स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १२८
॥ ईश्वर उवाच ॥
ततो गच्छेन्महादेवि सागरादित्यमुत्तमम् ॥
भैरवेशात्पश्चिमतो रुद्रान्मृत्युञ्जयात्तथा ॥ १ ॥
कामेशाद्दक्षिणाग्नेये नातिदूरे व्यवस्थितम् ॥
सर्व रोगप्रशमनं दारिद्र्यौघविघातकम् ॥
प्रतिष्ठितं महादेवि सगरेण महात्मना ॥ २ ॥
षष्टिपुत्रसहस्राणि यः प्रापारातिसूदनः ॥
सूर्यं तत्र समाराध्य सगरः पृथिवीपतिः ॥ ३ ॥
य एष सागरो देवि योजनायतविस्तरः ॥
आयतोऽशीतिसाहस्रं योजनानां प्रकीर्तितः ॥ ४ ॥
अस्मिन्मन्वन्तरे क्षिप्तः सागरैश्च चतुर्दिशम् ॥
तस्येदं कीर्तितं देवि नाम सागरसंज्ञितम् ॥ ५ ॥
यस्याद्यापीह गायन्ति पुराणे प्रथितं यशः ॥
तेनायं स्थापितो देवो भास्करो वारितस्करः ॥ ६ ॥
तं दृष्ट्वा न जडो नान्धो न दरिद्रो न दुःखितः ॥
न चैवेष्टवियोगी स्यान्न रोगी नैव पापकृत् ॥ ७ ॥
माघे मासि महादेवि सिते पक्षे जितेन्द्रियः ॥
षष्ठ्यामुपोषितो भूत्वा रात्रौ तस्याग्रतः स्वपेत् ॥ ८ ॥
विबुद्धस्त्वथ सप्तम्यां भक्त्या भानुं समर्चयेत् ॥
ब्राह्मणान्भोजयेद्भक्त्या वित्तशाठ्यं विवर्जयेत् ॥ ९ ॥
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ॥
तां गतिं न नरा यान्ति यां गताः सूर्यमाश्रिताः ॥ 7.1.128.१० ॥
भक्त्या तु पुरुषैः पूजा कृता दूर्वांकुरैरपि ॥
भानुर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ॥ ११ ॥
तस्मात्सर्वप्रयत्नेन सूर्यमेवाभिपूजयेत् ॥
जनकादयो यथा सिद्धिं गता भानुं प्रपूज्य च ॥ १२ ॥
सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ॥
सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ १३ ॥
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः ॥
श्वेतवर्णश्च वर्षासु पांडुः शरदि भास्करः ॥ १४ ॥
हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः ॥
एवं वर्णविशेषेण ध्यायेत्सूर्यं यथाक्रमम् ॥ १५ ॥
पूजयित्वा विधानेन यतात्मा संयतेन्द्रियः ॥
पठेन्नामसहस्रं तु सर्वपातकनाशनम् ॥ ॥ १६ ॥
॥ देव्युवाच ॥ ॥
नाम्नां सहस्रं मे ब्रूहि प्रसादाञ्छंकर प्रभो ॥
तुल्यं नामसहस्रस्य किमप्यन्यत्प्रकीर्तय ॥ १७ ॥
॥ ॥ ईश्वर उवाच ॥ ॥
अलं नामसहस्रेण पठस्वैवं शुभं स्तवम् ॥
यानि गुह्यानि नामानि पवित्राणि शुभानि च ॥
तानि ते कीर्तयिष्यामि प्रयत्नादवधारय ॥ १८ ॥
विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ॥
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ॥ १९ ॥
लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ॥
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥ 7.1.128.२० ॥
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ॥
एकविंशतिरित्येष स्तव इष्टो महात्मनः ॥ २१ ॥
शरीरारोग्यदश्चैव धनवृद्धियशस्करः ॥
स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ॥ २२ ॥
यश्चानेन महादेवि द्वे संध्येऽस्तमनोदये ॥
स्तौत्यर्कं प्रयतो भूत्वा सर्वपापैः प्रमुच्यते ॥
सर्वकामसमृद्धात्मा सूर्यलोकं स गच्छति ॥ २३ ॥
इत्येवं कथितं देवि माहात्म्यं सागरार्कजम् ॥
श्रुतं दुःखौघशमनं महापातकनाशनम् ॥ २४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सागरादित्यमाहात्म्यवर्णनंनामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥ ॥ १२८ ॥