स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ३२
॥ प्रह्लाद उवाच ॥
नारदस्त्वग्रतो गत्वा प्रणम्याथ हरिप्रियाम् ॥
उवाच ललितां वाचं हर्षयन्द्वारकां पुरीम् ॥ १ ॥
॥ श्रीनारद उवाच ॥ ॥
पश्यपश्य महाभागे सर्वे प्राप्ताः सुशोभने ॥
तीर्थक्षेत्राणि देवाश्च ऋषयश्चैव कृत्स्नशः ॥ २ ॥
पश्येमं पुरतः प्राप्तं प्रयागं तीर्थकैः सह ॥
द्वारके तव पादाब्जे लुण्ठंते श्रद्धयाद्भुतम् ॥ ३ ॥
इदं तु पुष्करं तीर्थं नमति श्रद्धया शुभे ॥
इयं तु गौतमी पुण्या सर्वतीर्थसमाश्रया ॥ ४ ॥
सिंहस्थे च गुरौ भद्रे संप्राप्ता सौभगं महत् ॥
किन्तु दुर्जनसंसर्गाद्दग्धा पापाग्निना भृशम् ॥ ५ ॥
तत्रोपायमभिज्ञाय ऋषीणां शृण्वतां तदा ॥
श्रुत्वा कर्णे महच्छब्दं संप्राप्तेयं तवांतिकम् ॥ ६ ॥
नमस्करोति देवि त्वां द्वारके गौतमी शुभा ॥
पश्यपश्य महापुण्या इयं भागीरथी शुभा ॥ ७ ॥
नमस्करोति ते पादौ संहृष्टा च पुनःपुनः ॥
पश्येमां नर्मदां रम्यां प्रणतां तव पादयोः ॥ ८ ॥
यमुना चन्द्रभागेयमियं प्राचीसरस्वती ॥
सरयूर्गंडकी प्राप्ता गोमती पूर्ववाहिनी ॥ ॥ ९ ॥
शोणः सिन्धुनदी चैता अन्याश्च सरितां वराः ॥
कृष्णा भीमरथी पुण्या कावेर्य्याद्याः सरिद्वराः ॥ 7.4.32.१० ॥
सीताचक्षुर्नदी भद्रा नमंत्येताः पदांबुजम् ॥
द्वारके ता महापुण्याः सप्तद्वीपोद्भवाः पराः॥११॥
मन्दाकिनी महापुण्या भोगवत्यादिसंयुता॥
पश्याश्चर्यमिदं भद्रे वाराणसी विमुक्तिदा ॥१२॥
भक्त्या ते च पदांभोजं शिरस्याधाय वर्तते ॥
कुरुक्षेत्रं महापुण्यं नमति त्वामहर्निशम् ॥१३॥
द्वारके मथुरां पश्य प्रणतां तव पादयोः ॥
अयोध्याऽवंतिकामायास्ता नमंति पदांबुजम्॥ १४ ॥
कांची गया विशाला च विरजा लुठति क्षितौ ॥
शालिग्रामं महाक्षेत्रं पतितं तव पादयोः॥
विराजते प्रभासं च क्षेत्रं च पुरुषोत्तमम् ॥ १५ ॥
भार्गवादीनि चान्यानि सर्वक्षेत्राणि सुन्दरि ॥
द्वारके प्रणमंति त्वां भक्त्योत्थाय पुनःपुनः ॥ ॥ १६ ॥
पश्येमान्सागरान्सप्त पतितस्तांब पादयोः ॥
पश्यारण्यानि सर्वाणि नैमिषं प्रणतं पुरः ॥ १७ ॥
धनुष्कं च दशारण्यं दंडकारण्यमर्बुदम्॥
नारायणाश्रमं पश्य द्वारके प्रणतं तथा ॥ १८ ॥
