स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ३७

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
नागह्रदं ततो गच्छेत्तीर्थं पापप्रणाशनम् ॥
यत्र नागैस्तपस्तप्तं रम्ये पर्वतरोधसि ॥ १ ॥
कद्रूशापं पुरा श्रुत्वा नागाः सर्वे भयातुराः ॥
पप्रच्छुर्नागराजानं शेषं प्रणतकन्धराः ॥ २ ॥
मातृशापेन संतप्ता वयं पन्नगसत्तम ॥
किं कुर्मः क्व च गच्छामः शापमोक्षो भवेत्कथम्॥ ३ ॥
॥ शेष उवाच ॥ ॥
प्रसादिता मया माता शापमुक्तिकृते पुरा ॥
तयोक्तं ये तपोयुक्ता धर्मात्मानः सुसंयताः ॥ ४ ॥
न दहिष्यति तान्वह्निर्यज्ञे पारिक्षितस्य हि ॥
तस्माद्गत्वार्बुदंनाम पर्वतं धरणीतले ॥ ५ ॥
तत्र यूयं तपोयुक्ता भवध्वं सुसमाहिताः ॥
यत्रास्ते सा स्वयं देवी चंडिका कामरूपिणी ॥ ६ ॥
यस्याः संकीर्त्तनेनापि नश्यंति विपदो ध्रुवम् ॥
आराधयध्वमनिशं तां देवीं मम वाक्यतः ॥ ७ ॥
तस्याः प्रसादतः सर्वे भविष्यथ गतज्वराः ॥
एतमेवात्र पश्यामि उपायं नागसत्तमाः ॥
दैवो वा मानुषो वाऽपि नान्यो वो मुक्तिकारकः ॥ ८ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्तास्ततो नागा नागराजेन पार्थिव ॥
प्रणम्य तं ततो जग्मुरर्बुदं पर्वतं प्रति ॥ ९ ॥
ते भित्त्वा धरणीपृष्ठं पर्वते तदनन्तरम् ॥
निजग्मुर्बिलमार्गेण कृत्वा श्वभ्रे सुविस्तरम् ॥ 7.3.37.१० ॥
ततो धृतव्रताः सर्वे देवी भक्तिपरायणाः ॥
वसंति भक्तिसंयुक्ताश्चण्डिकाराधनाय ते ॥ ११ ॥
तस्थुस्तत्र सदा होमं कुर्वन्तो जाप्यमुत्तमम् ॥
एकाहारा निराहारा वायुभक्षास्तथा परे ॥ १२ ॥
दन्तोलूखलिनः केचिदश्मकुट्टास्तथा परे ॥
पञ्चाग्निसाधकाश्चान्ये सद्यः प्रक्षालकास्तथा ॥ १३ ॥
गीतं वाद्यं तथा चक्रुरन्ये देवाः पुरस्तदा ॥
अनन्यश्रदयोपेतांस्तान्दृष्ट्वा पन्नगोत्तमान् ॥ १४ ॥
ततो देवी सुसन्तुष्टा वाक्यमेतदुवाच ह ॥ १५ ॥ ॥
॥ देव्युवाच ॥ ॥
परितुष्टास्मि वो वत्साः किमर्थं तप्यते तपः ॥
वरयध्वं वरं मत्तो यः स्थितो भवतां हृदि ॥ १६ ॥
॥ नागा ऊचुः ॥ ॥
मातृशापेन संतप्ता वयं देवि निराश्रयाः ॥
नागराजसमादेशाच्छरणं त्वां समागताः ॥ १७ ॥
सा त्वं रक्ष भयात्तस्माच्छापवह्निसमुद्भवात् ॥
वयं मात्रा पुरा शप्ताः कस्मिंश्चित्कारणान्तरे ॥
पारिक्षितस्य यज्ञे वः पावको भक्षयिष्यति ॥ १८ ॥
॥ देव्युवाच ॥ ॥
यावत्तस्य भवेद्यज्ञ स्तावद्यूयं ममान्तिके ॥
संतिष्ठत विना भीत्या भोगान्भुङ्ध्वं सुपुष्कलान् ॥ १९ ॥
समाप्ते च क्रतौ भूयो गंतारः स्वं निकेतनम् ॥
युष्माभिर्भेदितं यस्मादेतत्पर्वतकन्दरम् ॥ 7.3.37.२० ॥
नागह्रदं तु तत्तीर्थमेतद्भावि धरातले ॥
अत्र यः श्रावणे मासि पञ्चम्यां भक्तितत्परः ॥ २१ ॥
करिष्यति नरः स्नानं तस्य नाहिकृतं भयम् ॥
भविष्यति पुनः श्राद्धात्पितॄन्संतारयिष्यति ॥ २२ ॥
ये भोगा भूतले ख्याता ये दिव्या ये च मानुषाः ॥
नरो नित्यं लभिष्यति न संशयः ॥ २३ ॥
॥ पुलस्त्य उवाच ॥ ॥
ततो हृष्टा बभूवुस्ते मुक्त्वा तद्दारुणं भयम् ॥
देव्याः शरणमापन्नास्तस्थुस्तत्र नगोत्तमे ॥ २४ ॥
ततः कालेन महता सत्रे पारिक्षितस्य च ॥
निर्वृत्ते ते तदा जग्मुः सुनिर्वृत्ता रसातलम् ॥ २५ ॥
देव्या चैवाभ्यनुज्ञाताः प्रणिपत्य मुहुर्मुहुः ॥
कृच्छ्रात्पार्थिवशार्दूल तद्भक्त्या निश्चलीकृताः ॥ २६ ॥
अद्यापि कृष्णपंचम्यां श्रावणे मासि पार्थिव ॥
सान्निध्यं तत्र कुर्वंति देवीदर्शनलालसाः ॥ २७ ॥
तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् ॥
स्नानं च पार्थिवश्रेष्ठ य इच्छेच्छ्रेय आत्मनः ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे नागोद्भवतीर्थमाहात्म्य वर्णनंनाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