स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २५१

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शंकरादित्यमुत्तमम् ॥
गंगेश्वरस्य पूर्वेण शंकरेण प्रतिष्ठितम् ॥ १ ॥
षष्ठ्यां चैव तु शुक्लायामेनं यः पूजयिष्यति ॥
गमिष्यति परं स्थानं यत्र देवो दिवाकरः ॥ २ ॥
रक्तचंदनमिश्रैश्च रक्तपुष्पैः समाहितः ॥
ताम्रपात्रे समाधाय योऽर्घ्यं दास्यति मानवः ॥
स यास्यति परां सिद्धिं न च याति दरिद्रताम्॥ ३ ॥
तस्मात्सर्वप्रयत्नेन तस्मिन्क्षेत्रे वरानने ॥
पूजयेच्छंकरादित्यं सर्वकामफलप्रदम् ॥ ४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंकरादित्यमाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५१ ॥