अयं मेरुश्च कैलासो मन्दराद्याः सहस्रशः ॥
हिमाद्रिर्विंध्यशैलश्च श्रीशैलाद्याः प्रहर्षिताः ॥
एते ह्यृषिगणाः सर्वे नमंतिस्म पुनःपुनः ॥ १९ ॥
गंगाद्याः सागराः शैला नृत्यंति पुरतस्तव ॥
ऋषिदेवगणाः सर्वे सर्वे गर्जंति नामभिः ॥ 7.4.32.२० ॥ ॥
॥ श्रीप्रह्लाद उवाच ॥ ॥
इत्येवं वदतस्तस्य द्वारका हृष्टमानसा ॥
नृत्यतो मुदितान्वीक्ष्य सर्वान्प्रेम्णाभिनंद्य च ॥
उवाच ललिता वाचं गौतमीं स्पृश्य पाणिना ॥ २१ ॥
भागीरथीप्रयागादीन्क्षेत्रादीनथ सर्वशः ॥
द्वारका मधुरालापैः सर्वानानंदयत्तदा ॥ २२ ॥
अथाश्चर्यमभूत्तत्र सर्वानंदविवर्द्धनम् ॥
अथ तावत्तदाऽऽकाशे गीतवाद्यजयस्वनाः ॥ २३ ॥
गर्जनानि सुपुण्यानि हरिशब्दैः पृथक्पृथक् ॥
अपश्यन्वै तदा सर्वे ब्रह्माद्या देवनायकाः ॥ २४ ॥
महेशः स्वगणैः सार्द्धं भवान्या समदृश्यत ॥
इन्द्रस्तु त्रिदशैः सार्द्धं यक्षगन्धर्वकिन्नरैः ॥ २५ ॥
मरुद्भिर्लोकपालैश्चा नृत्यमानाः प्रहर्षिताः ॥
सिद्धविद्याधराः सर्वे वस्वादित्याश्च सग्रहाः ॥ २६ ॥
भृग्वाद्याः सनकाद्याश्च नृत्यमानाः प्रहर्षिताः ॥
ब्रह्माणं च नमस्कृत्य सप्तस्वर्गस्थिताः सुराः ॥ २७ ॥
ऊचुस्ते द्वारकां दृष्ट्वा ब्रह्मेशानादयस्तदा ॥
हर्षविह्वलितात्मानो वीक्ष्याऽन्योन्यं च विस्मिताः ॥ २८ ॥ ॥
॥ देवा ऊचुः ॥ ॥
सेयं वै द्वारका देवी वहते यत्र गोमती ॥
यत्राऽऽस्ते भगवान्कृष्णः सेयं पुण्या विराजते ॥ २९ ॥
सर्वक्षेत्रोत्तमा या च सर्वतीर्थोत्तमोत्तमा ॥
स्वर्गादप्यधिका भूमौ द्वारकेयं प्रकाशते ॥ 7.4.32.३० ॥
एतद्वै चक्रतीर्थं च यच्छिला चक्र चिह्निता ॥
मुक्तिदा पापिनां लोके म्लेच्छदेशेऽपि पूजिता ॥ ३१ ॥
॥ प्रह्लाद उवाच ॥ ॥
ब्रह्मादीनागतान्दृष्ट्वा विस्मिता नारदादयः ॥
क्षेत्राणि तीर्थमुख्यानि विस्मितानि सरिद्वराः ॥
प्रणेमुर्युगपत्सर्वे सर्वाः सर्वाणि सर्वशः ॥ ३२ ॥
ब्रह्मादीनां च तीर्थानां दृष्ट्वा यात्रां मनोहराम् ॥
द्वारकां प्रति विप्रेन्द्रा विस्मिता द्वारकौकसः ॥ ३३ ॥
दृष्ट्वा देवगणाः सर्वे द्वारकां प्रति मंदिरे ॥
गीतवाद्यादि निर्घोषैर्नृत्यमानाः प्रहर्षिताः ॥ ३४ ॥
