स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०६०

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
प्रभासक्षेत्रदूतीनां त्रितयं वरवर्णिनि ॥
अथ ते संप्रवक्ष्यामि शृणु ह्येकमनाः प्रिये ॥ १ ॥
प्रथमा मंगला देवी विशालाक्षी द्वितीयिका ॥
तथा चत्वरदेवी तु तृतीया परिकीर्तिता ॥ २ ॥
यथानुक्रमतः पूज्याः शक्तयस्ता वरानने ॥
प्रभासक्षेत्रयात्रायाः फलप्रेप्सुर्नरो यदि ॥ ३ ॥
॥ देव्युवाच ॥ ॥
कस्मिन्स्थाने स्थिता देव दूत्यस्ताः क्षेत्ररक्षिकाः ॥
कस्य ताः कथमाराध्याः कथं पूज्या जगत्पते ॥४॥ ॥
॥ ईश्वर उवाच ॥ ॥
ब्राह्मी तु मंगला प्रोक्ता विशालाक्षी तु वैष्णवी ॥
रौद्रीशक्तिः समाख्याता देवी सा चत्वरप्रिया ॥ ५ ॥
मंगला प्रथमं पूज्या अजादेव्युत्तरे स्थिता ॥
राह्वीशाद्दक्षिणेभागे नातिदूरे वरानने ॥ ६ ॥
सोमेश्वरप्रतिष्ठाप्य प्रारब्धे यज्ञकर्मणि ॥
सोमेन तत्र देवानामागता सा दिदृक्षया ॥ ७ ॥
ब्रह्मादीनां च सा यस्मान्मांगल्यं कृतवत्युमे ॥
तस्मात्सा मंगला प्रोक्ता सर्वमांगल्यदायिनी ॥ ८ ॥
तृतीयायां तु या नारी नरो वा पूजयिष्यति ॥
तस्याऽमंगल्यदुःखानि नाशं यास्यंति कृत्स्नशः ॥ ९ ॥
दम्पतीभोजनं तत्र फलदानं सकञ्चुकम् ॥
प्रशस्तं पृषदाज्यस्य प्राशनं पापनाशनम् ॥ 7.1.60.१० ॥
इति संक्षेपतः प्रोक्तं महाभाग्यं महोदयम् ॥
मंगलायाश्च माहात्म्यं सर्वपातकनाशनम् ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मङ्गलामाहात्म्यवर्णनंनाम षष्टितमोऽध्यायः ॥ ६० ॥