स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ३४
॥ श्रीप्रह्लाद उवाच ॥ ॥
एवमद्भुतमाहात्म्यं द्वारकायां मुनीश्वराः ॥
सर्वेषां क्षेत्रतीर्थानां महापापविदारक्म्॥१॥
वर्णानामश्रमाणां च पतितानां विशेषतः।
महापापहरं प्रोक्तं महापुण्यविवर्द्धनं॥२॥
अत्युग्रपापराशीनां दाहस्थानं यथा स्मृतम् ॥
द्वारकागमनं विप्राः किं पुनर्द्वारकास्थितिः ॥ ३ ॥
विशेषेण तु विप्रेन्द्राः कन्याराशिस्थिते गुरौ ॥
ब्रह्मादयोपि दृश्यंते यत्र तीर्थैश्च संयुताः ॥ ४ ॥
प्रतिवर्षं प्रकुर्वंति द्वारकागमनं नराः ॥
तेषां पादरजः स्पृष्ट्वा दिवं यांति च पापिनः ॥ ५॥
गोमती नीरपूतानां कृष्णवक्त्रावलोकिनाम् ॥
दर्शनात्पातकं तेषां याति जन्मशतार्जितम् ॥ ६ ॥
इतिहासेन पूर्वोक्तं श्रूयतां मुनिपुङ्गवाः ॥
दिलीपवसिष्ठ संवादे परमाश्चर्य्यवर्द्धनम् ॥ ७ ॥
काश्यां तु वज्रलेपो हि क्षेत्र एकत्र नश्यति ॥
यातुर्दर्शनतः श्रुत्वा दिलीपो वाक्यमब्रवीत् ॥ ८ ॥
॥ दिलीप उवाच ॥ ॥
वज्रलेपश्च काश्यां तु घोरो यत्र विनश्यति ॥
कृत्स्नशोऽथ महापुण्यं प्राप्यं यत्र तदस्ति किम् ॥ ९ ॥
न प्ररोहंति पापानि यस्मिन्क्षेत्रे द्विजोत्तम ॥
तत्क्षेत्रं कथ्यतां पुण्यं यत्र पापं प्रणश्यति ॥7.4.34.१०॥
॥ वसिष्ठ उवाच ॥ ॥
आसीत्काश्यां पुरा कश्चित्त्रिदण्डी मोक्षधर्मवित् ॥
जपन्दशाश्वेमेधे तु गायत्रीं च समाहितः॥ ११ ॥
तत्र काचित्समायाता युवती गजगामिनी ॥
तीरे संस्थाप्य वासांसि गंगायाः श्रमशान्तये ॥
प्रविष्टा च जले नग्ना जलक्रीडां चकार ह ॥ १२ ॥
नग्नां तां क्रीडतीं वीक्ष्य यतिर्मदनपूरितः ॥
दैवाग्निभ्रंशितो मार्गात्सहसा च विमोहितः ॥ १३ ॥
मनसा कामयामास साऽपि तं तरुणं यतिम् ॥
तयोश्च संगतिस्तत्र संजाता पापकर्मणोः ॥ १४ ॥
तया विमोहितः सद्यस्तामेवानुससार सः ॥
तत्प्रीत्यै चार्जयामास धनमन्यायतस्तदा ॥ १५ ॥
वाराणस्यां हि न त्यक्तश्चंडालस्य प्रतिग्रहः ॥
स्नानहीनः सदा पापी रात्रौ चौर्य्येण वर्त्तते ॥१६॥
कस्मिंश्चित्समये पापी मांसार्थी तु वनं गतः ॥
ददर्श प्रमदां तत्र मातंगीं मदिरेक्षणाम् ॥ १७ ॥
तस्याः प्रथमतारुण्यं दृष्ट्वा गर्वेण पाप्मना ॥
वनेऽथ निर्जने तत्र मातंगीसंगमेयिवान् ॥ १८ ॥
तया सहान्नपानादि कृतवान्पापमोहितः ॥
अश्नाति सुरया पंकं गोमांसं पापलंपटः ॥ १९ ॥
तद्गृहे निधनं प्राप्तः पापात्मा सर्वभक्षकः ॥
वाराणसीप्रभावेन न प्राप्तो नरकं तदा ॥ 7.4.34.२० ॥
किं तु तत्र कृतं पापं वज्रलेपं सुदारुणम् ॥
शूद्रीसंपर्क पापेन जातोऽसौ क्रूरयोनिषु ॥ २१ ॥
वृको व्याघ्रोरगः श्वानः शृगालः सूकरोऽभवत् ॥
दुरंतां यातनां प्राप्तः शमलेशं न विन्दति ॥ २२ ॥
एवं जन्मसहस्रैस्तु न तस्य पापकर्मणः ॥
मातंग्या संगजं पापं व्यनश्यत युगायुतैः ॥ २३ ।
ततोऽसौ सप्तमे जातः शशकश्चैव जन्मनि ॥
ततोऽसौ राक्षसो जातः पापात्मा सर्वभक्षकः ॥ २४ ॥