वदन्तो जयशब्दांश्च सेयं कृष्णप्रियेति च ॥
दृष्ट्वा ब्रह्ममहेशानौ द्वारकां प्रीतमानसौ ॥ ३५ ॥
त्यक्त्वा च वाहने श्रेष्ठे दण्डवत्पतितौ भुवि ॥
ऊचतुश्च तदा देवौ द्वारकां प्रति हर्षितौ ॥ ३६ ॥
श्रेष्ठा त्वमम्ब सर्वेभ्योऽस्मदादिभ्योऽपि सर्वतः ॥
यतस्त्वां न त्यजेत्साक्षाद्भगवान्विष्णुरव्ययः ॥ ३७ ॥
अतो दर्शय देवेशं कृष्णं कंसविनाशनम् ॥
यद्दर्शनान्महासिद्धिः सर्वेषां च भविष्यति ॥ ३८ ॥ ॥
॥ प्रह्लाद उवाच ॥ ॥
इत्युक्त्वा प्रययौ देवी तीर्थक्षेत्रादिसंयुता ॥
ब्रह्मेशानौ पुरस्कृत्य हृष्टौ दृष्ट्वा महोत्सवान् ॥ ३९ ॥
गीतवाद्यपताकैश्च दिव्योपायनपाणिभिः ॥
प्राप्योवाच ततो देवान्द्वारका हर्षविह्वला ॥ 7.4.32.४० ॥
पश्यतां पश्यतां देवाः सोऽयं वै द्वारकेश्वरः ॥
प्राप्य संदर्शनं यस्य मुक्तानां यत्फलं भवेत् ॥
न विद्यते सहस्रेषु ब्रह्मांडेषु च यत्फलम् ॥ ४१ ॥
ततो देवगणाः सर्वे क्षेत्रतीर्थादिसंयुताः ॥
पश्चिमाभिमुखं दृष्ट्वा कृष्णं क्लेशविनाशनम् ॥
प्रणेमुर्युगपत्सर्वे प्रहृष्टाः समुपागताः ॥ ४२ ॥
गीतवाद्यप्रघोषैश्च नृत्यमानाः समंततः ॥
जयशब्दं नमःशब्दं गर्जंतो हरिनामभिः ॥ ४३ ॥
ब्रह्मा भवो भवानी च सेन्द्रा देवगणा भुवि ॥
दृष्ट्वा कृष्णं प्रणेमुस्ते भक्त्योत्थाय पुनःपुनः॥ ४४ ॥
प्रयागादीनि तीर्थानि गंगाद्याः सरितोऽमलाः ॥
ऋषयो देवगंधर्वाः शुकाद्याः सनकादयः ॥
वीक्ष्य वक्त्रं महाविष्णोः प्रणेमुश्च मुहुर्मुहुः ॥ ४५ ॥
कृष्णकृष्णेति कृष्णेति जय कृष्णेति वादिनः ॥
स्नात्वा तु गोमतीनीरे तीरे चैव महोदधेः ॥
कमलासनः संहृष्टः श्रीमत्कृष्णमपूजयत् ॥ ४६ ॥
स्वर्धेनुपयसा स्नाप्य दिव्यैश्चा मृतपंचकैः ॥
भवश्चाथ भवानी च पूजयामास भक्तितः ॥ ४७ ॥
इन्द्रो देवगणाः सर्वे योगिनः सनकादयः ॥
ऋषयो नारदाद्याश्च गंगाद्याश्च सरिद्वराः ॥ ४८ ॥
अमूल्याभरणैर्भक्त्या महारत्नविनिर्मितैः ॥
दिव्यैर्माल्यैरनेकैश्च नन्दनादिसमुद्भवैः ॥ ४९ ॥
प्रियया श्रीतुलस्या वै श्रीमत्कृष्णमपूजयन् ॥
धूपैर्नीराजनैर्दिव्यैः कर्पूरैश्च पृथक्पृथक् ॥ 7.4.32.५० ॥
नैवेद्यैर्विविधैः पुष्पैर्दिव्यैः कर्पूरवासितैः ॥
