स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३५६

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शृंगेश्वरमनुत्तमम् ॥
शुकस्थानस्य सान्निध्ये सर्वपातकनाशनम् ॥ १ ॥
स्नात्वा तत्रैव विधिवच्छृंगेशं पूजयेन्नरः ॥
मुक्तः स्यात्पातकैः सर्वैर्ऋष्यशृंगो यथा पुरा ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शृंगेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५६ ॥