स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १६४

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्मात्पूर्वेण संस्थितम् ॥
महापापौघशमनं पूजितं सर्वकामदम् ॥ १ ॥
 अश्विनेश्वरनामानं धनुषां पंचके स्थितम् ॥
सर्वरोगप्रशमनं दृष्टं सर्वार्थसाधकम् ॥ २ ॥
ये केचिद्रोगिणो लोके तेषां तद्भेषजं महत् ॥
माघमासे द्वितीयायां दर्शनं तस्य दुर्लभम् ॥ ३ ॥
तस्मात्पश्येच्च तद्भक्त्या यदि श्रेयोऽभिकांक्षितम् ॥
महापापौघशमनं पूजितं सर्वकामदम् ॥ ४ ॥
इति लिङ्गद्वयं देवि सूर्यपुत्रप्रतिष्ठितम् ॥
तस्मिन्नेव दिने पश्येत्संयतात्मा नरोत्तमः ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽश्विनेश्वरमाहात्म्यवर्णनंनाम चतुःषष्ट्युत्तरशततमोऽध्यायः ॥ १६४ ॥