स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १८२

विकिस्रोतः तः

ततो मातृगणान्पश्येद्वसुनन्दादिनामतः ॥
अर्क स्थलसमीपस्थान्दक्षिणे नातिदूरतः ॥ १ ॥
आश्वयुक्छुक्लपक्षे तु नवम्यां नियतात्मवान् ॥
यस्ताः पूजयते मातॄर्विधिना भावितात्मवान् ॥ २ ॥
स समृद्धिमवाप्नोति दुरापामकृतात्मभिः ॥
तत्रैव संस्थितं पश्येच्छ्रीमुखं विवरप्रियम् ॥ ३ ॥
तस्मिन्नेव दिने पूज्यं सिद्धिकामैर्नरैः सदा ॥
एतत्पूर्वं मयाख्यातं तव विस्तरतः प्रिये ॥ ४ ॥
तस्मिन्नेव दिने पूज्यं तीर्थयात्राप्रसंगतः ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये वसुनन्दामातृगणश्रीमुखविवर माहात्म्यवर्णनंनाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥ ॥ १८२ ॥