स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १२६

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शांडिल्येश्वरमुत्तमम् ॥
ब्रह्मणः पश्चिमे भागे धनुषां षोडशांतरे ॥ १ ॥
महाप्रभावं लिङ्गं तद्दर्शनात्पापनाशनम् ॥ २ ॥
शांडिल्योनाम ब्रह्मर्षिः सारथिर्ब्रह्मणः स्मृतः ॥
तपस्वी स महातेजा ज्ञाननिष्ठो जितेन्द्रियः ॥ ३ ॥
स प्रभासं समासाद्य तपस्तेपे सुदारुणम् ॥
प्रतिष्ठाप्य महालिंगं सोमेशादुत्तरे स्थितम् ॥ ४ ॥
स स्वयं पूजयामास दिव्याब्दानां शतं प्रिये ॥
ततोऽभिलषितं प्राप्य कृतकृत्यो बभूव ह ॥ ५ ॥
नन्दीश्वरप्रसादेन अणिमादिगुणैर्युतः ॥
तं दृष्ट्वा तु नरः सद्यो विपापः संप्रजायते ॥ ६ ॥
बाल्ये वयसि यत्पापं वार्धक्ये यौवनेऽपि वा ॥
अज्ञानाज्ज्ञानतो वाऽपि यः करोति नरः प्रिये ॥
तत्सर्वं नाशमायाति शांडिल्येश्वरदर्शनात् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये शाण्डिल्येश्वरमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरशततमोऽध्यायः ॥ १२६ ॥