स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ००६

विकिस्रोतः तः

॥ देव्युवाच ॥ ॥
अत्यद्भुतं महादेव माहात्म्यं कथितं मम ॥
अपूर्वं देवदेवेश कदाचिन्न श्रुतं मया ॥ १ ॥
ब्रह्मांडे यानि लिंगानि कीर्तितानि त्वया मम ॥
तेषां प्रभावेनाधिक्यं सोमेशे तत्कथं वद ॥ २ ॥
किं प्रभावो महादेव क्षेत्रस्य च सुरेश्वर ॥
तन्मे ब्रूहि सुरेशान याथातथ्यं ममाग्रतः ॥३॥
॥ ईश्वर उवाच ॥ ॥
अतः परं प्रवक्ष्यामि रहस्यं परमं तव ॥
प्रभासक्षेत्रमाहात्म्यं सोमेशस्य वरानने ॥४॥
तीर्थानां परमं तीर्थं व्रतानां परमं व्रतम् ॥
जाप्यानां परमं जाप्यं ध्यानानां ध्यानमुत्तमम्॥५॥
योगानां परमो योगो रहस्यं परमं महत् ॥
तत्तेहं संप्रवक्ष्यामि शृणु ह्येकमना प्रिये॥६॥
सोमेशं परमं स्थानं पंचवक्त्रसमन्वितम् ॥
एतल्लिंगं न मुंचामि सत्यंसत्यं मयोदितम् ॥७॥
यच्च तत्परमं देवि ध्रुवमक्षयमव्ययम् ॥
सोमेशं तद्विजानीहि मा विकल्पमना भव॥८॥
निर्भयं निर्मलं नित्यं निरपेक्षं निराश्रयम् ॥
निरंजनं निष्प्रपंचं निःसंगं निरुपद्रवम्। ॥ ९ ॥
तल्लिंगमिति जानीहि प्रभासे संव्यवस्थितम् ॥
अपवर्गमविज्ञेयं मनोरम्यमनामयम् ॥ 7.1.6.१० ॥
नित्यं च कारणं देवं मखघ्नं सर्वतोमुखम् ॥
शिवं सर्वात्मकं सूक्ष्ममनाद्यं यच्च दैवतम् ॥ ११ ॥
आत्मोपलब्धिविज्ञेयं चित्तचिंताविवर्जितम् ॥
गमागमविनिर्मुक्तं बहिरंतश्च केवलम् ॥ १२ ॥
आत्मोपलब्धिविषयं स्तुतिगोचरवर्जितम् ॥
निष्कलं विमलात्मानं प्रकटं ज्ञानदीपकम् ॥१३॥
तल्लिंगमिति जानीहि प्रभासे सुरसुंदरि ॥
निरावकाशरहितं शब्दं शब्दांतगोचरम् ॥ १४ ॥
निष्कलं विमलं देवं देवदेवं सुरात्मकम् ॥
हेतुप्रमाणरहितं कल्पनाभाववर्जितम् ॥१५॥
चित्तावलोकविषयं बहिरंतरसंस्थितम् ॥
प्रभासे तं विजानीहि प्रणवं लिंगरूपिणम् ॥ १६ ॥
अनिष्पंदं महात्मानं निरानंदावलोकनम् ॥
लोकावलोकमार्गस्थं विशुद्धज्ञानकेवलम्॥१७॥
विद्याविशेषमार्गस्थमनेकाकारसंज्ञितम् ॥
स्वभावभावनाग्राह्यं भावातीतमलक्षणम् ॥१८॥
वाक्प्रपंचादिरहितं निष्प्रपञ्चात्मकं शिवम्॥
ज्ञानज्ञेयावलोकस्थं हेत्वाभासविवर्जितम्॥१९॥
अनाहतं शब्दगतं शब्दादिगणसंभवम् ॥
एवं सोमेश्वरं विद्धि प्रभासे लिंगरूपिणम् ॥ 7.1.6.२० ॥
शब्दब्रह्मगतं शान्तं स शब्दांतगमास्पदम् ॥
सर्वातिरिक्त विषयं सर्वध्यानपदे स्थितम् ॥ २१ ॥
अनादिमच्युतं दिव्यं प्रमाणातीत गोचरम् ॥
