स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २६९

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि विदुरस्याश्रमं महत् ॥
यत्राकरोत्तपो रौद्रं विदुरो धर्म मूर्त्तिमान् ॥ १ ॥
प्रतिष्ठाप्य महादेवं लिंगं त्रिभुवनेश्वरम् ॥
तं दृष्ट्वा मानवो देवि सर्वान्कामानवाप्नुयात् ॥२॥
विदुराट्टालकं नाम गणगंधर्वसेवितम् ॥
द्वादशस्थानकं स्थानं नाल्पपुण्येन लभ्यते ॥ ३ ॥
नावर्षणं भवेत्तत्र कदाचिदपि पार्वति ॥
लिंगानि तत्र दिव्यानि पश्येत्पापोपशांतये ॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये विदुराश्रम माहात्म्यवर्णनंनामैकोनसप्तत्युत्तरद्विशततमोऽध्यायः ॥२६९॥