स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०७१

विकिस्रोतः तः

ततो गच्छेन्महादेवि लिंगं तत्रैव संस्थितम् ॥
दक्षिणे वरुणेशस्य धनुषां त्रितये स्थितम् ॥१॥
भार्यया वरुणस्यैव उषा नाम्न्या वरानने ॥
कृत्वा तपो महाघोरं भर्तृदुःखपरीतया ॥ २ ॥
स्थापितं तु महल्लिंगं सर्वसिद्धिप्रदायकम्॥
उषेश्वरेति विख्यातं सर्वसिद्धिप्रपूजितम् ॥३॥
यस्तत्पूजयते भक्त्या लिंगं पापप्रणाशनम् ॥
महापापौघयुक्तोऽपि स गच्छेत्परमां गतिम् ॥४॥
स्त्रीणां सौभाग्यफलदं दुःखदौर्भाग्यना शनम् ॥ ५ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उषेश्वरमाहात्म्यवर्णनं नामैकसप्ततितमोऽध्यायः ॥ ७१ ॥