स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः २०

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेत चंद्रेशं प्रभासं नृपसत्तम ॥
प्रभा तत्र पुरा प्राप्ता चंद्रेण सुमहात्मना ॥ १ ॥
दक्षस्य कन्यका राजन्सप्तविंशतिसंख्यया ॥
ऊढाश्चंद्रेण ताः सर्वा अश्विनीप्रमुखाः पुरा ॥ २ ॥
तासां मध्ये च रोहिण्या सह रेमे स नित्यदा ॥
त्यक्ताः सर्वाश्च चंद्रेण दक्षकन्याः सुदुःखिताः ॥
गत्वा स्वपितरं नत्वा प्राहुरस्राविलेक्षणाः ॥ ३ ॥
वयं त्यक्ताः प्रजानाथ निर्दोषाः पतिना ततः ॥
शरणं त्वामनुप्राप्ता दुःखेन महतान्विताः ॥ ४ ॥
गतिर्भव सुरश्रेष्ठ सर्वेषां त्वं हितं कुरु ॥
अस्माकमुपदिश्यैनं चंद्रं च रोहिणीरतम् ॥ ५ ॥
॥ पुलस्त्य उवाच ॥ ॥
स तासां वचनं श्रुत्वा गतो यत्र निशाकरः ॥
अब्रवीच्च समं पश्य सर्वासु तनयासु मे ॥ ६ ॥
अथ व्रीडासमायुक्तश्चंद्रस्तं प्रत्यभाषत ॥
तव वाक्यं करिष्यामि दक्ष गच्छ नमोस्तु ते ॥ ७ ॥
गते दक्षे ततो भूयश्चंद्रमा रोहिणीरतः ॥
त्यक्त्वा च कन्यकाः सर्वाः प्रजापतिसमुद्भवाः ॥ ८ ॥
अथ गत्वा पुनः सर्वा दक्षमूचुः सुदुःखिताः ॥
न कृतं तव वाक्यं वै चंद्रेणैव दुरात्मना ॥ ९ ॥
दौर्भाग्यदुःखसंतप्ता मरिष्याम न संशयः ॥
अनेन जीवितेनापि मरणं निश्चयं भवेत् ॥ 7.3.20.१० ॥
॥ पुलस्त्य उवाच ॥ ॥
अथ रोषसमायुक्तो दक्षो गत्वाऽब्रवीद्विधुम् ॥
मम वाक्यं त्वया चंद्र यस्मात्पाप कृतं न हि ॥ ११ ॥
क्षयमेष्यसि तस्मात्त्वं यक्ष्मणा नास्ति संशयः॥
एवं दत्त्वा ततः शापं गतो दक्षः स्वमालयम् ॥ १२ ॥
यक्ष्मणा व्यापितश्चंद्रः क्षयं याति दिनेदिने ॥
क्षीणो द्युतिविहीनस्तु चिंतयामास चंद्रमाः ॥ १३ ॥
कि कर्त्तव्यं मया तत्र ह्यस्मिञ्छापे सुदारुणे ॥
अथ किं पूजयिष्यामि सर्वकामप्रदं शिवम् ॥ १४ ॥
स एवं निश्चयं कृत्वा गतोर्बुदमथाचलम् ॥
तपस्तेपे जितक्रोधो जपहोमपरायणः ॥ १५ ॥
तस्मै तुष्टो महादेवो वर्षाणामयुते गते ॥
अब्रवीद्वरदोऽस्मीति ततोऽस्मै दर्शनं ददौ ॥ १६ ॥
॥ ईश्वर उवाच ॥ ॥
वरं वरय भद्रं ते यत्ते मनसि वर्तते ॥
तव दास्याम्यहं चंद्र यद्यपि स्यात्सुदुर्ल्लभम्॥ १७ ॥
॥ चंद्र उवाच॥ ॥
व्याधिक्षयं सुरश्रेष्ठ कुरु मे त्रिपुरांतक ॥
यक्ष्मणा व्यापितो देहो ममायं च जगत्पते ॥ १८ ॥
॥ ईश्वर उवाच ॥ ॥
दक्षशापेन ते चंद्र यक्ष्मा काये व्यवस्थितः ॥
न शक्तो ह्यन्यथा कर्तुं शापस्तस्य महात्मनः ॥१९॥
तस्मात्त्वं तस्य ताः सर्वाः कन्यका मम वाक्यतः ॥
निशाकर समं पश्य तव व्याधिर्गमिष्यति ॥ 7.3.20.२० ॥
कृष्णे क्षयश्च ते चंद्र शुक्ले वृद्धिर्भविष्यति ॥
वरं वरय भद्रं ते अन्यमिष्टं सुदुर्ल्लभम्॥२१ ॥
॥ चंद्र उवाच ॥ ॥
चंद्रग्रहे नरो योऽत्र सोमवारे च शंकर ॥
भक्त्या स्नानं करोत्येव स यातु परमां गतिम् ॥ २२ ॥
पिण्डदानेन देवेश स्वर्गं गच्छंतु पूर्वजाः ॥
प्रसादात्तव देवेश तीर्थं भवतु मुक्तिदम् ॥ २३ ॥
॥ ईश्वर उवाच ॥ ॥
भविष्यंति नरोऽत्रैव विपाप्मानो निशाकर ॥
यस्मात्प्रभा त्वया प्राप्ता तीर्थेऽस्मिन्विमलोदके॥ २४ ॥
प्रभासतीर्थं विख्यातं तस्मादेतद्भविष्यति॥
यत्र सोमग्रहे प्राप्ते सोमवारे विशेषतः ॥ २५ ॥
करिष्यंति नराः स्नानं ते यास्यंति परां गतिम् ॥
येऽत्र श्राद्धं करिष्यंति पिंडदानं तथा नराः ॥ ॥ २६ ॥
गयाश्राद्धसमं पुण्यं तेषां चंद्र भविष्यति ॥
तथा दानं प्रकर्तव्यं सोम लोकैर्ग्रहे तव ॥ २७ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्त्वा विरूपाक्षस्तत्रैवांतरधीयत ॥
चन्द्रोऽपि बुभुजे सर्वाः पत्नीश्च दक्षसंभवाः ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे चंद्रप्रभासतीर्थमाहात्म्यवर्णनंनाम विंशोऽध्यायः ॥ २० ॥ ॥