स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३६४

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि संवर्तेश्वरमुत्तमम् ॥
इन्द्रेश्वरात्पश्चिमतः पूर्वतश्चार्कभास्करात ॥ १ ॥
तं दृष्ट्वा तु महादेवं स्नात्वा पुष्करिणीजले ॥
दशानामश्वमेधानां फलमाप्नोति मानवः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संवर्तेश्वरमाहात्म्यवर्णनंनाम चतुष्षष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३६४ ॥