स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २७६
॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि ऋषितीर्थस्य सन्निधौ ॥
कामिकं हि परं क्षेत्रं देविकानाम नामतः ॥ १ ॥
महासिद्धिवनं तत्र ऋषिसिद्धसमावृतम् ॥
नानाद्रुमलताकीर्णं पर्वतैरुपशोभितम्॥ २ ॥
चंपकैर्बकुलैर्दिव्यैरशोकैः स्तबकैः परैः ॥
पुन्नागैः किंकिरातैश्च सुगन्धैर्नागकेसरैः ॥ ३ ॥
मल्लिकोत्पलपुष्पैश्च पाटलापारिजातकैः ॥
चूतचंपकपित्थैश्च श्रीफलैः पनसैस्तथा ॥ ४ ॥
खर्जूरैर्बदरैश्चान्यैर्मातुलिंगैः सदाडिमैः ॥
जंबीरैश्चैव दिव्यैश्च नारंगैरुप शोभितम्॥ ५ ॥
शिखिभिः कोकिलाभिश्च गीयमानं तु षट्पदैः ॥
मृगैर्ऋक्षैर्वराहैश्च सिंहैर्व्याघ्रैस्तथा परैः ॥ ६ ॥
श्वापदैर्विविधाकारैः कन्दरै र्गह्वरैस्तथा ॥
सुरासुरगणैः सिद्धैर्यक्षगन्धर्वपन्नगैः ॥ ७ ॥
अप्सरोरगनागैश्च बहुभिस्तु समाकुलम् ॥
केचित्स्तुवंति ईशं तु केचिन्नृत्यंति चाग्रतः ॥ ८ ॥
पुष्पैर्वृष्टिं तु मुञ्चंति मुखवाद्यानि चापरे ॥
हसंति चापरे हृष्टा गर्जंति च तथापरे ॥ ९ ॥
ऊर्द्ध्वबाहवस्तथा चान्ये अन्ये ध्यायंति तद्गताः ॥
तस्मिन्स्थानं महादेवि देविकायास्तटे शुभे ॥ 7.1.276.१० ॥
उमापतीश्वरो नाम तत्राहं संस्थितः सदा ॥
युगेयुगे सदा पूर्णे कल्पे मन्वन्तरे तथा ॥ ११ ॥
न त्यजामि सदा देवि देविकायास्तटं शुभम् ॥
दुर्ल्लभं सर्वलोकेऽस्मिन्पवित्रं सुप्रियं हि मे ॥ १२ ॥
त्वया सह स्थितश्चाहं तस्मि न्स्थाने वरानने ॥
उमया युक्तदेहत्वात्तेन ख्यातं उमापतिः ॥ १३ ॥
पुष्यमासे त्वमावस्यां दद्याच्छ्राद्धं समाहितः ॥
न पश्यामि क्षयं तस्य तस्मिन्दत्तस्य पार्वति ॥ १४ ॥
ब्रह्महत्यासहस्रं तु तस्य दर्शनतो व्रजेत् ॥
गोभूहिरण्यवासांसि तत्र दद्याद्विचक्षणः ॥ १५ ॥
स एकः परमः पुत्रो यो गत्वा तत्र सुन्दरि ॥
ददेच्छ्राद्धं पितॄणां च तस्यांतो नैव विद्यते ॥ १६ ॥
देवैः सर्वैः समाहूता स्नानार्थं सा सरिद्वरा ॥
देविकेति समाख्याता तेन सा पापनाशिनी ॥ १७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकायामुमापतिमाहात्म्यवर्णनंनाम षट्सप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७६ ॥