अधश्चोर्ध्वं गतं नित्यं जीवाख्यं देहसंस्थितम् ॥ २२ ॥
हृदादिद्वादशांतस्थं प्राणापानोदयास्तगम् ॥
अग्राह्यमिन्द्रियात्मानं निष्कलंकात्मकं विभुम् ॥२३॥
स्वरादिव्यंजनातीतं वर्णादिपरिवर्जितम् ॥
वाचामवाच्यविषयमहंकारार्द्धरूपिणम् ॥२४॥
अप्रतर्क्यमनुच्चार्यं कलनाकालवर्जितम् ॥
निःशब्दं निश्चलं सौम्यं देहातीतं परात्परम् ॥२५॥
भूतावग्रहरहितं भावाभावविवर्जितम् ॥
अविज्ञेयं परं सूक्ष्मं पञ्चपञ्चादिसंभवम् ॥ २६ ॥
अप्रमेयमनंताख्यमक्षयं कामरूपिणम् ॥
प्रभवं सर्वभूतानां बीजांकुरसमुद्भवम् ॥ २७ ॥
व्यापकं सर्वकामाख्यमक्षरं परमं महत् ॥
स्थूलसूक्ष्मविभागस्थं व्यक्ताव्यक्तं सनातनम् ॥ २८ ॥
कल्पकल्पान्तरहितमनादिनिधनं महत् ॥
महाभूतं महाकायं शिवं निर्वाणभैरवम् ॥ २९ ॥
एवं सदाशिवं विद्धि प्रभासे लिंगरूपिणम् ॥
योगक्रिया विनिर्मुक्तं मृत्युंजयमनादिमत् ॥ 7.1.6.३० ॥
सर्वोपसर्गरहितं सर्वतोव्यापकं शिवम् ॥
अव्यक्तं परतो नित्यं केवलं द्वैतवर्जितम् ॥ ३१ ॥
अनन्यतेजसाक्रांतं प्रभासक्षेत्रवासिनम्॥
भूरिस्वयंप्रभप्रख्यं सर्वतेजोऽधिकं हरम्॥३२॥
शरण्यंदेवमीशानमोंकारं शिवरूपिणम्॥
देवदेवं महादेवं पंचवक्त्रं वृषध्वजम्॥३३॥
निर्मलं मानसातीतं भावग्राह्यमनूपमम्॥
सदा शांतं विरूपाक्षं शूलहस्तं जटाधरम्॥३४॥
हृत्पद्मकोशमध्यस्थं शून्यरूपं निरञ्जनम् ॥
एवं सदाशिवं विद्धि प्रभासे लिङ्गरूपिणम् ॥ ३५ ॥
योऽसौ परात्परो देवो हंसाख्यः परिकीर्तितः ॥
नादाख्यः सुव्रते देवि सोऽस्मिन्स्थाने स्थितः स्वयम् ॥ ३६ ॥
एतदादिस्वरूपं च मया योगबलेन तु ॥
विज्ञातं देवि गदितं दिव्यमात्मानमात्मना ॥ ३७ ॥
ऋग्वेदस्थस्तु पूर्वाह्णे मध्याह्ने यजुषि स्थितः ॥
अपराह्णे तु सामस्थो ह्यथर्वस्थो निशागमे ॥ ३८ ॥
वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् ॥
तमेव विदित्वा न भवेत्तु मृत्युर्नान्यः पंथा विद्यते वै जनानाम् ॥ ३९ ॥
इतीरितस्ते तु महाप्रभावः सोमेशलिंगस्य कृतैकदेशः ॥
वृतं न चाब्दैर्बहुभिः सहस्रैर्वक्तुं च केनापि मुखैर्न शक्यम् ॥7.1.6.४०॥।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रोऽपीदं पठेद्यदि ॥
निर्मुक्तः सर्वपापेभ्यः सर्वान्कामानवाप्नुयात् ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीसोमेश्वरमहिमवर्णनं नाम षष्ठोऽध्यायः॥६॥