सकर्पूरैश्च तांबूलैः प्रियैश्चोपायनैस्तथा ॥५१
महामांगलिकैः सर्वैः सुदिव्यैर्मंगलाऽऽर्तिकैः ॥
संपूज्यैवं महाविष्णुं कृष्णं क्लेशविनाशनम् ॥
प्रहृष्टा ननृतुः सर्वे गीतवाद्यप्रहर्षिताः ॥५२ ॥
पुरतः कृष्णदेवस्य ह्यप्सरोभिः समन्विताः ॥
ब्रह्मा च ब्रह्मपुत्राश्च ततः सेन्द्रा मरुद्गणाः ॥ ५३ ॥
ब्रह्मादीन्नृत्यतः प्रेक्ष्य भगवान्कमलेक्षणः ॥
वारयामास हस्तेन प्रीतः प्राह सुरान्विभुः॥ ५४ ॥
॥ श्रीभगवानुवाच ॥ ॥
भोभो ब्रह्मन्महेशान हे भवानि महेश्वरि ॥
क्षेत्राणि सर्वतीर्थानि नारदः सनकादयः ॥
प्रीतोऽहं भवता सम्यक्सर्वान्कामानवाप्स्यथ ॥ ५५ ॥
॥ प्रह्लाद उवाच ॥ ॥
तदाभिलषिताँल्लब्ध्वा स र्वान्कामवरानथ ॥
भक्त्या परमया श्रीमत्कृष्णं प्रोचुः प्रहर्षिताः ॥ ५६ ॥
॥ देवा ऊचुः ॥ ॥
प्राप्तः कामवरोऽस्माभिः सर्वतः कृपया विभो ॥
सप्रेमा त्वत्पदांभोजे भक्तिर्भव्याऽनपायिनी ॥ ५७ ॥
॥ प्रह्लाद उवाच ॥ ॥
तथैव पूजयामासू रुक्मिणीं कृष्णवल्लभाम् ॥
अथ ब्रह्ममहेशानौ सर्वेषां शृण्व तामिदम् ॥ ५८ ॥
श्रद्धया परया युक्तौ द्वारकां प्रत्यवोचतुः ॥
त्वं देवि सर्वतीर्थानां क्षेत्राणामुत्तमोत्तमा ॥ ५९ ॥
पर्वतानां यथा मेरुः सिन्धूनां सागरो यथा ॥
प्राणो यथा शरीराणामिन्द्रियाणां तु वै मनः ॥ 7.4.32.६० ॥
तेजस्विनां यथा वह्निस्तत्त्वानां चैत्त्य ईज्यते ॥
यथा ग्रहर्क्षताराणां सोमो वै ज्योतिषां धुवम् ॥
एषां प्रकाशपुंजानां यथा सूर्य्यः प्रकाशते ॥ ६१ ॥
यथा नः सर्वदेवानां महाविष्णुरयं महान् ॥
तथैव सर्वतीर्थानां पूज्येयं द्वारका शुभा ॥ ६२ ॥
॥ प्रह्लाद उवाच ॥ ॥
इत्युक्त्वा सर्वदेवानां क्षेत्रादीनां च सत्तमाः ॥
आधिपत्ये सुरेशानौ द्वारकामभिषेचतुः ॥ ६३ ॥
ब्रह्मेशानौ तथा देवाः प्रजेशा ऋषयोऽमलाः ॥
तीर्थानां क्षेत्रराजानां महाराजत्वकारणम्॥६४॥
चक्रुर्महाभिषेकं तु द्वारकायाः प्रहर्षिताः॥
वादयन्तो विचित्राणि वादित्राणि महोत्सवे ॥ ६५ ॥
दिव्यैः पञ्चामृतैस्तोयैः सर्वतीर्थसमुद्भवैः ॥
पुण्यैश्चाकाशगंगाया दिग्गजानां करोद्धृतैः ॥ ६६ ॥
अथ वासांसि दिव्यानि दत्त्वा चाऽऽचमनं तथा ॥
