स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः १२

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ रूपतीर्थमनुत्तमम् ॥
सर्वपापहरं नॄणां रूपसौभण्यदायकम्॥ १ ॥
तत्र पूर्वं वपुर्नाम्ना लोके ख्याता वराप्सराः ॥
सिद्धिं गता महाराज यथा पूर्वं निगद्यते ॥ २ ॥
पुराऽऽसीत्काचिदाभीरी विरूपा विकृतानना ॥
लम्बोदरी च कुग्रीवा स्थूलदंतशिरोरुहा ॥ ३ ॥
एकदा फलमादातुं भ्रममाणाऽर्बुदाचले ॥
माघशुक्लतृतीयायां पतिता गिरिनिर्झरे ॥ ४ ॥
दिव्यमाल्यांबरधरा दिव्यैरंगैः समन्विता ॥
पद्मनेत्रा सुकेशांता सर्वलक्षणलक्षिता ॥ ५ ॥
सा संजाता महाराज तीर्थस्यास्य प्रभावतः ॥
एतस्मिन्नेव काले तु शक्रस्तत्र समागतः ॥ ६ ॥
क्रीडार्थं पर्वतश्रेष्ठे तां ददर्श शुभेक्षणाम् ॥
ततः कामशरैर्विद्धस्तामुवाच सुमध्यमाम् ॥ ७ ॥
॥ इन्द्र उवाच ॥ ॥
का त्वं वद वरारोहे किमर्थं त्वमिहागता ॥
देवी वा नागकन्या वा सिद्धा विद्याधरी तु वा ॥ ८ ॥
मनो मेऽपहृतं सुभ्रूस्त्वया च पद्मनेत्रया ॥
शक्रोऽहं सर्वदेवेशो भज मां चारुहासिनि ॥ ९ ॥
॥ नार्युवाच ॥ ॥
आभीरी त्रिदशाधीश तथाहं बहुभर्तृका ॥
फलार्थं तु समायाता पतिता गिरिनिर्झरे ॥ 7.3.12.१० ॥
स्नात्वा रूपमिदं प्राप्ता सुरूपं च शुभं मया ॥
दुर्ल्लभस्त्वं हि देवानां किं पुनर्मर्त्यजन्मनाम् ॥ ११ ॥
वशगास्ते सुराः सर्वे मयि किं क्रियते स्पृहा ॥
भज मां त्रिदशाधीश यथाकामं सुराधिप ॥ १२ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्तस्तया शक्रः कामयामास तां तदा ॥
निवृत्तमदनो भूत्वा तामुवाच सुमध्यमाम् ॥ १३ ॥
॥ इन्द्र उवाच ॥ ॥
वरं वरय कल्याणि यत्ते मनसि वर्त्तते ॥
विनयात्तव तुष्टोऽहं दास्यामि वरमुत्तमम् ॥ १४ ॥
॥ नार्युवाच ॥ ॥
माघशुक्लतृतीयायां नरो वा वनिता तथा ॥
स्नानं यः कुरुते भक्त्या प्रीताः स्युः सर्वदेवताः ॥ १५ ॥
सुरूपं जायतां तेषां दुर्ल्लभं त्रिदशैरपि ॥
मां नय त्वं सहस्राक्ष सुरावासं सुराधिप ॥१६॥
॥ पुलस्त्य उवाच ॥ ॥
एवमस्त्विति तामुक्त्वा गृहीत्वा तां सुराधिपः ॥
विमाने च तया सार्द्धं जगाम त्रिदिवं प्रति ॥ १७ ॥
वपुः प्राप्तं तया यस्मात्तस्मात्पा र्थिवसत्तम ॥
नाम्ना वपुरिति ख्याता सा बभूव वराप्सराः ॥ १८ ॥
माघशुक्लतृतीयायां देवास्तस्मिञ्जलाशये ॥
स्नानं सर्वे प्रकुर्वंति प्रभाते भक्तिसंयुताः ॥१९॥
तत्रान्या देवकन्याश्च सिद्धयक्षांगनास्तथा ॥
यस्तत्र कुरुते स्नानं तस्मिन्काले नराधिप ॥7.3.12.२०॥
