स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १११

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि पुष्करारण्यमुत्तमम् ॥
तस्मादीशानकोणस्थं धनुषां षष्टिभिः स्थितम् ॥ १ ॥
तत्र कुण्डं महादेवि ह्यष्टपुष्करसंज्ञितम् ॥
सर्व पापहरं देवि दुष्प्राप्यमकृतात्मभिः ॥ २ ॥
तत्र कुण्डसमीपे तु पुरा रामेशधीमता ।।
स्थापितं तन्महालिङ्गं रामेश्वर इति स्मृतम् ॥ ३ ॥
तस्य पूजनमात्रेण मुच्यते ब्रह्महत्यया ॥ ४ ॥
॥ श्रीदेव्युवाच ॥ ॥
भगवन्विस्तराद्ब्रूहि रामेश्वरसमुद्भवम् ॥
कथं तत्रागमद्रामः ससीतश्च सलक्ष्मणः ॥ ५ ॥
कथं प्रतिष्ठितं लिङ्गं पुष्करे पापतस्करे ॥
एतद्विस्तरतो ब्रूहि फलं माहात्म्यसंयुतम् ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
चतुर्विंशयुगे रामो वसिष्ठेन पुरोधसा ॥
पुरा रावणनाशार्थं जज्ञे दशरथात्मजः ॥ ७ ॥
ततः कालान्तरे देवि ऋषिशापान्महातपाः ॥
ययौ दाशरथी रामः ससीतः सहलक्ष्मणः ॥ ८ ॥
वनवासाय निष्क्रांतो दिव्यैर्ब्रह्मर्षिभिर्वृतः ॥
ततो यात्राप्रसंगेन प्रभासं क्षेत्रमागतः ॥ ९ ॥
तं देशं तु समासाद्य सुश्रांतो निषसाद ह ॥
अस्तं गते ततः सूर्ये पर्णान्यास्तीर्य भूतले ॥ 7.1.111.१० ॥
सुष्वापाथ निशाशेषे ददृशे पितरं स्वकम् ॥
स्वप्ने दशरथं देवि सौम्यरूपं महाप्रभम् ॥ ११ ॥
प्रातरुत्थाय तत्सर्वं ब्राह्मणेभ्यो न्यवेदयत् ॥
यथा दशरथः स्वप्ने दृष्टस्तेन महात्मना ॥ १२ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
वृद्धिकामाश्च पितरो वरदास्तव राघव ॥
दर्शनं हि प्रयच्छंति स्वप्नान्ते हि स्ववंशजे ॥ १३ ॥
एतत्तीर्थं महापुण्यं सुगुप्तं शार्ङ्गधन्वनः ॥
पुष्करेति समाख्यातं श्राद्धमत्र प्रदीयताम् ॥ १४ ॥
नूनं दशरथो राजा तीर्थे चास्मिन्समीहते ॥
त्वया दत्तं शुभं पिण्डं ततः स दर्शनं गतः ॥ १५ ॥
॥ ईश्वर उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा रामो राजीवलोचनः ॥
निमंत्रयामास तदा श्राद्धार्हान्ब्राह्मणाञ्छुभान् ॥ १६ ॥
अब्रवील्लक्ष्मणं पार्श्वे स्थितं विनतकंधरम् ॥
फलार्थं व्रज सौमित्रे श्राद्धार्थं त्वरयाऽन्वितः ॥ १७ ॥
स तथेति प्रतिज्ञाय जगाम रघुनंदनः ॥
आनयामास शीघ्रं स फलानि विविधानि च ॥ १८ ॥
बिल्वानि च कपित्थानि तिन्दुकानि च भूरिशः ॥
बदराणि करीराणि करमर्दानि च प्रिये ॥ १९ ॥
चिर्भटानि परूषाणि मातुलिंगानि वै तथा ॥
नालिकेराणि शुभ्राणि इंगुदीसंभवानि च ॥ 7.1.111.२० ॥
अथैतानि पपाचाशु सीता जनकनंदिनी ॥
ततस्तु कुतपे काले स्नात्वा वल्कलभृच्छुचिः ॥ २१ ॥
ब्राह्मणानानयामास श्राद्धार्हान्द्विजसत्तमान् ॥
गालवो देवलो रैभ्यो यवक्रीतोऽथ पर्वतः ॥ २२ ॥
भरद्वाजो वसिष्ठश्च जावालिर्गौतमो भृगुः ॥
