स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३५४

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि देवगुप्तेश्वरं प्रिये ॥
तत्र पश्चिमवायव्ये यत्र सोमोऽकरोत्तपः ॥ १ ॥
गुप्तो भूत्वा कुष्ठरोगाल्लज्जयाधोमुखः स्थितः ॥
दिव्यं वर्षसहस्रं तु प्रभासक्षेत्र उत्तमे ॥ २ ॥
ततः प्रत्यक्षतां यातः सर्वदेवपतिः शिवः ॥
तुष्टो बभूव चंद्रस्य क्षयनाशं तथाऽकरोत् ॥ ३ ॥
क्षयरोगविनिर्मुक्तस्ततोऽभून्मृगलांछनः ॥
प्रतिष्ठाप्य महालिंगं सुरासुरनमस्कृतम् ॥ ४ ॥
गुप्तस्तेपे तपो यस्मात्तस्माद्गुप्तेश्वरः स्मृतः ॥
सर्वकुष्ठहरो देवो दर्शनात्स्पर्शनादपि ॥ ५ ॥
सोमवारे विशेषेण यस्तल्लिंगं प्रपूजयेत् ॥
तस्यान्वयेऽपि देवेशि कुष्ठी कश्चिन्न जायते ॥ ६ ॥
इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुप्तेश्वरमाहात्म्यवर्णनंनाम चतुष्पञ्चाशदुत्तरत्रिशततमो ऽध्यायः ॥ ३५४ ॥