स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १४०

विकिस्रोतः तः

ततो गच्छेन्महादेवि नदीं चित्रपथां ततः ॥
ब्रह्मकुण्डसमीपस्थां चित्रादित्यस्य मध्यतः ॥ १ ॥
यदा च चित्रः संनीतो यमदूतैः सुरप्रिये ॥
सशरीरो महाप्राज्ञो यमादेशपरायणैः ॥ २ ॥
एवं ज्ञात्वा तु तत्रस्था भगिनी तस्य दुःखिता ॥
चित्रा नदी ततो भूत्वा स्वसा तस्य महात्मनः ॥ ३ ॥
प्रविष्टा सागरे देवि अन्वेषन्ती च बांधवम् ॥
ततश्चित्रपथानाम तस्याश्चक्रुर्द्विजातयः ॥ ४ ॥
एवं तत्र समुत्पन्ना सा नदी वरवर्णिनि ॥ ५ ॥
तस्यां स्नात्वा नरो यस्तु चित्रादित्यं प्रपश्यति ॥
स याति परमं स्थानं यत्र देवो दिवाकरः ॥ ६ ॥
अस्मिन्कलियुगे देवि अंतर्धानं गता नदी ॥
प्रावृट्काले च दृश्येत दुर्लभं तत्र दर्शनम् ॥ ७ ॥
स्नानं दानं विशेषेण सर्वपातकनाशनम् ॥ ८ ॥
भुक्तो वाप्यथवाऽभुक्तो रात्रौ वा यदि वा दिवा ॥
पर्वकालेऽथवाऽकाले पवित्रोऽप्यथवाऽशुचिः ॥ ९ ॥
यदैव दृश्यते तत्र नदी चित्रपथा प्रिये ॥
प्रमाणं दर्शनं तस्या न कालस्तत्र कारणम् ॥ 7.1.140.१० ॥
दृष्ट्वा नदीं महादेवि पितरः स्वर्गसंस्थिताः ॥
गायंति तत्र सामानि नृत्यन्ति च हसंति च ॥ ११ ॥
अस्माकं वंशजः कश्चिच्छ्राद्धमत्र करिष्यति ॥
यावत्कल्पं तथाऽस्माकं प्रीतिमुत्पादयिष्यति ॥ १२ ॥
एवं ज्ञात्वा नरस्तत्र स्नानं श्राद्धं च कारयेत् ॥
सर्वपापविनाशार्थं पितॄणां प्रीतये तथा ॥ ॥ १३ ॥
इत्येतत्कथितं देवि यथा चित्रपथा नदी ॥
प्रभासक्षेत्रमासाद्य संस्थिता पापनाशिनी ॥ १४ ॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रपथानदीमाहात्म्यवर्णनंनाम चत्वारिंशदुत्तरशततमोऽध्यायः ॥। ॥ १४० ॥