एते चान्ये च बहवो ब्राह्मणा वेदपारगाः ॥ २३ ॥
श्राद्धार्थं तस्य संप्राप्ता रामस्याक्लिष्टकर्मणः ॥
एतस्मिन्नेव काले तु रामः सीतामभाषत ॥ २४ ॥
एहि वैदेहि विप्राणां देहि पादावनेजनम् ॥
एतच्छ्रुत्वाऽथ सा सीता प्रविष्टा वृक्षमध्यतः ॥ २५ ॥
गुल्मैराच्छाद्य चात्मानं रामस्यादर्शने स्थिता ॥
मुहुर्मुहुर्यदा रामः सीतासीतामभाषत ॥ २६ ॥
ज्ञात्वा तां लक्ष्मणो नष्टां कोपाविष्टं च राघवम् ॥
स्वयमेव तदा चक्रे ब्राह्मणार्ह प्रतिक्रियाम् ॥ ॥ २७ ॥
अथ भुक्तेषु विप्रेषु कृत पिंडप्रदानके ॥
आगता जानकी सीता यत्र रामो व्यवस्थितः ॥ २८ ॥
तां दृष्ट्वा परुषैर्वाक्यैर्भर्त्सयामास राघवः ॥
धिग्धिक्पापे द्विजांस्त्यक्त्वा पितृकृत्यमहोदयम् ॥
क्व गताऽसि च मां हित्वा श्राद्धकाले ह्युपस्थिते ॥ २९ ॥
॥ ईश्वर उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा भयभीता च जानकी ॥ 7.1.111.३० ॥
कृताञ्जलिपुटा भूत्वा वेपमाना ह्यभाषत ॥
मा कोपं कुरु कल्याण मा मां निर्भर्त्सय प्रभो ॥ ३१ ॥
शृणु यस्माद्विभोऽन्यत्र गता त्यक्त्वा तवान्तिकम् ॥
दृष्टस्तत्र पिता मेऽद्य तथा चैव पितामहः ॥ ३२ ॥
तस्य पूर्वतरश्चापि तथा मातामहादयः ॥
अंगेषु ब्राह्मणेन्द्राणामाक्रान्तास्ते पृथक्पृथक् ॥ ३३ ॥
ततो लज्जा समभवत्तत्र मे रघुनन्दन ॥
पित्रा तत्र महाबाहो मनोज्ञानि शुभानि च ॥ ३४ ॥
भक्ष्याणि भक्षितान्येव यानि वै गुणवन्ति च ॥
स कथं सुकषायाणि क्षाराणि कटुकानि च ॥
भक्षयिष्यति राजेन्द्र ततो मे दुःखमाविशत्॥ ३६ ॥
एतस्मात्कारणान्नष्टा लज्जयाऽहं रघूद्वह ॥
दृष्ट्वा श्वशुरवर्गं स्वं तस्मात्कोपं परित्यज ॥ ३६ ॥
तस्यास्तद्वचनं श्रुत्वा विस्मितो राघवोऽभवत् ॥
विशेषेण ददौ तस्मिञ्छ्राद्धं तीर्थे तु पुष्करे ॥ ३७ ॥
तत्र पुष्करसान्निध्ये दक्षिणे धनुषां त्रये ॥
लिंगं प्रतिष्ठयामास रामेश्वरमिति श्रुतम् ॥ ३५ ॥
यस्तं पूजयते भक्त्या गन्धपुष्पादिभिः क्रमात् ॥
स प्राप्नोति परं स्थानं य्रत्र देवो जनार्दनः ॥ ३९ ॥
किमत्र बहुनोक्तेन द्वादश्यां यत्प्रदापयेत् ॥
न तत्र परिसंख्यानं त्रिषु लोकेषु विद्यते ॥ 7.1.111.४० ॥
शुक्रांगारकसंयुक्ता चतुर्थी या भवेत्क्वचित् ॥
षष्ठी वात्र वरारोहे तत्र श्राद्धे महत्फलम् ॥ ४१ ॥
यावद्द्वादशवर्षाणि पितरश्च पितामहाः ॥
तर्पिता नान्यमिच्छन्ति पुष्करे स्वकुलोद्भवे ॥ ४२ ॥
तत्र यो वाजिनं दद्यात्सम्यग्भक्तिसमन्वितः ॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ४३ ॥
इति ते कथितं सम्यङ्माहात्म्यं पापनाशनम् ॥
रामेश्वरस्य देवस्य पुष्करस्य च भामिनि ॥ ४४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्यवर्णनंनामैकादशोत्तरशततमोऽध्यायः ॥ १११ ॥ ॥