधिविधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ( १), इति । सर्वमेकं च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।

7.8

ओमिति ब्रह्म, इति । ओमितीदं सर्वम्, इति । ओमित्येतदनुकृति ह स्म वा अप्यो श्रावयत्याश्रावयन्ति । ओमिति सामानि गायन्ति । ओं शोमिति शस्त्राणि शँसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्म प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह,-इति ।
ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति ( १) इति । ओं दश ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।

7.9

ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्या- यप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च, इति । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवैति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ( १) इति । प्रजा च स्वाध्यायप्रवचने च षट् च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके नवमोऽनुवाकः ।। ९ ।।

7.10

अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ( १), इति । अहं षट् ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके दशमोऽनुवाकः ।। १० ।।

7.11

सत्यं वद । धर्मं चर, इति । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदि- तव्यम् (१) । देवपितृकार्याभ्यां न प्रमदितव्यम्, इति । मातृदेवो भव । पितृदेवो भव । आचार्य- देवो भव । अतिथिदेवो भव, इति । यान्यनवद्यानि कर्माणि । तानि सेवि- तव्यानि । नो इतराणि, इति । यान्यस्माकं सुचरितानि । तानि त्वयोपास्यानि ( २) । नो इतराणि, इति । ये के चास्मच्छ्रेयांसो ब्राह्मणाः । तेषां त्वयाऽऽसनेन प्रश्वसितव्यम्, इति । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम्, इति । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा ब्रा स्यात् ( ३) । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः, इति । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः, इति । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदन्रुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ( ४), इति । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं तानि त्वयोपास्यानि स्यात्तेषु वर्तेरन्त्सप्त च ।।

इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठक एकादशोऽनुवाकः ।। ११ ।।

7.12

शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृह- स्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् । ॐ शान्तिः शान्ति शान्तिः(१),इति। सत्यमवादिषं पञ्च च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।

शं नः शीक्षां सह नौ यश्छन्दसां भूः स यः पृथिव्योमित्यृतं चाहं वेदमनूच्य शं नो द्वादश ।। १२ ।।
शं नो मह इत्यादित्यो नो इतराणि त्रयोविँशतिः ।। २३ ।। शं नो मित्रः शं वरुणः ।। शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ।।

हरिः ॐ ।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमः प्रपाठकः समाप्तः ।। ७ ।।