प्राणिनो भक्षयन्सर्वान्संप्राप्तो विंध्यपर्वते ॥
अस्मादनन्तरं भाव्यं कृकलासत्वमद्भुतम्॥ ॥ २५ ॥
शूद्रीसंगजपापेन भाव्यं च कृमियोनिना ॥
मातंगीसंगमे प्रोक्तं फलं ह्यतिजुगुप्सितम् ॥ २६ ॥
युगायुतं सहस्रैस्तु भोक्ष्यमाणं सुदारुणम् ॥
अत्याश्चर्य्यमभूत्तत्र दिलीप श्रूयतां महत् ॥ २७ ॥
आलोकितं च विंध्याद्रौ सर्वेषां विस्मयास्पदम् ॥
दृष्ट्वा द्वारावतीं कश्चित्कृष्णवक्त्रं सुशोभनम् ॥ २८ ॥
गोमतीनीरपूतस्तु विंध्यं प्राप्तः स पांथिकः ॥
मात्रां कृष्णप्रसादस्य स्कन्धे कृत्वा प्रहर्षितः ॥ २९ ॥
प्रयास्यन्स्वगृहं तत्र ददर्श पथि राक्षसम् ॥
द्रुतं च क्रूरकर्माणं दृष्ट्वा भक्षितुमागतम् ॥ 7.4.34.३० ॥
तस्य दर्शनमात्रेण वज्रलेपः सुदारुणः ॥
वाराणसीसमुद्भूतो भस्मसादभवत्क्षणात् ॥ ३१ ॥
जन्मकोटिशतेनापि यो न शक्यो व्यपोहितुम् ॥
तत्पापपर्वतान्मुक्तः कृष्णपांथिकदर्शनात् ॥ ३२ ॥
दग्धेऽथ क्रूरभावे तु घनमुक्तो यथा शशी ॥
रेजे पुण्यप्रकाशेन कृष्णपांथिकदर्शनात् ॥ ३३ ॥
ततोऽभिमुखमभ्येत्य द्वारकापथिकं मुदा ॥
ननाम श्रद्धया भूमौ तद्दर्शनमहोत्सवः ॥ ३४ ॥
नत्वाऽथ विस्मितः प्राह अहोऽद्य तव दर्शनात् ॥
गतो घोरतमो भावः प्राप्ता संसिद्धिरुत्तमा ॥ ३५ ॥
कस्मात्त्वमागतो भद्र प्रभावः कीदृशस्तव ॥
वज्रलेपस्तु काश्यां वै दग्धस्ते दर्शनादनु ॥ ३६ ॥
॥ वसिष्ठ उवाच ॥ ॥
इत्येवं राक्षसेनोक्तं श्रुत्वा कृष्णस्य पांथिकः ॥
विस्मयं परमापन्नः प्राह तं हर्षमानसः ॥ ३७ ॥
॥ पांथिक उवाच ॥ ॥।
श्रीमद्द्वारवतीं दृष्ट्वा ह्यागतोऽस्म्यत्र राक्षस ॥
वज्रलेपहरोऽस्माकं प्रभावः कृष्णदर्शनात्॥ ३८ ॥
गोमत्यां यः सकृत्स्नात्वा पश्येत्कृष्णमुखांबुजम् ॥।
सर्वानुद्धरते पापादपि त्रैलाक्यदाहकात् ॥ ३९ ॥
॥ वसिष्ठ उवाच ॥ ॥
इत्युक्तो राक्षसो हृष्टः शुद्धात्मा भक्तिसंयुतः ॥
नत्वा प्रदक्षिणं कृत्वा संप्राप्तो द्वारकां तदा ॥ 7.4.34.४० ॥
गोमत्यां स तनुं त्यक्त्वा प्राप्तोऽसौ वैष्णवं पदम् ॥
स्तूयमानः सुरेशानैर्गधर्वैः पुष्पवृष्टिभिः ॥ ४१ ॥
इत्थं महाप्रभावो हि द्वारकायाः प्रकीर्त्तितः ॥
न प्ररोहंति पापानि यस्याः पांथिकदर्शनात् ॥
द्वारकायां तु किं वाच्यं न प्ररोहंति पातकम् ॥ ४२ ॥
इत्येतत्कथितं राजन्यत्पृष्टोहं त्वयाऽनघ ॥
सर्वक्षेत्रोत्तमं क्षेत्रं वज्रलेपविनाशनम् ॥ ४३ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
वसिष्ठेनोदितं श्रुत्वा दिलीपो हृष्ट मानसः ॥
द्वारकां क्षेत्रराजं तं ज्ञात्वा च विस्मयं ययौ ॥ ४४ ॥
ययौ द्वारवतीं हृष्टो देवदेवस्य सादरम् ॥
कृष्णं दृष्ट्वा परां सिद्धिं संप्राप्तो देवमंदिरे ॥ ४५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकापान्थदर्शन मात्रतः काश्यां कृतस्य पापवज्रलेपस्य विनाशने यतिवृत्तान्तवर्णनपूर्वकं दिलीपकृतद्वारकायात्रावर्णनंनाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४ ॥ ॥