चर्चितां चन्दनैर्दिव्यैर्दिव्याभरणभूषिताम् ॥ ६७ ॥
पूजां च चक्रिरे पुष्पैश्चंदनादिसमुद्भवैः ॥
तदा जाता महादिव्या पुरुषाः पार्षदा हरेः ॥ ६८ ॥
विष्वक्सेनसुनंदाद्या द्योतयन्तो दिशो दश ॥
जयशब्दं नमःशब्दं वदंतः पुष्पवर्षिणः ॥ ६९ ॥
गीतवादित्रघोषेण नृत्यमानाः प्रहर्षिताः ॥
किरीटकुण्डलैर्हारैर्वैजयंत्या विभूषिताः ॥ 7.4.32.७० ॥
श्यामाश्चतुर्भुजाः पीतवस्त्रमाल्यैर्विभूषिताः ॥
स्वप्रभा दीप्यमानौ ते दृष्ट्वा ब्रह्ममहेश्वरौ ॥ ७१ ॥
नारदं सनकादींश्च महाभागवतानृषीन् ॥
तेऽपि तानपि संहृष्टाः प्रहर्षागतसंभ्रमाः ॥७२॥
ववंदिरे ततो ऽन्योऽन्यं हृष्टा आलिंगनादिभिः ॥
ऋषयोऽन्ये च देवाश्च प्रणेमुर्विष्णुपार्षदान् ॥ ७३ ॥
अथ ते समुपागम्य द्वारकां विष्णुपार्षदाः ॥
नत्वाऽथ द्वारकानाथं द्वारकां वै तथैव च ॥ ७४ ॥
संपूज्य श्रद्धया भक्त्या निःश्रेयसवनोद्भवैः ॥
कुसुमैर्विविधैर्दिव्यैस्तुलस्या तद्वनोत्थया ॥ ७५ ॥
तदुत्पन्नैः फलैर्दिव्यैर्धूपैर्नीराजनैः प्रभुम् ॥
विविधैश्चान्नतांबूलैर्दत्त्वा कृष्णमतोषयन् ॥ ७६ ॥
क्षेत्रतीर्थादिराजानां महाराजस्त्वमीश्वरि ॥
इति सर्वे वदन्तस्तु द्वारकां च ववंदिरे ॥ ७७ ॥
एतस्मिन्नंतरे विप्रा देवदुन्दुभिनिस्वनाः ॥
अश्रूयंत महाशब्दा अभवन्पुष्पवृष्टयः ॥७८॥
अथाऽऽसीन्महदाश्चर्य्यं शृण्वन्तु ऋषिसत्तमाः ॥
कुरुक्षेत्रं प्रयागं च सव्यदक्षिणपार्श्वयोः ॥ ७९ ॥
स्थित्वा जगृहतुर्द्दिव्ये श्वेतच्छत्रे मनोहरे ॥
द्वारकायस्तथा शुभ्रे चामरव्यजने शुभे ॥ 7.4.32.८० ॥
अयोध्या मथुरा माया वाराणसी जयस्वनैः ॥
स्तुवंत्यन्यास्तथान्यानि सर्वक्षेत्राणि सर्वशः ॥ ८१ ॥
तीर्थानि सरितः सर्वा द्वारकाया मुखांबुजम् ॥
पश्यतः परमानंदं लेभिरे देवमानवाः ॥ ८२ ॥
आहुश्च पार्षदा विष्णोर्धन्यान्येतानि सर्वशः ॥
दृष्ट्वा तु द्वारकां पुण्यां सर्वलोकैकमण्डनाम् ॥ ८३ ॥
वेदयज्ञतपोजाप्यैः सम्यगाराधितो हरिः ॥
प्रसीदेद्यस्य तस्य स्याद्द्वारकागमने मतिः ॥ ८४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये विष्णुपार्षदवर्णितद्वारकामाहात्म्यवर्णनंनाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