स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०६२

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तृतीयां चत्वरप्रियाम् ॥
ललितापूर्वदिग्भागे दशधन्वंतरे स्थिताम् ॥ १ ॥
क्षेत्रदूतीं महारौद्रीं रुद्रशक्तिं महाप्रभाम् ॥
क्षेत्ररक्षाविधौ तत्र मया मुक्तां तु मध्यतः ॥ २ ॥
कोटिभूतसमायुक्ता महाकाया महाप्रभा ॥
जीर्णे गृहे तथोद्याने प्रासादाट्टालके पथि ॥ ३ ॥
चत्वरेषु च सर्वेषु क्षेत्र मध्यस्थिता सती ॥
रात्रौ पर्यटते देवी भूतानां कोटिभिर्वृता ॥ ४ ॥
महानवम्यां यस्तत्र नारी वाथ नरोपि वा ॥
नानापूजोपचारैश्च पूजयेद्विधिवच्छुभाम् ॥ ५ ॥
तस्य तुष्टाऽखिलान्कामान्सादेवी संप्रदास्यति ॥
दंपत्योर्भोजनं तत्र देयं यात्राफलेप्सुभिः ॥९॥
इति संक्षेपतः प्रोक्तं माहा त्म्यं पापनाशनम् ॥
क्षेत्रदूत्यास्तृतीयायाः श्रुतमैश्वर्यकारकम् ॥ ७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चत्वरादेवीमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