स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/पुरुषोत्तमजगन्नाथमाहात्म्यम्/अध्यायः १३
।। मुनय ऊचुः । ।।
कपोतेशस्थली चापि कथं ख्याता महामुने ।।
को वा कपोतः कश्चेश एतन्नो वक्तुमर्हसि ।।१।।
।। जैमिनिरुवाच ।। ।।
पुरा कुशस्थली सा वै असेव्या सर्वजंतुभिः ।।
तीक्ष्णधारैः कुशाग्रैस्तु परितः कंटकैश्चिता ।।२।।
निस्तरुर्निर्जलाधारा पिशाचवसतिर्यथा ।।
यदा पूर्वं भगवतो नान्यो देवोऽपि पूज्यते ।।३।।
पूज्यः स्यामहमप्येवं स्पर्धासीद्धूर्जटेस्तदा ।।
चिंतयन्निति तस्यैव विष्णोर्भक्तौ मनोऽदधत्।। ४ ।।
सर्वनिर्विषये देशे स्थित्वाऽहं निष्परिग्रहः ।।
सुमहत्तप आस्थाय तोषयिष्यामि तं हरिम् ।। ५ ।।
किं वदेयं रमेशाय का स्तुतिः शारदापतेः ।।
सर्वब्रह्मांडनाथस्य किं वान्यत्तुष्टिकारकम् ।। ६ ।।
तस्मान्न बाह्यं वस्त्वन्यदुपयोगाय तस्य वै ।।
अंतर्यागं समास्थाय निर्व्यलीकेन चेतसा ।। ७ ।।
भक्तेभ्य आत्मप्रददं चराचरगुरुं हरिम् ।।
आराधयिष्ये सर्वेषां पूज्यः स्यां तत्प्रसादतः ।। ८ ।।
तत इत्यभिसंधाय ययौ पुण्यां कुशस्थलीम् ।।
समीपे नीलगोत्रस्य सर्वद्वंद्वविवर्जितः ।। ९ ।।
ततस्तेपे तपस्तीव्रं वायुभक्षो महेश्वरः ।।
कपोत इव सूक्ष्मोऽभूदष्टमूर्तिरपि प्रभुः ।। 2.2.13.१० ।।
ततः प्रसन्नो भगवानैश्वर्यं प्रददौ तदा ।।
येनात्मतुल्यः संजातः पूजासंमाननादिषु ।। ११ ।।
तपःप्रभावात्तस्यासीत्स्थली वृन्दावनोपमा ।।
सरस्तडागसरसी नदीभिः शोभितांतरा ।। १२ ।।
नानाद्रुमैर्लताभिश्च सर्वर्तुफलपुष्पकैः ।।
मधुमत्तद्विरेफाणां झंकारैर्मुखराशया ।। १३ ।
नानापक्षिगणाकीर्णा सर्वजंतुसुखाश्रया ।।
कपोतसदृशो जातो यतः स तपसा शिवः ।। १४ ।।
मुरारेराज्ञया सोऽत्र कपोतेश्वरतां गतः ।।
तदाज्ञयाऽत्र वसति मृडान्या त्र्यंबकः सदा ।। १५ ।।
येऽर्चयन्ति कपोतेशं स्तुवन्ति प्रणमंति वा ।।
निर्धूतकल्मषास्ते वै प्रयांति पुरुषोत्तमम् ।। १६ ।।
अतः परं प्रवक्ष्यामि बिल्वेशमहिमां द्विजाः ।।
पातालवासिनः पूर्वं दैत्या भित्त्वा महीतलम् ।। १७ ।।
उपद्रवंति भूर्लोकं भक्षयन्ति जनांस्तथा ।।
भारावतरणार्थाय देवकीगर्भसंभवः ।। १८ ।।
पालयामास पृथिवीं यदा स भगवान्प्रभुः ।।
यादवैः पांडवैः सार्द्धं तदा तत्स्थानमागतः ।। १९ ।।
तीर्थराजस्य सलिले स्नात्वा तं नीलमाधवम् ।।
दूरात्प्रणम्य मनसा दैत्यद्वारमुपागतः ।। 2.2.13.२० ।।
दृष्ट्वा तद्विवरं घोरमप्रवेश्यं तु मानवैः ।।
भ्रांत्या संमोहयँल्लोकान्प्रथयञ्छिवपूज्यताम् ।। २१ ।।
बैल्वं फलं समादाय तत्रावाह्य त्रिलोचनम् ।।
पूजयित्वा पुरारातिं तुष्टावासुरसूदनः ।। २२ ।।
।।श्री भगवानुवाच ।। ।।
नमस्ते त्रिगुणातीत गुणत्रयविभागकृत् ।।
त्रयीमय त्रयातीत त्रिकालज्ञानिने नमः ।। ।। २३ ।।
शशिसूर्याग्निनेत्राय ब्रह्मण्याय वरात्मने ।।
अष्टैश्वर्यनिधानाय तुभ्यमष्टात्मने नमः ।। २४ ।।
यस्य रूपं तमःपारे तमोनाशनमव्ययम् ।।
अज्ञानानां तमश्छिन्नं तस्मै वितमसे नमः ।। २५ ।।
एवं स्वमात्मनात्मानं स्तुत्वा स भगवान्प्रभुः ।।
तस्य प्रसादाद्विवरं सुप्रवेशमपश्यत ।। २६ ।।
तेन मार्गेण पातालं ससैन्योऽभ्यगमत्प्रभुः ।।
हत्वा तत्र बलोदग्रान्दैत्यान्भारावतारणः ।। २७ ।।
पुनरागम्य तत्रैव स्थित्वा स वृषभध्वजम् ।।
संपूज्य भगवान्द्वाररोधाय स्थापयञ्छिवम् ।। २८ ।।
इदमाह महाबुद्धिर्भक्तिवश्यो गदाधरः ।।
धूर्जटे तिष्ठ प्रासादे रुन्धानोऽसुर निर्गमम् ।। २९ ।।
त्वदन्यः कः क्षमः शंभो कर्बूरबलनाशने ।।
स्थापयित्वा महादेवं ततो द्वारावतीं ययौ ।। 2.2.13.३० ।।
ततःप्रभृति बिल्वेशः पृथिव्यां ख्यातिमागतः ।।
पूर्वविधिः स बिल्वेशः क्षेत्रराजस्य भो द्विजाः ।। ३१ ।।
तं दृष्ट्वा पापहंतारं मृड्रानीपतिमव्ययम् ।।
सर्वान्कामानवाप्नोति विपत्तिं दुस्तरां जयेत् ।। ३२ ।।
कपोतबिल्वेश्वरयोर्माहात्म्यं कथितं तु वः ।।
अतः परं भो मुनयः किमन्यच्छ्रोतुमिच्छथ ।। ३३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे त्रयोदशोऽध्यायः ।। १३ ।।