स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १७७

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वदिग्भागे लकुलीशस्तु मूर्तिमान् ॥
स्वयं तिष्ठति देवेशि कृत्वा घोरं तपः पुरा ॥ १ ॥
संस्थितः पापशमने तत्र स्थाने स्थलोपरि ॥
कार्तिक्यां कृत्तिकायोगे यस्तं पूजयते नरः ॥ २ ॥
स पूज्यते महादेवि सर्वैरपि सुरासुरैः ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लकुलीशमाहात्म्यवर्णनंनाम सप्तसप्तत्युत्तरशततमो ऽध्यायः ॥ १७७ ॥