स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३२६

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्यैवोत्तरतः स्थितम् ॥
महाकालेश्वरं देवं सर्वरक्षाकरं परम् ॥ १ ॥
अधिष्ठाता पुरस्यास्य भैरवो रुद्ररूपधृक् ॥
दर्शे च पूर्णिमायां च महापूजां प्रकारयेत् ॥ २ ॥
महोदये नरः स्नात्वा महाकालं प्रपश्यति ॥
धनाढ्यो जायते लोके सप्तजन्मसहस्रकम् ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये महाकालमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२६ ॥