स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३४०

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तत्र स्थाने तु संस्थितम्॥
चण्डीश्वरं महालिंगं सर्वपातकनाशनम् ॥ १ ॥
तत्र शुक्लचतुर्द्दश्यां कार्तिके मासि भामिनि ॥
उपवासपरो भूत्वा यः करोति प्रजागरम् ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये चण्डीश्वरमाहात्म्यवर्णनं नाम चत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४० ॥