स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २६३

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि च्छायालिंगमिति स्मृतम् ॥
उत्तरे न्यंकुमत्याश्च बह्वाश्चर्यं महत्फलम् ॥ १ ॥
तं दृष्ट्वा मानवो देवि मुच्यते पंचपातकैः ॥
सार्द्धद्वादशहस्तं तु योजनत्रितयेन तु ॥
न पश्यंति महादेवि पापिष्ठा ये तु मानवाः ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये छायालिंग माहात्म्यवर्णनंनाम त्रिषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६३ ॥