स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०७३

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कुमारेश्वरमुत्तमम् ॥
लिंगं महाप्रभावं हि महापातकनाशनम् ॥ १ ॥
धनुषां त्रिंशता देवि वरुणान्नैऋते स्थितम् ॥
गौरीतपोवनाद्देवि दक्षिण स्थानसंस्थितम् ॥ २ ॥
षण्मुखेन महादेवि तत्र कृत्वा महत्तपः ॥
प्रतिष्ठितं महालिंगं कुमारेशस्ततोऽभवत् ॥ ३ ॥
यस्तं पूजयते भक्त्या मासमेकं निरन्तरम् ॥
षण्मासस्यार्चनेनैव यत्पुण्यमुपजायते ॥ ४ ॥
तत्पुण्यं सकलं तस्य कुमारेशार्चनात्सकृत् ॥
लभते दिवसैकेन विधिना यदि पूजयेत् ॥ ५ ॥
कामं क्रोधं तथा लोभं रागं त्यक्त्वा तु मत्सरम् ॥
ब्रह्मचारी यतिर्भूत्वा सकृदप्येनमर्चयेत् ॥ ६ ॥
एवं संपूजिते देवि सम्यग्यात्रा फलं लभेत् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुमारेश्वरमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