स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २१२

विकिस्रोतः तः

ईश्वर उवाच ॥ ॥
पुलहेश्वरात्ततो देवि नैर्ऋते धनुषाष्टके ॥
क्रत्वीश्वरेतिनामानं महाक्रतुफलप्रदम् ॥१॥
तं दृष्ट्वा मानवो देवि पौंडरीकफलं लभेत् ॥
सप्तजन्मनि दारिद्र्यं न दुःखं तत्र जायते ॥२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्रत्वीश्वरमाहात्म्यवर्णनंनाम द्वादशोत्तरद्विशततमोऽध्यायः॥ २१२॥