स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ३७
॥ श्रीप्रह्लाद उवाच ॥ ॥
कृष्णकृष्णेति कृष्णेति श्वपचो जागरन्निशि ॥
जपेदपि कलौ नित्यं कृष्णरूपी भवेद्धि सः ॥ १ ॥
कृष्णकृष्णेति कृष्णेति कलौ वदत्यहर्निशम् ॥
नित्यं यज्ञायुतं पुण्यं तीर्थकोटिसमुद्भवम् ॥ २ ॥
संपूर्णैकादशी भूत्वा द्वादश्यां वर्द्धते यदि ॥
उन्मीलिनीति विख्याता तिथीनामुत्तमा तिथिः ॥३॥
वंजुलीवासरे ये वै रात्रौ कुर्वंति जागरम्॥
यज्ञायुतायुतं पुण्यं मुहूर्तार्द्धेन जायते॥४॥
संपूर्णा द्वादशी भूत्वा वर्द्धते चापरे दिने ॥
त्रयोदश्यां मुनिश्रेष्ठा वंजुली दुर्ल्लभा कलौ ॥ ५ ॥
उन्मीलिनीमनुप्राप्य ये प्रकुर्वंति जागरम् ॥
निमिषार्द्धेन तत्पुण्यं गवां कोटिफलप्रदम् ॥ ६॥
संपूर्णैकादशी भूत्वा प्रत्यऽहं वर्द्धते यदि ॥
दर्शश्च पौर्णमासी च पक्षवृद्धिस्तथोच्यते ॥७॥
पक्षवृद्धिकरीं प्राप्य ये प्रकुर्वंति जागरम् ॥
निमिषार्द्धार्द्धमात्रेण गवां कोटिफलप्रदम् ॥ ८ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
चक्रतीर्थे नरः स्नात्वा मुच्यते सर्व किल्बिषैः ॥
स याति परमं स्थानं दाहप्रलयवर्जितम् ॥ ९ ॥
चक्रं प्रक्षालितं यत्र कृष्णेन स्वयमेव हि ॥
तेन वै चक्रतीर्थं हि पुण्यं च परमं हरेः ॥
भवंति तत्र पाषाणाश्चक्रांका मुक्तिदायकाः ॥ 7.4.37.१० ॥
तत्रैव यदि लभ्यंते चक्रैर्द्वादशभिः सह ॥
द्वादशात्मा स विज्ञेयो मोक्षदः परिकीर्तितः ॥ ॥ ११ ॥
एकचक्रेण पाषाणो द्वारवत्यां सुशोभनः ॥
सुदर्शनाभिधेयोसौ मोक्षैकफलदायकः ॥१२॥
लक्ष्मीनारायणौ द्वौ तौ भुक्तिमुक्तिफलप्रदौ ॥
त्रिभिश्चैवाच्युतं देवं सदेन्द्रपददायकम् ॥ १३ ॥
भूतिदो विघ्नहंता च चतुश्चक्रो जनार्द्दनः ॥
पञ्चभिर्वासुदेवस्तु जन्ममृत्युभयापहः ॥ १४ ॥
प्रद्युम्नः षड्भिरेवासौ लक्ष्मीं कांतिं ददाति च ॥
सप्तभिर्बलदेवस्तु गोत्रकीर्तिविवर्द्धनः ॥ १५ ॥
वांछितं चाष्टभिर्भक्त्या ददाति पुरुषोत्तमः ॥
सर्वं दद्यान्नवव्यूहो दुर्ल्लभो यः सुरोत्तमैः ॥ १६ ॥
राज्यप्रदो दशभिस्तु दशावतार एव च ॥
एकादशभिरैश्वर्य्यमनिरुद्धः प्रयच्छति ॥ १७ ॥
निर्वाणं द्वादशात्मा तु चक्रैर्द्वादशभिः स्मृतम् ॥
अत ऊर्ध्वमनंतोऽसौ सौख्यमोक्षप्रदायकः ॥ १८ ॥
ये केचित्तत्र पाषाणाः कृष्णचक्रेण मुद्रिताः॥
तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषैः ॥ १९ ॥
ब्रह्महत्यादिकं पापं मनोवाक्कायकर्मजम् ॥
तत्सर्वं विलयं याति चक्रांकितप्रपूजनात् ॥7.4.37.२०॥
म्लेच्छदेशे शुभे वाऽपि चक्रांको यत्र तिष्ठति ॥
योजनानि दश द्वे च मम क्षेत्रं च सुन्दरि ॥ २१ ॥
मृत्युकाले च संप्राप्ते हृदये यस्तु धारयेत् ॥
चक्राकं पापदलनं स याति परमां गतिम् ॥ २२ ॥
गोमतीसंगमे स्नात्वा भृगुतीर्थे तथैव च ॥
न मातुर्वसते कुक्षौ यद्यपि स्यात्स पातकी ॥ ॥ २३ ॥
तामसं राजसं वापि यत्कृतं विष्णुपूजनम् ॥
तत्सात्त्विकत्वमभ्येति निम्नगांभो यथार्णवे ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकाक्षेत्रस्थसुदर्शनप्रमुखानन्तान्तचक्रचिह्नांकित पाषाणमाहात्म्यवर्णनपूर्वकतत्पूजनफलादिकथनंनाम सप्तत्रिंशत्तमोऽध्यायः ॥३७॥ ।