रूपं च लभते तादृग्यादृग्लब्धं तया पुरा ॥
सर्वे तत्र भविष्यंति सिद्धविद्याधरोरगाः ॥ २१ ॥
तस्यैव पूर्वदिग्भागे बिलमस्ति सुशोभनम् ॥
यत्रागत्य प्रकुर्वंति स्नानं पातालकन्यकाः। ॥२२॥
तत्र स्नात्वा गृहीत्वापो बिले तस्मिन्व्रजंति ताः ॥
तत्र वैनायके पीठे महत्पाषाणजं जलम्॥२३॥
तेनोदकेन संयुक्तः सिद्धो भवति मानवः ॥
गृहीत्वा तज्जलं यस्तु यत्र यत्राभिगच्छति ॥ २४ ॥
स्वर्गे वा भूतले वापि न केनापि प्रधृष्यते ॥
तत्रास्ति विवरद्वारे तिलकोनाम पादपः ॥ २५ ॥
तस्य पुष्पैः फलैश्चैव सर्वं कार्यं प्रसिद्ध्यति ॥
भक्षणाद्धारणाद्वापि सिद्धो भवति मानवः ॥२६॥
तस्मिन्बिले तु पाषाणाः समन्ताच्छंखसन्निभाः ॥
तेनोदकेन संस्पृष्टा भवंति च हिरण्मयाः ॥ २७ ॥
वन्ध्या नारी जलं तत्र या पिबेत्तिलकान्वितम् ॥
अपि वर्षशताब्दा च सद्यो गर्भवती भवेत्॥ ॥ २८ ॥
व्याधिग्रस्तोऽपि यो मर्त्त्यः स्नानं तत्र समाचरेत् ॥
नीरोगो जायते सद्यो ग्रहग्रस्तो विमुच्यते ॥ २९ ॥
भूतप्रेतपिशाचानां दोषः सद्यः प्रणश्यति ॥
तेनोदकेन संस्पृष्टे सर्वं नश्यति दुष्कृतम् ॥ 7.3.12.३० ॥
अपि कीटपतंगा ये पिशाचाः पक्षिणो मृगाः ॥
तेनोदकेन ये स्पृष्टाः सद्यो यास्यंति सद्गतिम् ॥ ३१ ॥
॥ ययातिरुवाच ॥ ॥
अप्यद्भुतमिदं ब्रह्मन्माहात्म्यं भवता मम ॥
कथितं रूपतीर्थस्य न भूतं न भविष्यति ॥ ॥ ३२ ॥
किमत्र कारणं ब्रह्मन्सर्वेभ्योऽप्यधिकं स्मृतम् ॥
सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि मे ॥ ३३ ॥
॥ पुलस्त्य उवाच ॥ ॥
तत्र पूर्वं तपस्तप्तमदित्या नृपसत्तम ॥
इन्द्रे राज्यपरिभ्रष्टे बलौ त्रैलोक्यनायके ॥
अवतीर्णश्चतुर्बाहुरदित्यां नृपसत्तम ॥ ३४ ॥
तस्मिञ्जाते महाविष्णावदित्या चासुरान्तके ॥
गुप्तया विवरद्वारे भयाद्दानवसंभवात् ॥ ३५ ॥
जातमात्रो हरिस्तस्मिन्स्थापितो निर्झरे तया ॥
तस्मात्पवित्रतां प्राप्तं तीर्थं नॄणामभीष्टदम् ॥ ३६ ॥
न चान्यत्कारणं राजन्सत्यमेतन्मयोदितम् ॥
माघशुक्लतृतीयायां तत्र जातस्त्रिविक्रमः ॥ ३७ ॥
तिलकः सर्व वृक्षाग्र्यः पुत्रवत्परिपालितः ॥
अदित्या सेवितो नित्यं स्वहस्तेन जलैः शुभैः ॥ ३८ ॥
एतत्ते सर्वमाख्यातं तीर्थमाहात्म्यमुत्तमम् ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
सर्वकामप्रदं नॄणामिह लोके परत्र च ॥ ३९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे रूपतीर्थमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